ङमो ह्रस्वादचि ङमुण्नित्यम्

8-3-32 ङमः ह्रस्वात् अचि ङमुट् नित्यम् पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

ह्रस्वात् ङमः पदात् अचि नित्यम् ङमुट् ।

Neelesh Sanskrit Brief

Up

ह्रस्वस्वरात् परः पदान्ते विद्यमानः यः ङ्/ण्/न् वर्णः, तस्मात् परस्य अच्-वर्णस्य संहितायाम् यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति ।

Neelesh English Brief

Up

In the context of संहिता, अ ङ्/ण्/न् letter occurring after a ह्रस्व स्वर causes a corresponding ङुट् / णुट् / नुट् आगम to an अच् letter following it.

Kashika

Up

ह्रस्वात् परो यो ङम् तदन्तात् पदादुत्तरस्याचो ङमुडागमो भवति नित्यम्। ङणनेभ्यो यथासंख्यं ङणना भवन्ति — ङकारान्ताद् ङुट् — प्रत्यङ्ङास्ते। णकारान्ताद् णुट् — वण्णास्ते। वण्णवोचत्। नकारान्ताद् नुट् — कुर्वन्नास्ते। कुर्वन्नवोचत्। कृषन्नास्ते। कृषन्नवोचत्। ङम इति किम्? त्वमास्से। ह्रस्वादिति किम्? प्राङास्ते। भवानास्ते। अचीति किम्? प्रत्यङ् करोति। इह परमदण्डिनौ, परमदण्डिनेति <<उत्तरपदत्वे चापदादिविधौ>> (महाभाष्य १.१६६) इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं नास्तीति ङमुड् न भवति। अथवा <<उञि च पदे>> ८.३.२१ इत्यतः सप्तम्यन्तं पद इत्यनुवर्तते। तेनाजादौ पदे ङमुड् भवति॥

