स्वं रूपं शब्दस्याशब्दसंज्ञा

1-1-68 स्वं रूपं शब्दस्य अशब्दसज्ञा

Sampurna sutra

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


अशब्दसंज्ञा शब्दस्य स्वं रूपम्

Neelesh Sanskrit Brief

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


व्याकरणशास्त्रे संज्ञाशब्दान् वर्जयित्वा अन्यत्र शब्दग्रहणेन स्वरूपग्रहणं भवति । संज्ञाशब्दानां ग्रहणेन तु अर्थग्रहणं क्रियते ।

Neelesh English Brief

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


The words used in the rules of the grammar represent the verbatim sequence of the letters (and not their underlying meaning); except for the technical terms which represent the meaning rather than the verbatim sequence of the letters.

Kashika

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


शास्त्रे स्वम् एव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसंज्ञां वर्जयित्वा । शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात् तद्वाचिनाम् शब्दानाम् सम्प्रत्ययो मा भूदिति सूत्रम् इदमारभ्यते । अग्नेर्ढक् 4.2.33 - आग्नेयमष्टाकपालं निर्वपेत् (श्रौत्रसूत्रम् 1.19)- अग्निशब्दोऽग्निशब्दस्यैव ग्राहको भवति; न ज्वलनः, पावकः, धूमकेतुः इति , न अतः प्रत्ययो भवति । उदश्वितोऽन्यतरस्याम् 4.2.19 औदश्वित्कम्, औदश्वितम् - न तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम् इति, न अतः प्रत्ययो भवति । अशब्दसंज्ञा इति किम् ? दाधा घ्वदाप् 1.1.20, तरप्तमपौ घः 1.1.23 - घुग्रहणेषु घग्रहणेषु च संज्ञिनां ग्रहणम्, न संज्ञायाः । <!सित्तद्विशेषाणां वृक्षाद्यर्थम्!> । सिन्निर्देशः कर्तव्यः, ततो वक्तव्यम् तद्विशेषाणां ग्रहणं भवति - इति । किं प्रयोजनम् ? वृक्षाद्यर्थम् - विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् 2.4.12 इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । <!पित्पर्यायवचनस्य च स्वाद्यर्थम्!> । पिन्निर्देशः कर्तव्यः, ततो वक्तव्यम् पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां चेति । किं प्रयोजनम् ? स्वाद्यर्थम् - स्वे पुशः 3.4.40 - स्वपोषं पुष्टः; रैपोशम्, धनपोशम्, अश्वपोषम्, गोपोशम् । <!जित्पर्यायवचनस्यैव राजाद्यर्थम्!> । जिन्निर्देशः कर्तव्यः, ततो वक्तव्यम् पर्यायवचनस्यैव ग्रहणं भवतीति, न स्वरूपस्य, न अपि तद्विशेषाणाम् । किं प्रयोजनम् ? राजाद्यर्थम् - सभा राजा अमनुष्यपूर्वा 2.4.23 - इनसभम् , ईश्वरसभम् । तस्यैव न भवति - राजसभा ; तद्विशेषाणां च न भवति - पुष्यमित्रसभा, चन्द्रगुप्तसभा । <!झित्तद्विशेषाणां च मत्स्याद्यर्थम्!> झिन्निर्देशः कर्तव्यः, ततो वक्तव्यम् तस्य च ग्रहणं भवति तद्विशषाणां चेति । किं प्रयोजनम् ? मत्स्याद्यर्थम् - पक्षिमत्स्यमृगान् हन्ति 4.4.35 इति ठक् -पाक्षिकः , मात्स्यियकः ; तद्विशेषाणाम् - शाकुनिकः ; पर्यायाणां न भवति - अजिह्मान् हन्ति, अनिमिषान् हन्ति - इति । अथैकस्यैष्यते - मीनान् हन्तीति मैनिकः ॥

Siddhanta Kaumudi

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा


अष्टाध्याय्यां विद्यमानेषु सूत्रेषु प्रयुक्तानां शब्दानाम् कः अर्थः सामान्यरूपेण स्वीकरणीयः अस्मिन् विषये अनेन सूत्रेण द्वौ नियमौ उच्येते । तदित्थम् —

