1-1-14 निपातः एकाज् अनाङ् प्रगृह्यम्
एकाच् अनाङ् निपातः प्रगृह्यम्
'आङ्' इति वर्जयित्वा अन्ये व्यञ्जनविरहिताः एकाचः निपाताः प्रगृह्यसंज्ञकाः भवन्ति ।
Except for the word आङ्, all other निपाताः that contain only one स्वर (and no व्यञ्जन) are known as प्रगृह्य.
एकश्चासावच्चेत्येकाच् । निपातो य एकाच् आङ्वर्जितःस प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिष्ठ। आ एवं नु मन्यसे । आ एवं किल तत्। निपात इति किम् ? चकारात्र। जहारात्र। एकाजिति किम्? प्राग्नये॒ वाच॑मीरय (ऋ०१०.१८७.१)। अनाङिति किम्? आ उदकान्तात् ओदकान्तात् ।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्॥
एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥
एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् <<ईदूदेद्द्विवचनं प्रगृह्यम्>> 1.1.11 इत्यतः <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् चतुर्थम् सूत्रम् । अनेन सूत्रेण विशिष्टानाम् निपातानाम् प्रगृह्यसंज्ञा विधीयते ।
<<निपात एकाजनाङ्>> - निपात एकाच् ।प्रगृह्यमित्यनुवर्तते, पुंलिङ्गतया च विपरिणम्यते । एकाश्चासावच्चेति कर्मधारयः । तदाह — एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वान्निपातः । स च आश्चर्ये वर्तत इत्यर्थः । इ इन्द्रः । उ उमेशः । इ इति उ इति निपातः । सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः ।अना॑ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति । आ एवमिति । पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः । ङित्त्विति । ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः । ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित् । अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः — भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्-॒ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥॑ इति॥एकोऽच् यस्ये॑ति बहुव्रीहिस्तु नाश्रितः, तथा सतिप्रेद॑मित्यादाबतिप्रसङ्गात् ।
' व्याहरति मृगः', 'व्यवहृपणोः समर्थयोः' इति निर्देशादेकाजिति कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्, तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज् विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; 'अजन्तो निपातः' इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति, एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति-'वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते' इति । तेन दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति । निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः । चकारारात्रेति - कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः, प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे व्यवस्थापयति । ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति चोक्तम् । क्रियायोगे - आ अ इतः उ एतः । प्रादिषु पठितः । मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः । मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ ओदकान्तात् । अभिविधौ - आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च - 'विना तेन मर्यादा, सह तेन इत्यभिविधिः' । 'आङ्मर्यादाभिविध्योः' इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