8-1-28 तिङ् अतिङः पदस्य पदात् अनुदात्तं सर्वम् अपादादौ
index: 8.1.28 sutra: तिङ्ङतिङः
तिङन्तं पदमतिङन्तात् पदात् परमनुदात्तं भवति। देवदत्तः पचति। यज्ञदत्तः पचति। तङिति किम्? नीलमुत्पलम्। शुक्लं वस्त्रम्। अतिङः इति किम्? भवति पचति।
index: 8.1.28 sutra: तिङ्ङतिङः
अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ।
index: 8.1.28 sutra: तिङ्ङतिङः
भवति पचतीति । पचतीत्येतद्भवति, पाकक्रिया भवतीत्यर्थः । तत्र साध्यसाधनभावेन द्वयोः क्रिययोरन्वयादस्ति सामर्थ्यम् । यथोक्तम् - पच्यादिक्रिया भवतिक्रियायाः कर्त्र्यो भवन्तीति । तत्र पाकस्य स्वसाधनानि प्रति साध्यस्यापि भवनं प्रति सिद्धत्वम् । यथाह भर्तृहरिः - 'तत्र यं प्रति साध्यत्वमसिद्धं तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रति' ॥ इति । अस्त्येतत् ? किम् ! तर्हि अतिङ्ग्रहणमनर्थकम्; समानवाक्याधिकारात्,'समानवाक्ये' इति वर्तते, न चैकस्मिन्वाक्ये तिङ्न्तद्वयमस्ति, तदुक्तं पुरस्तात् । सूत्रकारेण तु समानवाक्याधिकारो न कृत इत्यतिङ्ग्रहणमकारि ॥