विभाषा कृञि

1-4-98 विभाषा कृञि आ कडारात् एका सञ्ज्ञा कर्मप्रवचनीयाः अधिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

स्वामी इति अर्थस्य निर्देशार्थम् प्रयुक्तः "अधि" इति शब्दः कृ-धातोः योगे विकल्पेन कर्मप्रवचनीयसंज्ञकः भवति । यथा - यदत्र मामधि॑करि॒ष्यति॑ ।

Kashika

Up

अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति। यदत्र मामधि॑करि॒ष्यति॑। कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् <<तिङि चोदात्तवति>> ८.१.७१ इति निघातो न भवति॥

Siddhanta Kaumudi

Up

अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति <{SK3978}> इति निघातो न ॥ इति सप्तमी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं अन्तिमं सूत्रम् । स्व-स्वामीभावसम्बन्धः (इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य अधि इत्यस्य <<अधिरीश्वरे>> 1.4.97 इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते । यथा, रामः भरतम् अधि करोति (रामः भरतम् स्वामिरूपेण नियुक्तं करोति इत्यर्थः) अस्मिन् वाक्ये अधि इति शब्दः विकल्पेन कर्मप्रवनीयसंज्ञकः अस्ति । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रकृतसूत्रेण अधि इत्यस्य कर्मप्रवचनीयसंज्ञा उचितं स्वरसञ्चारं साधयितुम् कृता अस्ति । तदित्थम् - प्रादिगणस्य अधि इति शब्दः यदा <<कृ>>-धातोः योगे प्रयुज्यते, तदा <<गतिश्च>> 1.4.60 इत्यनेन अधि इत्यस्य गतिसंज्ञा भवति । अस्मिन् गतिसंज्ञके अधि इति शब्दे अकारः उदात्तः अस्ति, तथा च इकारः स्वरितः अस्ति ( अधि॑ इति) । एतादृश्यां गतिसंज्ञायां सत्याम्, यद् अत्र माम् अधि करिष्यति (यः माम् अत्र अधिकारिरूपेण स्थापयिष्यति - इत्यर्थः) अस्मिन् विशिष्टे वाक्ये <<तिङि चोदात्तवति>> 8.1.71 इत्यनेन सूत्रेण अधि इति गतिसंज्ञकस्य द्वौ अपि स्वरौ अनुदात्तसंज्ञकौ भवतः (अ॒धि॒ इति) । एतादृशम् अधि इत्यस्य अस्मिन् वाक्ये सर्वानुदात्तरूपेण कृतम् उच्चारणम् तु उचितम् अस्ति एव, परन्तु लोके अस्मिन्नेव वाक्ये अस्य शब्दस्य मूलप्रकारेण - इत्युक्ते अधि॑ इति उच्चारणम् अपि उचितम् एव स्वीक्रियते । परन्तु एतादृशः अधि॑ इति स्वरसञ्चारः तदा एव सम्भवति यदा अधि इत्यस्य गतिसंज्ञा न विद्यते । एतद् एव साधयितुम् प्रकृतसूत्रेण अस्य शब्दस्य विकल्पेन कर्मप्रवचनीयसंज्ञा विधीयते । कर्मप्रवचनीयसंज्ञायाः पक्षे एकसंज्ञाधिकारात्, गतिसंज्ञायाः बाधः जायते, येन अधि इत्यत्र विद्यमानौ मूलस्वरौ तादृशौ एव तिष्ठतः ( अधि॑ इति) । कर्मप्रवचनीयसंज्ञायाः अभावस्य पक्षे तु गतिसंज्ञा अवश्यं विधीयते, येन <<तिङि चोदात्तवति>> 8.1.71 इत्यनेन सूत्रेण सर्वानुदात्तत्वम् (अ॒धि॒ इति) अपि सिद्ध्यति । अनेन प्रकारेण अधि इत्यस्य द्वयोः अपि उच्चारणयोः साधुत्वं सिद्धं भवति । अत्र दत्तम् यद् अत्र माम् अधि करिष्यति इति उदाहरणम् बहु विशिष्टम् अस्ति । अस्मिन् उदाहरणे विद्यमानस्य यद् इति शब्दस्य उपस्थितौ <<निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् >> 8.1.30 इति सूत्रेण करिष्यति इति तिङन्तम् उदात्तवत् भवति । एतादृशस्य उदात्तवतः तिङन्तस्य उपस्थितौ एव <<तिङि चोदात्तवति>> 8.1.71 इति सूत्रेण अधि इत्यस्य सर्वानुदात्तत्वं सिद्ध्यति । प्राप्तविभाषा इयम् अधि इत्यस्य <<अधिरीश्वरे>> 1.4.97 इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते । पूर्वेण नित्यं प्राप्तः विधिः विशिष्टे स्थले विकल्पेन उक्तः अस्ति अतः इदम् प्राप्तविभाषायाः उदाहरणम् अस्ति ।