1) स्वम् रूपम् शब्दस्य — सामान्यतः व्यवहारे (इत्युक्ते, भाषायाम्) शब्दानां प्रयोगः 'अर्थम्' अभिलक्ष्य क्रियते । यथा, 'अग्निः दहति' अस्य वाक्यस्य अर्थः 'अग्निः इति शब्दः दहनं करोति' — इति नास्ति, अपितु 'अग्निः नाम यः कश्चन पदार्थः अस्ति सः दहति' — इति अस्य अर्थः । अतएव, 'अग्निः दहति', 'वह्निः दहति', 'पावकः दहति' — एतानि सर्वाणि अपि वाक्यानि समानार्थकानि एव स्वीक्रियन्ते । एवमेव, 'गाम् आनय' इत्युक्ते 'गाम् नाम कञ्चन शब्दम् आनय' इति न, अपितु 'गौः इति नाम्ना प्रचलितम् प्राणिनम् आनय' इति अर्थः भवति । अनेन प्रकारेण भाषायाम् 'अर्थप्राधान्यम्' वर्तते, न हि 'शब्दप्राधान्यम्' । परन्तु, व्याकरणशास्त्रे तु शब्दस्यैव प्राधान्यम् अस्ति, अर्थस्य न। यथा, अग्नेर्ढक् 4.2.33 इत्यनेन सूत्रेण यः ढक्-प्रत्ययः विधीयते, सः 'अग्नि' इति 'शब्दस्य' विषये उक्तः अस्ति, हि 'अग्नि' इति अर्थस्य विषये । अतएव, अनेन सूत्रेण उक्तः ढक्-प्रत्ययः 'पावक', 'वह्नि', 'अनल', एतादृशेभ्यः शब्देभ्यः नैव भवति, अपि तु केवलम् 'अग्नि' इत्येतस्मात् शब्दात् एव विधीयते । व्याकरणशास्त्रे उक्तम् सर्वम् अपि कार्य 'शब्दनिष्ठितम्' ज्ञेयम्, न हि 'अर्थनिष्ठितम्' इत्येन अस्य आशयः । अयमेव बिन्दुः अस्य सूत्रस्य प्रथमांशेन ज्ञाप्यते । व्याकरणशास्त्रे 'शब्दस्य स्वं रूपम् स्वीकर्तव्यम्' इति अस्य अंशस्य अर्थः । 'स्वं रूपम्' इत्युक्ते शब्दस्य आनुपूर्वी (the exact sequence of letters) — इति । एतत् रूपमेव व्याकरणशास्त्रे ग्राह्यम्, न हि तस्य अर्थः । अयम् अस्य सूत्रस्य पूर्वार्धः अस्ति ।

  1. अशब्दसंज्ञा — व्याकरणशास्त्रे शब्दानां वर्णानां वा लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः पाठिताः सन्ति । एतासाम् संज्ञानाम् विषये तु अर्थस्य एव ग्रहणं भवति, न हि शब्दस्य । यथा, विरामोऽवसानम् 1.4.110 इति सूत्रेण 'अवसान' इति काचित् संज्ञा पाठ्यते । 'वर्णानाम् अभावः अवसानसंज्ञकः भवति', इति अस्य सूत्रस्य अर्थः । अत्र पाठिता 'अवसान'इति संज्ञा अग्रे खरवसानयोर्विसर्जनीयः 8.3.15 इत्यस्मिन् सूत्रे यदा प्रयुज्यते, तदा तत्र 'अवसान' इति शब्देन न हि वर्णक्रमः (आनुपूर्वी) लक्ष्यते, अपि तु 'विरामः' इति अर्थः एव गृह्यते । इत्युक्ते खरवसानयोर्विसर्जनीयः 8.3.15 इत्यनेन सूत्रेण रेफस्य यः विसर्गादेशः विधीयते, सः 'विरामे' परे भवति, न हि 'अवसानशब्दे परे' । अनेनैव प्रकारेण व्याकरणशास्त्रे प्रयुक्तानां सर्वासाम् अपि संज्ञानाम् विषये सूत्रेषु अर्थस्य ग्रहणं कर्तव्यम्, न हि शब्दस्वरूपस्य । अयमेव बिन्दुः अस्य सूत्रस्य द्वितीयांशेन ज्ञाप्यते । 'संज्ञाशब्दानां विषये शब्दस्वरूपम् न ग्राह्यम्' इति अस्य अंशस्य अर्थः । अयम् अस्य सूत्रस्य उत्तरार्धः अस्ति ।

अनेन प्रकारेण, एतौ द्वौ अंशौ मिलित्वा — व्याकरणशास्त्रे संज्ञाशब्दानां विषये अर्थस्य ग्रहणम् करणीयम्, अन्येषां शब्दानां विषये च शब्दस्य ग्रहणं करणीयम् इति सूत्रार्थः अत्र सिद्ध्यति ।