Siddhanta Kaumudi

Up

ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥

Laghu Siddhanta Kaumudi

Up

ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

Neelesh Sanskrit Detailed

Up

ङम् = ङ्, ण्, न् । अच् = सर्वे स्वराः । ह्रस्वस्वरात् अनन्तरम् विद्यमानः यः पदान्तः ङकारः/णकारः/नकारः, तस्मात् परस्य अच्-वर्णस्य प्रकृतसूत्रेण यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति । एते सर्वे टित्-आगमाः सन्ति, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन एते आगमाः स्थानिनः आद्यवयवरूपेण विधीयन्ते । क्रमेण उदाहरणानि एतानि — 1. 'ह्रस्वस्वरः + पदान्त-ङ् + अच्' इत्यत्र अच्-वर्णस्य ङुट्-आगमः प्रत्यञ्च्-शब्दस्य प्रथमैकवचनस्य रूपम् 'प्रत्यङ्' इति भवति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् ङकारः विद्यते । अस्मात् पदान्तङकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य ङुट्-आगमः भवति — प्रत्यङ् + आत्मा → प्रत्यङ् ङुट् आत्मा [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य ङुट्-आगमः] → प्रत्यङ् ङ् आत्मा [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । डकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → प्रत्यङ्ङात्मा अन्यानि कानिचन उदाहरणानि — 1. तिर्यङ् + एषः → तिर्यङ्ङेषः 2. उदङ् + उदङ् → उदङ्ङुदङ् । 3. युङ् + इयम् → युङ्ङियम् 4. क्रुङ् + अस्ति → क्रुङ्ङस्ति । 2. 'ह्रस्वस्वरः + पदान्त-ण् + अच्' इत्यत्र अच्-वर्णस्य णुट्-आगमः सुष्ठु गणयति सः अस्मिन् अर्थे सु-उपसर्गपूर्वात् गण्-धातोः क्विप्-प्रत्यये कृते सुगण् इति प्रातिपदिकं सिद्ध्यति । अस्य प्रथमैकवचनस्य रूपम् अपि 'सुगण्' इत्येव अस्ति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् णकारः विद्यते । अस्मात् पदान्तणकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य णुट्-आगमः भवति — सुगण् + ईशः → सुगण् णुट् ईशः [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य णुट्-आगमः] → सुगण् ण् ईशः [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । णकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → सुगण्णीशः अन्यानि कानिचन उदाहरणानि — 1. वण् + आस्ते → वण्णास्ते । 2. रण् + अवोचत् → रण्णवोचत् । 3. घुण् + ओदनः → घुण्णोदनः । 3. 'ह्रस्वस्वरः + पदान्त-न् + अच्' इत्यत्र अच्-वर्णस्य नुट्-आगमः सत्-शब्दस्य प्रथमैकवचनस्य रूपम् 'सन्' इति भवति । अस्मिन् पदे ह्रस्वस्वरात् अनन्तरम् नकारः विद्यते । अस्मात् पदान्तनकारात् अनन्तरम् संहितायाम् स्वरः विद्यते चेत् तस्य स्वरस्य नुट्-आगमः भवति — सन् + अच्युत → सन् नुट् अच्युत [<<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य नुट्-आगमः] → सन् न् अच्युत [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । नकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → सन्नच्युत अन्यानि कानिचन उदाहरणानि — 1. कुर्वन् + आस्ते → कुर्वन्नास्ते । 2. राजन् + एहि → राजन्नेहि । 3. अपठन् + अमूः →‌ अपठन्नमूः । 4. जिघ्रन् + अश्नन् → जिघ्रन्नश्नन् । दलकृत्यम् 1. ङमः इति किमर्थम् ? पदान्तञकारस्य पदान्तमकारस्य वा विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, त्वम् + असि इत्यत्र केवलं वर्णमेलनं कृत्वा त्वमसि इति जायते । 2. पदान्तात् ङमः इति किमर्थम् ? अपदान्त-ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, शशिन् + औ इत्यत्र केवलं वर्णमेलनं कृत्वा शशिनौ इति जायते । अत्र शशिन्-शब्दस्य पदसंज्ञा न भवति, अतः अत्र प्रकृतसूत्रं नैव प्रवर्तते । 3. ह्रस्वात् इति किमर्थम् ? दीर्घस्वरात् अनन्तरम् विद्यमानानाम् ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, प्राङ् + आस्ते इत्यत्र केवलं वर्णमेलनं कृत्वा प्राङास्ते इति जायते । अत्र आकारस्य ङुट्-आगमः न भवति । 4. अचि इति किमर्थम् ? हल्-वर्णस्य आगमः प्रकृतसूत्रेण न विधीयते । यथा, अयम् + सः अत्र सकारस्य मुट्-आगमः न भवति । 