Balamanorama

Up

<<विभाषा कृञि>> - विभाषा कृञि । 'अधिरीश्वरे' इत्यनुवर्तते । 'कर्मप्रवचनीया' इत्यधिकृतम् । तदाह — अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीआरत्वे इति यावत् । यदत्रमामधिकरिष्यतीति । अत्र=अस्मिन्विषये मामधिकरिव्यतीति यत्नयुक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतद्व्याचष्टे — विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह — अगतित्वादिति । तिङि चेति । उदात्तवति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिप्यतीति तिङन्तमुदात्तवत्, तिङ्ङतिङः॑ इति निघातस्य 'निपोत्तैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतोऽधेर्निघाताऽभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणम् । ******अथ तिङन्ते कर्तृकर्मप्रक्रिया ।अथ कर्मकर्तृप्रक्रियां निरूपयिष्यन्कर्मणः कर्तृत्वं साधयितुमाह — यदेति ।फलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचिर्हि विक्लित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय ओदनं कर्म.तदनुकूलो व्यापारः — अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् । स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुकूलः पुरुषचेष्टाविशेषः । धातु#ऊपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वातन्त्र्यं प्रधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यतिशयविवक्षया कर्त्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृसंज्ञा लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मणः कर्तृत्वमित्यत आह — स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तंकर्मवत्कर्मणे॑त्यत्र भाष्ये — कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्ष#इत्तवात् इति । अत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षणम् । तेनेति । असिना छिनत्तीत्यादिप्रयोगदशायामसिकुठारादीनां करणत्वादिसत्त्वेऽपि, 'असिश्छिनत्ती' इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात्कर्तरि लकार इत्यर्थः । साध्वसिश्छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । 'साधु' इति क्रियाविशेषं सौकर्यातिशयद्योतनाय । अतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असिश्छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राऽधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद्धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्यश्रपणतया सौकर्यं बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकास्तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षश्छिनत्ती॑त्यादौ प्राक् सकर्मकत्वेऽपि संप्रति सर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । ये तु द्विकर्मकास्तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा — सुधां क्षीरसागरो मथ्यते॑ । कर्तरि यथथा — सुधां क्षीरसागरो मथ्न#आति॑ । अथ यदुक्तम् — एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनाह — तेभ्यो भावे कर्तरि च लकारा इति । नतु कर्मणि, असंभवात् । अत एवअकर्मकेभ्यो भावे कर्तरि ल॑ इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तत्वविवक्षायां भावे लकारमुदाहरति — पच्यते ओदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्विकर्मकत्वं तथापि तण्डुलानामविवक्षायामेककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः ।

Padamanjari

Up

ठधिरीश्वरेऽ इत्यनुवृतेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्तते, यथा - अधिकृतोऽयमिह ग्रामे।'स्वरितेनाधिकारः' इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह - कर्मप्रवचनीयसंज्ञापक्ष इति।'निपातैर्यद्यदि' इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङ्न्तमुदातवत्॥