पर्यायशब्दानां ग्रहणार्थम् अनुबन्धयोजनम्

यद्यपि प्रकृतसूत्रेण 'शब्दानां स्वस्य रूपस्यैव ग्रहणं करणीयम्' इति नियमः उच्यते, तथापि अष्टाध्याय्यां केषुचन स्थलेषु तत्र निर्दिष्टानाम् शब्दानाम् अर्थस्य अपि ग्रहणम् इष्यते । यथा, पक्षिमत्स्यमृगान् हन्ति 4.4.35 इत्यस्मिन् सूत्रे विद्यमानेन 'मत्स्य' इति शब्देन तत्पर्यायवाचकस्य मीनशब्दस्यापि ग्रहणं भवति इति अस्य सूत्रस्य व्याख्याने स्पष्टीकृतम् अस्ति । एतादृशान् (इत्युक्ते, येषाम् अर्थग्रहणम् इष्यते तादृशान्) शब्दान् अन्यशब्दानाम् अपेक्षया पृथग् रूपेण दर्शयितुम् वार्त्तिककारेण — एतादृशेषु शब्देषु केचन अनुबन्धाः (इत्संज्ञकवर्णाः) स्थापनीयाः — इति उक्त्वा आहत्य चतुर्णाम् अनुबन्धानाम् भिन्नेषु अर्थेषु विधानम् कृतम् अस्ति । तदित्थम् —

  1. <!सित्तद्विशेषाणां वृक्षाद्यर्थम्!> (सित् तद्विशेषाणाम्; वृक्षाद्यर्थम्) — यत्र शब्दग्रहणेन स्वस्य रूपस्य ग्रहणं न इष्यते अपि तु जातिनिर्देशः इष्यते, तत्र तेषु शब्देषु सकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् 2.4.12 अस्मिन् सूत्रे विद्यमानै: 'वृक्ष', 'मृग' आदिभिः शब्देः जातेः ग्रहणम् इष्यते, न हि शब्दस्वरूपस्य ग्रहणम् । इत्युक्ते, अस्मिन् सूत्रे विद्यमानः 'वृक्ष' इति शब्दः वस्तुतः वृक्षजातेः (names of all the trees) निर्देशं करोति, न हि 'वृक्ष'शब्दस्य, तत्पर्यायवाचकानाम् वा शब्दानाम् । अतएव 'प्लक्ष' (एकस्य वृक्षस्य नाम) तथा च 'न्यग्रोध' (अन्यप्रकारकस्य वृक्षस्य नाम) इत्येतयोः शब्दयोः अनेन सूत्रेण द्वन्द्वसमासे कृते 'प्लक्षन्यग्रोधम्' इति रूपं सिद्ध्यति । एतादृशः जातिनिर्देशः येषां शब्दानां विषये इष्यते, तेषु शब्देषु इत्संज्ञकः सकारः योजनीयः (अतश्च, अत्र पाठिताः शब्दाः 'वृक्षस्', 'मृगस्', 'तृणस्' एतादृशाः सितः ज्ञेयाः), इति अस्य वार्त्तिकस्य आशयः ।

  2. <!पित्पर्यायवचनस्य च स्वाद्यर्थम्!> (पित् पर्यायवचनस्य, [तद्-विशेषाणाम्, स्वस्य] च; स्वाद्यर्थम् )— यत्र शब्दग्रहणेन स्वस्य रूपस्य, पर्यायशब्दानां, तथा च जातेः - इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु पकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, स्वे पुषः 3.4.40 अस्मिन् सूत्रे विद्यमानेन 'स्व' इति शब्देन - (1) 'स्व' इति आनुपूर्वी, (2) स्व-शब्दस्य सर्वे अर्थाः, यथा धन, बान्धव, आत्मीय - एते शब्दाः, (3) तथा च 'स्व' इत्यस्य विशेषाः (specific instances of things that belong to oneself) - यथा अश्वः, गौः - आदयः — इत्येतेषाम् सर्वेषाम् अपि ग्रहणम् इष्यते । अतएव 'स्व', 'धन', 'अश्व' एतेषाम् सर्वेषाम् अपि उपपदानाम् उपस्थितौ 'पुष्' धातोः णमुल्-प्रत्ययं कृत्वा 'स्वपोषम्', 'धनपोषम्', 'अश्वपोषम्' - एतानि कृदन्तरूपाणि सिद्ध्यन्ति । अस्यां स्थितौ 'स्व' इति शब्दस्य निर्देशः इत्संज्ञकपकारेण सह (इत्युक्ते, 'स्वप्' इति) करणीयः, इति अस्य वार्त्तिकस्य अर्थः ।

