गतिश्च

1-4-60 गतिः च आ कडारात् एका सञ्ज्ञा निपाताः प्रादयः क्रियायोगे

Sampurna sutra

Up

निपाताः प्रादयः क्रियायोगे गतिः च ।

Neelesh Sanskrit Brief

Up

प्रादिगणस्य शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

The words belonging to the प्रादिगण are also called गति when used along with a verb.

Kashika

Up

गतिसंज्ञकाश्च प्रादयो भवन्ति क्रियायोगे। प्र॒कृत्य॑। प्रकृ॑तम्। यत् प्र॒क॒रोति॑। योगविभाग उत्तरार्थः। उत्तरत्र गतिसंज्ञैव यथा स्यात्, उपसर्गसंज्ञा मा भूत्। ऊरीस्यादित्यत्र <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> ८.३.८७ इति षत्वं प्रसज्येत। चकारः संज्ञासमावेशार्थः। प्रणी॑तम्। अ॒भिषि॑क्तम्। <<गतिरनन्तरः>> ६.२.४९ इति स्वरः,<<उपसर्गाद्०>> (८.४.१४, ८.३.६५) इति णत्वषत्वे च भवतः॥ कारिकाशब्दस्योपसंख्यानम्॥ कारिकाकृत्य। कारि॑काकृतम्। यत् का॑रिकाक॒रोति॑॥ पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्॥ पुनरुत्स्यूतं ॑ वा॑सो॒ दे॑य॒म् (मै० सं० १.७.२)। <<गतिर्गतौ>> ८.१.७० इति निघातो भवति। (उ॒शिग्दू॒तः) चनो॑ हितः (ऋ० ३.११.२)। <<गतिरनन्तरः>> ६.२.४९ इति स्वरः। गतिप्रदेशाः — <<कुगतिप्रदायः>> २.२.१८ इत्येवमादयः॥

Siddhanta Kaumudi

Up

प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥

Laghu Siddhanta Kaumudi

Up

प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। <<गतिकारकेतरपूर्वपदस्य यण् नेष्यते>> (वार्त्तिकम्) । शुद्धधियौ॥

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याम् <<गतिश्च>> 1.4.60 इत्यस्मात् आरभ्य <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति यावत्सु सूत्रेषु पाठितानाम् शब्दानां गतिः इति व्याकरणविशिष्टा संज्ञा दत्ता वर्तते । अस्मिन् प्रकरणे विद्यमानम् इदं प्रथमं सूत्रम् । गणपाठे पाठितस्य प्रादिगणस्य शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा प्रकृतसूत्रेण तेषाम् गतिः इति संज्ञा भवति । सर्वेऽपि गतिसंज्ञकाः <<ते प्राग्धातोः>> 1.4.80 इति सूत्रेण धातोः पूर्वम् एव उपयुज्यन्ते । प्रादिगणस्य आवली प्रादिगणे आहत्य द्वाविंशतिः (22) शब्दाः सन्ति - प्र, परा, अप, सम्, अनु, अव, निस्, निर् दुस्, दुर् वि, आङ्, नि, अधि, अपि अति सु उद् अभि प्रति परि उप एते सर्वेऽपि शब्दाः क्रियायाः योगे (तिङन्तस्य / कृदन्तस्य वा योगे) गतिसंज्ञकाः भवन्ति । यथा, प्रपतति इत्यत्र प्र इति गतिः, पराजितः इत्यत्र परा इति गतिः- इत्यादिकम् ।
सर्वेषाम् अपि प्रादीनाम् क्रियायोगे <<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु तस्याः प्रयोजनं भिन्नम्, गतिसंज्ञायाः प्रयोजनम् भिन्नं वर्तते । अष्टाध्याय्यां गतिसंज्ञायाः प्रयोगः गतिसंज्ञायाः प्रयोगः अष्टाध्याय्याम् सप्तसु सूत्रेषु कृतः अस्ति — 1. <<नमस्पुरसोर्गत्योः>> 8.3.40 2. <<गतिश्च>> 1.4.60 3. <<गतिरनन्तरः>> 6.2.49 4. <<गतिकारकोपपदात् कृत्>> 6.2.139 5. <<सगतिरपि तिङ्>> 8.1.68 6. <<गतिर्गतौ>> 8.1.70 7. <<कुगतिप्रादयः>> 2.2.18 गतिसंज्ञायाः प्रयोजनम् अष्टाध्याय्यां गतिसंज्ञायाः आहत्य त्रीणि प्रयोजनानि सन्ति - समासविधानम्, स्वरविधानं, सकारादेशः इति । क्रमेण उदाहरणानि एतानि -