5. नित्यम् इति किमर्थम् ? अस्मात् सूत्रात् पूर्वम् विद्यमानैः सर्वैः आगमविधायकैः सूत्रैः विकल्पेन एव आगमः विधीयते । तादृशः विकल्पः अस्मिन् सूत्रे न हि इष्यते, इति ज्ञापयितुम् अस्मिन् सूत्रे 'नित्यम्' इति शब्दः निर्दिष्टः अस्ति । प्रकृतसूत्रेण उक्तः आगमः नित्यम् (compulsory) भवति — इति अस्य आशयः । सूत्रे स्थानिनिर्णयः प्रकृतसूत्रे ङमः इति पदम् पञ्चमीविभक्तौ विद्यते, अचि इति पदम् च सप्तमीविभक्तौ विद्यते । इत्युक्ते, अत्र षष्ठ्यन्तम् पदम् नास्ति । अस्यां स्थितौ, पञ्चमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् उत सप्तमीविभक्तिनिमित्तकम् कार्यम् कर्तव्यम् इति सन्देहे जाते (इत्युक्ते,ङमः इति पूर्वनिमित्तम् स्वीकृत्य अच्-वर्णः स्थानिरूपेण ग्रहीतव्यः, उत अचि इति परनिमित्तम् स्वीकृत्य ङम्-वर्णः स्थानिरूपेण ग्रहीतव्यः इति प्रश्ने जाते) , ङमः इत्यत्र विद्यमानायाः पञ्चमीविभक्तेः अन्यत्र कुत्रापि चारितार्थ्यम् न विद्यते अतः अत्र विद्यमाना पञ्चमीविभक्तिः स्वस्य अर्थं न त्यजति — इति निर्णयः अत्र क्रियते । अचि इत्यत्र विद्यमानायाः सप्तमीविभक्तेः तु <<मय उञो वो वा>> 8.3.33 इत्यस्मिन् सूत्रे चारितार्थ्यम् वर्तते, अतः एकस्मिन् स्थले चारितार्थ्यम् प्राप्य सन्तुष्टा जाता इयम् सप्तमीविभक्तिः प्रकृतसूत्रस्य कृते षष्ठ्या विपरिणमति, अतश्च प्रकृतसूत्रे अचि इत्यस्य अर्थः 'अच्-वर्णस्य स्थाने' इति भवति ।अयमेव विषयः <<उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् >> इति परिभाषायाः अवतरणरूपेण परिभाषेन्दुशेखरे पाठितः अस्ति । तत्र नागेशेन उच्यते — ननु 'ङमो ह्रस्वात्' इत्यादौ ङमः परस्य अचः, अचि परतः ङम इति वा, इति सन्देहः स्यात्, अत आह — उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । अचि इति सप्तमीनिर्देशस्य 'मय उञः' इति उत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशः अनवकाशः, इति 'तस्मादित्युत्तरस्य' इत्यस्य एव प्रवृत्तिः । अष्टाध्याय्यायां बहुषु सूत्रेषु प्रकृतसूत्रस्य विस्मरणम् ! यद्यपि इदं सूत्रम् नित्यमेव कार्यं करोति (न हि विकल्पेन), तथापि अष्टाध्याय्याम् पाणिनिः अस्य सूत्रस्य प्रयोगं विना एव अनेकानि सूत्राणि व्यरचयत् । यथा — 1. <<इको यणचि>> 6.1.77 इत्यत्र यण् + अचि अत्र णकारात् परस्य अकारस्य अनेन सूत्रेण णुट्-आगमः विधीयेत, अतः इको यण्णचि इत्येव सूत्रम् साधु स्यात् । 2. <<उणादयो बहुलम्>> 3.3.1 इत्यत्र अपि णकारात् परस्य आकारस्य णुट्-आगमे कृते उण्णादयो बहुलम् इति सूत्रम् एव साधु स्यात् । 3. <<सनाद्यन्ताः धातवः>> 3.1.32 इत्यत्र नकारात् परस्य आकारस्य नुडागमे कृते सन्नाद्यन्ता धातवः इति सूत्रम् एव साधु भवेत् । 4. <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यत्र 'इयङ्' इत्यस्मात् उत्तरस्य उकारस्य ङुट्-आगमे कृते अचि श्नुधातुभ्रुवां य्वोरियङ्ङुवङौ इति सूत्रम् एव साधु स्यात् । एतादृशम् नित्यसूत्रस्य प्रयोगं विना कृता सूत्ररचना 'छन्दोवत् सूत्राणि भवन्ति ; सर्वे विधयः छन्दसि विकल्प्यन्ते' एताभ्याम् वचनाभ्याम् समर्थयितुम् शक्या । परन्तु लौकिकसंस्कृते एतादृशाः प्रयोगाः नैव अनुमन्यन्ते । लौकिकसंस्कृते तु अस्य सूत्रस्य प्रयोगः नित्यरूपेण एव भवति, न हि विकल्पेन । केषुचन सूत्रेषु तु प्रकृतसूत्रस्य प्रयोगः अवश्यं कृतः दृश्यते । यथा - <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> 1.1.66 , <<तस्मिन्नणि च युष्माकास्माकौ>> 4.3.2, <<तदस्मिन्नधिकमिति दशान्ताड्डः>> 5.2.45 इत्यादिषु केषुचन अन्येषु अपि सूत्रेषु नकारात् परस्य अकारस्य नुडागमं कृत्वा एव सूत्ररचना कृता दृश्यते । एवमेव, <<तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्>> 7.1.35 तथा <<तिङ्ङतिङः>> 8.1.28 इत्यत्र ङुडागमः अपि कृतः दृश्यते । <pv>भाष्यस्य एकदेश्युक्तिः — पदान्त-ङम्-वर्णस्य अपेक्षया पदादि-अच्-वर्णस्य ग्रहणम् अस्य सूत्रस्य उपरिनिर्दिष्टे अर्थे, पदस्य इति अधिकारस्य पञ्चम्या विपरिणामं कृत्वा, तस्य स्थाने पदात् इति स्वीकृत्य, अस्य शब्दस्य ङमः इत्यनेन सह अन्वयं कृत्वा ङकार/णकार/नकारस्य पदान्तत्वम् निमित्तरूपेण स्वीक्रियते । परन्तु