  3. <!जित्पर्यायवचनस्यैव राजाद्यर्थम्!> (जित् पर्यायवचनस्य एव; राजाद्यर्थम्) — यत्र शब्दग्रहणेन केवलम् पर्यायवाचकशब्दानाम् एव ग्रहणम् इष्यते, न हि स्वस्य रूपस्य उत जातेः, तत्र तेषु शब्देषु जकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, सभा राजामनुष्यपूर्वा 2.4.23 अस्मिन् सूत्रे विद्यमानेन 'राजा' इति शब्देन 'राजा' इति साक्षात् शब्दः न गृह्यते अपितु 'राजा' इत्यस्य समानार्थकाः शब्दाः (यथा 'इन', 'नृप', 'प्रभुः' आदयः) एव गृह्यन्ते । अतएव अनेन सूत्रेण 'इनसभम्', 'नृपसभम्' एते सर्वे तत्पुरुषसमासाः नपुंसकलिङ्गाः भवन्ति; परन्तु 'राजा' इति साक्षात्-शब्दस्य ग्रहणम् अनेन सूत्रेण न भवति, अतः 'राजसभा' इति शब्दः स्त्रीलिङ्गे एव प्रयुज्यते । एतादृशम् केवलानाम् पर्यायशब्दानाम् ग्रहणम् यत्र भवति, तत्र 'जकारः' अनुबन्धरूपेण योजनीयः (इत्युक्ते, अत्र 'राजा' इत्यस्य स्थाने 'राजाज्' इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः ।

  4. <!झित्तद्विशेषाणां च मत्स्याद्यर्थम्!> (झित् तद्विशेषाणाम्, [स्वस्य] च; मत्स्याद्यर्थम्) — यत्र शब्दग्रहणेन तस्य शब्दस्य स्वस्य रूपस्य, तथा च तस्याः जातेः अपि ग्रहणम् इष्यते, तत्र तेषु शब्देषु झकारः अनुबन्धरूपेण योजनीयः — इति अस्य वार्त्तिकस्य अर्थः । यथा, पक्षिमत्स्यमृगान् हन्ति 4.4.35 अस्मिन् सूत्रे विद्यमानेन 'पक्षि' इति शब्देन 'पक्षि' इति आनुपूर्वेः ग्रहणम् तु अवश्यमेव भवति, परन्तु पक्षिजातेः निर्देशकशब्दानाम् (यथा, शकुन, मयूर, तित्तिर - एतेषां शब्दानाम्) अपि ग्रहणम् भवति । अतएव 'शकुनं हन्ति', 'मयूरं हन्ति', 'तित्तिरं हन्ति' तथा च 'पक्षिणं हन्ति' इत्यत्र सर्वत्र पक्षिमत्स्यमृगान् हन्ति 4.4.35 इति सूत्रेण ठक्-प्रत्यये कृते 'शाकुनिक', 'मायूरिक', 'तैत्तिरिक', 'पाक्षिक' एते सर्वे शब्दाः सिद्ध्यन्ति । अनेन प्रकारेण यत्र मूलशब्दस्य, तद्विशेषाणां च ग्रहणम् इष्यते, तत्र झकारः अनुबन्धरूपेण योजनीयः (अतश्च अत्र 'पक्षि' इत्यस्य स्थाने 'पक्षिज्' इति स्वीकर्तव्यम्) इति अस्य वार्त्तिकस्य आशयः ।

