निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्

8-1-30 निपातैः यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ

Kashika

Up

index: 8.1.30 sutra: निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्


न इति वर्तते। यत् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र इत्येतैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति। यत् यत् करोति। यत् पचति। यदि यदि करोति। यदि पचति। हन्त हन्त करोति। नेत् नेज् जिह्मायन्त्यो नरकं पताम्। चेत् स चेद् भुङ्क्ते। स चेदधीते। चण् णिद्विशिष्टोऽयं चेदर्थे वर्तते। अयं च मरिष्यति। अयं चेन्मरिष्यति इत्यर्थः। समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिरयं न भवति। कच्चित् कच्चिद् भुङ्क्ते। कच्चिदधीते। यत्र यत्र भुङ्क्ते। यत्र अधीते। निपातैः इति किम्? यत् कूजति शकटम्। गच्छत् कूजति शकटम् इत्यर्थः। इणः शतरि रूपम् एतत्। युक्तम् इति किम्? यत्र क्व च ते मनो दक्षं दधस उत्तरम्।

Siddhanta Kaumudi

Up

index: 8.1.30 sutra: निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्


एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् (यद॑ग्ने॒ स्याम॒हं त्वम्) । युवा यदीकृथः (युवा॒ यदी॑कृ॒थः) । कुविदङ्ग आसन् (कु॒विद॒ङ्ग आस॑न्) । अचित्तिभिश्चकृमा कच्चित् (अचि॑त्तिभिश्चकृ॒मा कच्चि॑त्) । पुत्रासो यत्र पितरो भवन्ति (पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति) ।

Padamanjari

Up

index: 8.1.30 sutra: निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्


यद्यदार्थे च हेतौ च विचारे यदिचेच्चणः । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ कच्चित्प्रश्ने नेन्निषेधे प्रशंसायां कुवित्स्मृतम् । यत्राधारे निपातत्वं यदादीनां विशेषणम् ॥ समासे गुणभूतानामपि गत्यन्तरं न हि । नैव वाऽथं समासः सुबव्ययत्वेन लुप्यते ॥ तत्र बह्वृचाः -'नेच्चेद्' इति निपातसमाहारमधीयते - नेदेवमायुनजन्नत्र देवाः । अन्यश्चेन्नाभिगच्छतीति चेदर्थे वर्तत इति । य एव समुच्चयादिषु दृष्टश्चशब्दः स एव चेदर्थे वर्तते, तदर्थवर्तिनस्तु चिह्नं णकारः । तथा च चादयोऽनुदाता इत्ययं चेदर्थोऽप्यनुदातः, इन्द्रश्च मृडयाति नः; नतः पश्चादघं नशत्, इन्द्रश्चेदस्मान्मृडयेत्, सुखयेदित्यर्थः । त्वं च सोम नो वशो जीवातुं न मरामहे - हे सोम त्वं चेदस्मान् जीवातुं जीवितुं वशः उश्याः कामयेथा इत्यर्थः । समुच्चयादिषु यश्चशब्द इति । एष्वर्थेषु न भवतीत्यर्थः । उदाहरणेषु करोतिशब्दो विकरणस्वरेण मध्योदातः । भुङ्क्त इति । उदातनिवृत्तिस्वरेणान्तोदातः । अधीत इति । ठहन्विङेःऽ इति लसार्वधातुकानुदातत्वप्रतिषेधादन्तोदातः । इणः शतरि रूपमिति । ठिणो यण्ऽ इति यणादेशः । ननु प्रतिपदोक्तत्वाद्यद्यादिभिः साहचर्याच्च निपातस्यैव ग्रहणं भविष्यति ? एवं तर्ह्येतज्ज्ञापयति - अत्र प्रकरणे नेदमुभयं व्यवस्थापकमिति । तेन'यावद्यथाभ्याम्' इत्यत्र'यतदेतेतेभ्यः परिमाणे वतुप्' इति व्युत्पादितस्य लाक्षणिकस्यानिपातस्यापि यावच्छब्दस्य ग्रहणं भवति - तावदुषो राधो अस्मभ्यम्, रास्व यावत्स्तोतृभ्यो अरदो गृणाना इति; यावतोऽश्वान् प्रतिगृह्णीयादिति च । यत्र क्व चेति । अत्र यत्रेत्यस्य उतरमित्यनेन साक्षात्सम्बन्धः । दधस इति ।'तध धारणे' अनुदातेत् । इह - हन्ताऽहं पृथिवीमिमां निदधानीह वेह वा । हन्तो नु किमास से प्रथमं नो रथं कृधि ॥ इति छान्दसत्वान्निघातः ॥