स्थानिवाचकः अच्-वर्णः पदादिः भवेत् इति तु न कुत्रचित् निर्दिष्टम् अस्ति । परन्तु <<उञि च पदे>> 8.3.21 इत्यस्मिन् सूत्रे तु प्रकृतसूत्रस्य अर्थविधानम् भाष्यकारेण किञ्चित् भिन्नरूपेण कृतम् अस्ति । तत्र भाष्यकारस्य आशयं स्पष्टीकुर्वन् नागेशः इत्थं प्रतिपादयति — उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् । ङमो ह्रस्वादचि ङमुण्नित्यम् इति अपदे मा भूत् - दण्डिना, शकटिना । — उञि च पदे इत्यत्र भाष्यम् । भाष्ये 'दण्डिना' इति । न च — पदस्य इत्यधिकारेण, विभक्तिविपरिणामेन च ह्रस्वात् परः यः ङम् तदन्तं यत् पदम्, तस्मात् परस्य अचः विधीयमानः ङमुट् कथम् अत्र प्राप्नोति, ङमन्तस्य पदत्वाभावात् — इति वाच्यम् ; वैयधिकरण्येन अनुवृत्तस्य अन्वयोपपत्तौ विभक्तिविपरिणामे मानाभावात्, इत्याशयः । — उञि च पदे इत्यत्र उद्द्योते नागेशः । <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यस्मिन् सूत्रे पदस्य इति शब्दः पञ्चम्या न हि विपरिणम्यते, अतश्च ङकार/णकार/नकारस्य पदान्तत्वम् न हि आवश्यकम्, अपि तु <<उञि च पदे>> 8.3.21 इत्यस्मात् सूत्रात् पदे इति शब्दस्य <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यत्र अनुवृत्तिं कृत्वा, तस्य च अचि इत्यनेन सह अन्वयं संस्थाप्य अच्-वर्णस्य पदादित्वम् आवश्यकम् भवति — इति अत्र भाष्यस्य आशयः अस्ति इति नागेशेन स्पष्टी क्रियते । एतादृशम् भिन्नरूपेण अर्थविधानं किमर्थं क्रियते इति चेत् ; प्रकृतसूत्रे पदस्य इति शब्दस्य विभक्तिविपरिणामः कर्तुम् शक्यते इत्यस्य न किञ्चन प्रमाणं विद्यते, अतः एतादृशः विपरिणामः न हि कर्तव्यः — इति उत्तरम् । अपि च, <<उञि च पदे>> 8.3.21 इत्यत्र विद्यमानस्य पदे इति शब्दस्य तस्मिन् सूत्रे अनावश्यकतां दर्शयन् भाष्यकारः तस्य शब्दस्य अन्वयम् प्रकृतसूत्रे विद्यमानेन अचि इति शब्देन कर्तुम् इच्छति, इत्यपि अपरम् कारणम् । अतएव दण्डिना अस्मिन् शब्दे नकारात् अनन्तरम् विद्यमानस्य आकारस्य, तस्य पदादित्व-अभावात् नुडागमः न भवति, इति कारणम् अपि भाष्ये तत्र दत्तम् अस्ति । वस्तुतस्तु, सर्वैः अपि व्याख्यानैः पदस्य इति शब्दस्य पदात् इति विपरिणामं कृत्वा एव अर्थविधानम् कृतम् अस्ति । अस्मिन् पक्षे अपि दण्डिना इत्यत्र विद्यमानस्य आकारस्य नुडागमनिषेधः अवश्यं सम्भवति, यतः दण्डिन् इति शब्दः अत्र पदसंज्ञकः नास्ति । अतः अस्मिन् सन्दर्भे <<उञि च पदे>> 8.3.21 इत्यत्र विद्यमानम् भाष्यम् एकदेश्युक्तिवद् एव भाति । <pv><<ङमो ह्रस्वादचि द्वे>> — इत्येव सुवचम् वस्तुतस्तु, प्रकृतसूत्रेण उक्तस्य ङमुडागमस्य स्थाने केवलं 'द्वे भवतः' इत्येव उच्यते चेदपि सूत्रस्य उचितः एव अर्थः सिद्ध्यति । यथा — कुर्वन् + इति → कुर्वन् न् इति [<<ङमो ह्रस्वादचि द्वे>> इति नूतनसूत्रेण नकारस्य द्वित्वम्] → कुर्वन्निति। अत्र प्रक्रियायाम् प्रथमनकारस्य <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन यद् अनिष्टं णत्वं प्राप्नोति, तद्बाधनार्थम् <<ङमो ह्रस्वादचि द्वे>> इति सूत्रम् <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यस्मात् अनन्तरम् संस्थापयितुम् शक्यते । एतादृशम् स्थलपरिवर्तननेन न कश्चन दोषः उत्पद्यते, यतः <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यनेन निर्मितस्य आगमस्य विषये अग्रे <<अचो रहाभ्यां द्वे>> 8.4.46 इति सूत्रपर्यन्तम् कस्यापि सूत्रस्य प्रसक्तिः नैव सम्भवति । अपि च, एतादृशम् सूत्रस्थलपरिवर्तनं क्रियते चेत् 'द्वे' इति शब्दः अपि अनुवृत्तिरूपेण तत्र प्रवर्तेत, अतश्च <<ङमो ह्रस्वादचि>> इत्येव सूत्रम् पर्याप्तं स्यात् । अपि च, तत्र आवश्यकम् पदान्तत्वम् <<न पदान्ताट्टोरनाम्>> 8.4.42 इत्यस्मात् 'पदान्तात्' इति शब्दस्य मण्डूकप्लुत्या विधातुम् शक्यते । यद्यपि अयं विषयः व्याख्यानेषु कुत्रापि चर्चितः नास्ति, तथापि भोजस्य सरस्वतीकण्ठाभरणे <<ङमो ह्रस्वादचि ङमुण्नित्यम्>> 8.3.32 इत्यस्य स्थाने <<ङमो ह्रस्वाद् द्वे>> (7.4.18 — सरस्वतीकण्ठाभरणम्) इत्येव सूत्रम् स्थापितम् अस्ति । अतः अत्रापि ङमुडागमस्य स्थाने द्वित्वविधानम् क्रियते चेदपि नैव दोषाय ।