एतानि चत्वारि वार्त्तिकानि संक्षेपेण —

  • सित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम्
  • पित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम्
  • जित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम्
  • झित् — स्वस्य ग्रहणम् । पर्यायवाचकशब्दानां ग्रहणम् । तद्विशेषशब्दानां ग्रहणम् परिभाषा - अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् महाभाष्ये अस्य सूत्रस्य व्याख्याने भाष्यकारः आदौ पृच्छति - अस्मिन् सूत्रे स्वम् शब्दस्य ग्रहणम् किमर्थम् कृतम् अस्ति — इति । 'रूपम्' इति शब्देनैव 'शब्दस्वरूपम्' इति अर्थे सिद्धे, तत्र पुनः 'स्व'शब्दस्य ग्रहणम् 'अर्थ'निर्देशार्थम् अस्ति इति उत्तरम् अत्र भाष्यकारेण दीयते । इत्युक्ते, अत्र 'स्व' इति शब्दः 'अर्थः' इत्यस्मिन् अर्थे प्रयुज्यते, इति आशयः । एतादृशं क्रियते चेत् 'अर्थवता शब्देन स्वस्य ग्रहणं भवति' इति सूत्रार्थः फलति । अस्यैव अपरः अर्थः — 'अनर्थकशब्देन कस्यापि ग्रहणं न भवति' इति वक्तुं शक्यते । एतम् बिन्दुम् आधारीकृत्य एव भाष्यकारः <ऽअर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्ऽ> इति परिभाषाम् अपि अस्मिन् सन्दर्भे विदधाति । यत्र शब्दस्य किमपि कार्यम् उच्यते, तत्र अर्थवता शब्दस्यैव ग्रहणं करणीयम्, न हि अनर्थकशब्दस्य — इति अस्याः परिभाषायाः आशयः । अस्मिन् विषये अधिकं जिज्ञासवः अस्य सूत्रस्य भाष्यम्, अथ वा परिभाषेन्दुशेखरे परिभाषा-14 इत्यत्र पश्येयुः । ##Balamanorama --- index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा --- _स्वं रूपं शब्दस्याशब्दसंज्ञा_ - ॒अग्नेर्ढक्॒वाय्वृतुपित्रुषसो यत्राज्ञो य॑दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते — स्वं रूपम् ।अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि । शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम॑ इत्यर्थः । तदाह — शब्दस्य स्व रूपं संज्ञीति । बोध्यमित्यर्थः । न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्,उपसर्ग घोः कि॑रित्यत्र 'घु शब्दे' इति घुधातुनिवृत्त्यर्थत्वात् 'दाधा ध्वदाप्' इति संज्ञाकरणस्यघुमास्थागापाजहातिसां हलि॑ इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः । इदं सूत्रं भाष्ये प्रत्याख्यातम् । ##Padamanjari --- index: 1.1.68 sutra: स्वं रूपं शब्दस्याशब्दसंज्ञा --- स्वरूपस्य पर्यायाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयम् । शास्त्राङ्गत्वाच्च परिभाषाणां शास्त्र एव नियमः, न लोक इत्याह - शास्त्रे स्वमेवेत्यादि, ग्राह्यमिति । 'ग्राह्मम्' इति णिजन्ताद् यत्, एतच्चाध्याहारेण लब्धम् । शब्दस्येति 'कृत्यानां कर्तरि वा' इति षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयतीत्यर्थः । संज्ञापक्षे तु वृतावेव शब्दः संज्ञानुच्चारणं च नोपपद्येत । सूत्रे षष्ठीनिर्देशोऽपि नातीव युक्तः स्यात्; संज्ञासंज्ञिसम्बन्धे प्रायेण सामानाधिकरण्यदर्शनात् । रूपशब्देन चेहाग्निशब्दत्वादिकं शुकसारिकापुरुषादिभिरुदीरिता सुभिन्नासु शब्दव्यक्तिषु समवेतं सामान्यमिभिधीयते । 