3-4-13 ईश्वरे तोसुन्कसुनौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि तुमर्थे
तुमर्थे छन्दसीत्येव। ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धातोस्तोसुन्कसुन्प्रत्ययौ भवतः। ईश्वरोऽभिचरितोः। अभिचरितुमित्यर्थः। ईश्वरो विलिखः। विलेखितुम् इत्यर्थः। ईश्वरो वितृदः। वितर्दितुमित्यर्थः॥
ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥
वितृद इति । ठोतृदिर्हिंसानादरयोःऽ ॥