Balamanorama

Up

Padamanjari

Up

ङ्मः, ङ्मुट् - इत्युभयत्रापि प्रत्याहारग्रहणम् । उडिति प्रत्येकं ङ्कारादिभिः सम्बध्यते । संज्ञायां हि कृतमागमलिङ्गं संज्ञिनां भवति । ह्रस्वादित्येतन्ङ्मो विशेषणम्, सोऽपि ङ्म् पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवति । पदस्येति प्रकृतं यद्यपि षष्ठ।ल्न्तम्, तथापि'हमः' इत्यनेन सम्बन्धात् पञ्चम्यन्तं विपरिणम्यते । ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति'ङ्मः' इति पञ्चम्या ठचिऽ इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तु लाघवार्थः, उतरार्थश्च । तदेतत्सर्वं मनसि कृत्वाह - ह्रस्वात्पर इति । संख्यातानुदेशश्च देवतितव्यः; आगमानामम्, आगमिनां च समत्वात् । परमदण्डिनेत्यादौ सुबन्तयोः समासः, तत्र समासार्थायां विभक्तौ लुप्तायामपि प्रत्ययलक्षणेन दण्डिन्नित्यस्य पदत्वमस्तीति ङ्मुट् प्राप्नोतीत्याशङ्क्याह - इहेति । समासे य उतरो भागस्तस्य पदत्वे कर्तव्ये प्रत्ययलक्षणं न भवति, अपदादिविधौउपदादिविधिं वर्जयित्वा ।'सात्पदाद्योः' इत्यत्र पदादिविधौ प्रत्ययलक्षणं भवत्येवेत्यर्थः । एतद्वार्तिककारमतेनोक्तम् । सूत्रकारमतेनाप्याह - अथ वेति ॥