'अग्नेर्ढक्' इति सूत्रकारेण या व्यक्तिरुच्चारिता, तस्याः सर्वोच्चारणेष्वनुगतं सामान्यं वाच्यमित्यर्थः । सामान्यस्य कार्ययोगो व्यक्तिद्वारक इति तेन तेनोच्चारिताया स्तस्यास्तस्या व्यक्तेर्ढग् भवतीत्यर्थः सम्पद्यते । एवकारस्य व्यच्छेद्यं दर्शयति - न बाह्यएऽर्थ इति । शब्दसंज्ञां वर्जयित्वेति । शब्दसंज्ञासु स्वरूपं ग्राह्यं नभवतीत्यर्थः । अनियमप्रसङ्गे नियमः कर्तव्यस्तं दर्शयति-शब्देनेत्यादि । लोके गौरुपलभ्यतामित्युक्तेऽर्थ एव कार्ययोगो गम्यते, न हि शब्दरूमुपलभ्य कृती भवति; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थे न सम्भवति, तेन सह पौर्वापर्यायोगात् । तेन 'अग्नेर्ढक्' इत्युक्ते लोकवदर्थ एव तावत्प्रतीयते, तत्र सम्भवो नास्ति; अतस्तद्वाचिनां सर्वेषां सम्प्रत्ययः स्याद्, यथा-आकृतियोदनायां व्यक्तीनाम्, मा भूदेष दोषः; उपातादेव यथा स्यादिति नियमार्थमिदमारभ्यत इत्यर्थः । औदश्वित्कमिति । उदश्विति संस्कृतमिति सप्तमीसमर्थाट्टक्, 'इसुसुक्तान्तात्कः' । घुग्रहणेष्वित्यादि । अन्यथा 'उपसर्गे घोः किः' इति किप्रत्ययो धातोरेव घोः शब्दार्थत्स्यात्, न तु दाधाभ्यः । 'ई हल्यघोः' इत्यत्र तु घुशब्दस्यानाकारान्तत्वाद्दाधानामेव ग्रहणं सिध्यति । कुमारीघ इत्यत्र 'घरूप' इति ह्रस्वप्रसङ्गः । ननु च प्रदेशेषु संज्ञिसम्प्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात् स्वरूपग्रहणं न भविष्यति, नैतदस्ति; उभयगतिरिह शास्त्रे सम्भवतीति सङ्ख्याकर्मकरणादिष्विव स्वरूपस्य संज्ञिनश्च प्रदेशेषु ग्रहणं स्यात् । ज्ञापकात्सिद्धम्; यदयं 'ष्णान्ता षट्' इति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां विदधाति, तज्ज्ञापयति-संज्ञाशब्दो न स्वरूपग्राहक इति । अन्यथा 'षड्भ्यो लुक्' 'षट्चतुर्भ्यश्च' इत्यादौ स्वरूपस्यापि षडित्यस्य ग्रहणात् षकारान्तायाः सङ्ख्यायाः षट्संज्ञां न विदध्यात् । ननु च षकारान्ता संज्ञा षकारान्तस्य कार्यमिष्यते, संज्ञापि षकारान्तैव; अतो नार्थोऽशब्दसंज्ञेत्यनेन ? सत्यम्; प्रतिपतिगौरवपरिहारार्थः प्रतिषेधः । शब्दशब्देन चाभेदीपचारात् व्याकरणमुच्यते, शब्दे संज्ञा शब्दसंज्ञा; एवं च कर्मकरणमित्यादिष्वर्थसंज्ञास्वपि शास्त्रीयासु स्वरूपग्रहणं न भवति । अथ रूपग्रहणं किमर्थम्, इह यावता प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वान्नित्यसम्बन्धित्वाच्च तदेव शब्दस्य स्वार्थो हि स्वप्रतीतौ सम्बन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणश्चानित्यसंबन्धश्चानुकरणदशायामभावात्, न चार्थो ग्राहकः शक्यते कर्तुम्, ग्राह्यत्वे च सूत्रमनर्थकं स्यादिति नार्थो रूपग्रहणेन ? एवं तर्ह्योतज् ज्ञापयति - शास्त्रे स्वरूपेण समानकक्ष्योऽर्थः' इति । तेनार्थवद्ग्रहणेनानर्थकस्येत्युपपन्नं भवति । तत्र ज्ञापकादर्थोऽपि ग्राह्यः; स्वं रूपमिति वचनाद् । रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र 'शे' प्रगृह्यसंज्ञाभावः सिद्धः । सितद्विशेषाणामिति वार्तिकं व्याचष्टे-सिन्निर्देशः कर्तव्य इति । वृक्षस् इत्येवम् । ततो वक्तव्यमिति । स्वं रूपमित्यस्यानन्तरम् । ननु किं प्रयोजनमित्युक्ते वृक्षादीतिवक्तव्यम्, किमुच्यते-वृक्षाद्यर्थमिति ? वृक्षादिषु प्रयोजनमस्येत्युक्ते वृक्षाद्यस्य प्रयोजनमित्यर्थादुक्तं भवतीत्यदोषः । अस्यार्थस्य न्यायतः सिद्धिं विभाषेत्यत्र वक्ष्यामः । पित्पर्यायवचनस्य चेति । चकारात्स्वस्वरूवस्य विशेषाणां च । इदं वाचनिकमेव । जित्पर्यायस्येत्यास्यापि न्यायतः सिद्धिं वक्ष्यामः । झितस्य चेति । इदं वाचनिकमेव । मृगपक्षिणस्तु पिन्निर्देशः कर्तव्य इत्याहुः । अथैकस्येति । इयमिष्टिरेव ॥