  • 1. समासविधानम् - <<कुगतिप्रादयः>> 2.2.18 इत्यनेन गतिसंज्ञकाः शब्दाः समर्थैः सुबन्तैः सह समस्यन्ते, येन तत्पुरुषसमासः सिद्ध्यति । यथा, स्पष्टीकृतम् इत्यस्मिन् समस्तपदे स्पष्टी इति गतिसंज्ञकेन सह समासः कृतः अस्ति ।
  • 2. स्वरविधानम् - <<गतिरनन्तरः>> 6.2.49, <<गतिकारकोपपदात् कृत्>> 6.2.139, <<सगतिरपि तिङ्>> 8.1.68, तथा च <<गतिर्गतौ>> 8.1.70 इत्येतैः सूत्रैः गतिशब्दानां (अथवा तेषां योगे अन्येषां शब्दानाम्) विशिष्ट स्वरः विधीयते । यथा, अ॒भ्युद्ध॑रति इत्यत्र अभि इति गतिसंज्ञकस्य अकारः <<गतिर्गतौ>> 8.1.70 इत्यनेन अनुदात्तः भवति ।
  • 3. सकारादेशः - <<नमस्पुरसोर्गत्योः>> 8.3.40 इत्यनेन गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे परे सकारादेशः भवति । यथा, नमस्करोति, पुरस्कारःअष्टाध्याय्याम् बहुषु सूत्रेषु गतिः इति शब्दः गमनक्रियायाः निर्देशार्थम् अपि उपयुक्तः अस्ति । यथा, <<अच्छ गत्यर्थवदेषु>> 1.4.69, <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ>> 1.4.52 इत्यादिषु सूत्रेषु विद्यमानः गतिशब्दः गमनक्रियां दर्शयति, न हि गतिसंज्ञाम् । वार्त्तिके गतिसंज्ञायाः सन्दर्भेण भाष्ये द्वे वार्त्तिके पाठ्येते । ते एतादृशे -
  • 1. कारिका (क्रिया इत्यर्थः) इति शब्दस्य क्रियायोगे गतिसंज्ञा भवति — इति अस्य वार्त्तिकस्य आशयः । गतिसंज्ञायां सिद्धायाम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इत्यनेन धातोः विहितस्य क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन कारिकाकृत्य इति शब्दः सिद्ध्यति । यदि अस्य शब्दस्य गतिसंज्ञा नैव अभविष्यत्, तर्हि गतिसमासस्य अभावे कारिकां कृत्वा इत्येव रूपम् अभविष्यत् ।
  • 2. पुनस् तथा चनस् एतौ शब्दौ वेदेषु गतिसंज्ञसदृशाः प्रयुक्ताः दृश्यन्ते — इति अस्य वार्त्तिकस्य आशयः । यथा, पुनरूत्स्यूतं वासो देयम्, पुनर्णवो रथः, पुनरुत्सृष्टोऽनड्वान् इत्येतानि वाक्यानि मैत्रायणिसंहितायां दृश्यन्ते । एवमेव चनोहितः इति शब्दः ऋग्वेदे (3.11.2 इत्यत्र) विद्यते । अत्र सर्वत्र गतिसंज्ञायाः प्रयोजनम् <<गतिर्गतौ>> 8.1.70, <<गतिरनन्तरः>> 6.2.49 इत्येतैः सूत्रैः विशिष्टस्वरविधानम् — इति अस्ति । गतिः इति योगविभागस्य प्रयोजनम् प्रादीनां क्रियायोगे <<उपसर्गाः क्रियायोगे>> 1.4.58 इत्यनेन उपसर्गसंज्ञा, तथा च <<गतिश्च>> 1.4.59 इत्यनेन गतिसंज्ञा भवति । एते द्वे संज्ञे भिन्नाभ्यां सूत्राभ्यां दत्ते स्तः । वस्तुतः अत्र एकस्मिन् एव सूत्रे "गत्युपसर्गाः क्रियायोगे" इति वक्तुं शक्यम् आसीत् । परन्तु तथा क्रियते चेत् अग्रिमसूत्रेषु पाठितानां शब्दानाम् अपि गतिः तथा च उपसर्गः इति उभयथा संज्ञाविधानम् अभविष्यत् । परन्तु अग्रे <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यस्मात् आरभ्य <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति यावत्सु सूत्रेषु पाठितानाम् शब्दानां केवलम् गतिः इत्येव संज्ञा इष्यते, उपसर्गः इति न । एतत् स्पष्टीकर्तुम् अत्र सूत्रद्वयम् कृतम् अस्ति । लघुसिद्धान्तकौमुदीस्थं वार्त्तिकम् - <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते!