उणादयो बहुलम्

3-3-1 उणादयः बहुलम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने

Kashika

Up

index: 3.3.1 sutra: उणादयो बहुलम्


वर्तमान इत्येव, संज्ञायाम् इति च। उणादयः प्रत्ययाः वर्तमानेऽर्थे संज्ञायां विषये बहुलं भवन्ति। यतो विहितास् ततोऽन्यत्र अपि भवन्ति। केचिदविहिता एव प्रयोगत उन्नीयन्ते। कृवापाजिमिस्वदिसाध्यशूभ्य उण्। कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः। बाहुलकं प्रकृतेस् तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम्। कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु। 1। नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्। यन् न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्रम्। 2। संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे। कार्याद् विद्यादनुबन्धम् एतच् छास्त्रमुणादिषु। 3।

Siddhanta Kaumudi

Up

index: 3.3.1 sutra: उणादयो बहुलम्


॥ अथ उत्तरकृदन्तप्रकरणम् ॥

एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.1 sutra: उणादयो बहुलम्


कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ १ ॥ करोतीति कारुः । वातीति वायुः । पायुर्गुदम् । जायुरौषधम् । मायुः पित्तम् । स्वादुः । साध्नोति परकार्यमिति साधुः । आशु शीघ्रम् ॥

एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥

संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।

कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

इत्युणादयः ॥

Padamanjari

Up

index: 3.3.1 sutra: उणादयो बहुलम्


पदमञ्जरी वर्तमाने इत्येवेति ।'वर्तमाने लट्' इत्यतो वर्तमानग्रहणानुवृतेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति ।'पुवः संज्ञायाम्' इत्यतः ॥ ठुणादयःऽ इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह - बाहुलकमिति ।'ला आदाने' , बहूनर्थान् लाति - बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमितम् । बहवः पुनरर्थाः - क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा - हृषेरुलजुक्तः शकेरपि भवति - शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्वविहिता अपि भवन्ति, यथा - अर्तेः फिडफिड्डौ भवतः - ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति ।'षणु दाने' ,'ञमन्ताड्डः' ,'धात्वादेः पः स' इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत् - यावत्यः प्रकृतयः पञ्चपाद्यामुपाताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह - नैगमरूढिभवं हि सुसाध्विति । निगमःउच्छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात इति'बह्वचो' न्तोदाताट्ठञ्ऽ इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिःउप्रसिद्धिः, तत्र भवा रूढिभवाःउसंज्ञाशब्दाः, तेषां साधुत्वमनुपातानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः । अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्तव्यमेवेत्यभिप्रायेणाह - नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थःउप्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते ।'हृषेरुलच्' इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा - ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ । स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह - संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्याइ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ॥