> लघुसिद्धान्तकौमुद्यां प्रकृतसूत्रम् अजन्तपुंलिङ्गप्रकरणे पाठितम् अस्ति । अत्र वरदराजः सन्दर्भवशात् इति वार्त्तिकं पाठयति । अस्य अर्थः वर्तते - यदि प्रातिपदिकस्य पूर्वपदम् किञ्चन विद्यते परन्तु तत् गतिसंज्ञकम् उत कारकसंज्ञकं नास्ति, तर्हि अजादिप्रत्यये परे <<एरनेकाचोऽसंयोगपूर्वस्य>> 6.4.82 इत्यनेन यणादेशः न भवति । यथा, शुद्धा धीः यस्य सः इत्यस्मिन् अर्थे शुद्धधी इति यः शब्दः सिद्ध्यति तत्र पूर्वपदम् शुद्धा इति गतिसंज्ञकम् अपि नास्ति, कारकसंज्ञकम् अपि नास्ति; अतः अजादौ प्रत्यये परे अस्य यणादेशः न भवति । अतएव शुद्धधी + औ इत्यत्र ,<<एरनेकाचोऽसंयोगपूर्वस्य>> 6.4.82 इत्यनेन प्राप्तस्य यणादेशस्य अभावे, <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन <<इयङ्>>-आदेशं कृत्वा शुद्धधियौ इति पदं सिद्ध्यति । ##Balamanorama <<गतिश्च>> - उपसर्गाः । गतिश्च । सूत्रद्वयमिदं व्याख्यासौकर्यात्सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति बहुत्वे एकवचनमार्षम् । तदाह — प्रादय इत्यादिना । क्रियायोग इति । क्रियया अन्वये सतीत्तयर्थः । निपात इत्यप्यत्रानुवर्तते, प्रागीआकात्तदधिकारात् । ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति । आकडारादिति च बाध्यते । गत्युपसर्गसंज्ञायोस्तु गतिश्चेति चकारादेव समावेशः । सिध्यति । ततश्च प्रणेयमित्यादावुपसर्गकार्यम् 'उपसर्गादसमासेऽपि' इत्यादि सिध्यति, गतिकारकेत्यादि कार्यं च, निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति — प्र परेत्यादि । 'परा' इत्याकारान्तम् । अयदातौ 'उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् — निलयते दुलयते । निसो दुशश्च 'सुसजुषो रुः' इति रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते दुरयते । एतदर्थमेव निस्दुसोर्निर्दुरोश्च पृथक्पाठः । ##Padamanjari 'गतिरनन्तरः' इति पुंल्लिङ्गनिर्देशाद् गम्यत इति गतिः,'क्तिच्क्तौ च संज्ञायाम्' इति क्तिचम, निपातनाच्च'न क्तिचि दीर्धश्च' इति न भवति। प्रकृत्येति। अत्र गतित्वात् कृत्स्वरो भवति, समासस्तु प्रादित्वादेव सिद्धः। प्रादिभ्योऽन्यत्र समासोऽपि प्रयोजनम्। प्रकृतमिति।'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरः। यत् प्रकरोतीति। तिङ्लक्षणस्य निघातस्य'निपातैर्यद्यदि' इति निषेधे तिपः पित्वादनुदातत्वम्, विकरणस्य प्रत्ययस्वरो धातोः शेषनिघातः,'तिङ्चोदातिवति' इति प्रशब्दस्यानुदातत्वम्। एतच्च प्रयोजनचतुष्टयं गतिसंज्ञा प्रकरणे सर्वत्र द्रष्टव्यम्। चकारः संज्ञासमावेशार्थ इति। अन्यथैकसंज्ञाधिकारादेकत्र संज्ञाद्वयविधानाच्च पर्यायः स्यादिति भावः। कारिकाशब्दस्येति। कारिका क्रिया मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे, धात्वर्थनिर्देश इति ण्वुल्। यस्तु कर्तरि कारिकाशब्दः कारिका दासीति, यच्च श्लोकवाची - तयोर्ग्रहणं न भवति; क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात् क्रियावृतर्ग्रहणात्। यत्कारिकां करोतीति। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्। पुनरुत्स्यूतमिति। गतित्वात्समासः।'गतिर्गतौ' इति निघातो भवतीति। यद्यप्यत्र'प्रवृद्धादीनां च' इत्युतरपदान्तोदातत्वेन शेषनिघातः सिद्धः, तथापि परत्वादयमेव निघातो युक्त इति भावः। इह च पुनराधेयमिति। गतित्वात्समासे कृते कृदुतरपदप्रकृतिस्वरेणठ्यतोऽनावःऽ इति धेयशब्द आद्यौदातः। चनोहित इति। निपातत्वादाद्यौदातस्य चनःशब्दस्य'गतिरनन्तरः' इति प्रकृतिस्वरः॥