Home
Prev 8.3.32
Next 8.3.34
मय उञो वो वा 8-3-33 मयः उञः वः वा पदस्य पूर्वत्र असिद्धम् संहितायाम् अचि
Sampurna sutra Up
पदस्य मयः उञः वः वा अचि
Neelesh Sanskrit Brief Up
संहियाताम् पदान्ते विद्यमानात् मय्-वर्णात् परस्य उञ्-शब्दस्य स्वरे परे विकल्पेन वकारादेशः भवति ।
Neelesh English Brief Up
In the context of संहिता, when a letter of the मय् प्रत्याहार occurring at end of a पद is followed by word उञ् which in turn is followed by a स्वर, then the word उञ् is optionally converted to a वकार.
Kashika Up
मय उत्तरस्य उञो वा वकारादेशो भवत्यचि परतः। शम्व॑स्तु (मा०सं० २३.४४) वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किम्वा॒वप॑नम् (मा०सं० २३.९), किमु आवपनम्। प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्यासिद्धत्वाद् हलीति <<मोऽनुस्वारः>> ८.३.२३ न भवति॥
Siddhanta Kaumudi Up
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
Laghu Siddhanta Kaumudi Up
मयः परस्य उञो वो वाऽचि। किम्वुक्तम्, किमु उक्तम्॥
Neelesh Sanskrit Detailed Up
मय् = ञकारम् विहाय सर्वाणि वर्गीयव्यञ्जनानि । आहत्य चतुर्विंशतिः वर्णाः ।
<<चादयोऽसत्वे>> 1.4.57 अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । अस्मिन् उञ्-शब्दे ञकारः इत्संज्ञकः अस्ति, तस्य लोपे कृते उ इति अवशिष्यते, तस्य <<निपात एकाजनाङ्>> 1.1.14 इत्यनेन प्रगृह्यसंज्ञा भवति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन अच्-वर्णे परे प्रकृतिभावः (सन्धेः अभावः) अपि जायते । अस्याम् स्थितौ, यदि अस्मात् उञ्-शब्दात् पूर्वम् पदान्त-मय्-वर्णः विद्यते, तथा च उञ्-शब्दस्य अनन्तरम् स्वरः वर्तते, तर्हि उञ्-शब्दस्य उकारस्य प्रकृतिभावं बाधित्वा विकल्पेन वकारादेशः भवति — इति प्रकृतसूत्रस्य अर्थः । कानिचन उदाहरणानि एतादृशानि —
1. किम् उ उक्तम् इत्यत्र मकारात् परः उञ्-शब्दः, तस्मात् परः च स्वरः विद्यते, अतः उकारस्य प्रकृतसूत्रेण विकल्पेन वकारादेशे कृते किम् व् उक्तम् → किम्वुक्तम् इति सिद्ध्यति । पक्षे किमु उक्तम् इति अपि जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति ।
किम्वुक्तम् इत्यत्र प्रकृतसूत्रेण सिद्धः वकारः <<मोऽनुस्वारः>> 8.3.23 इत्यस्य कृते असिद्धः अस्ति, अतः अत्र मकारस्य अनुस्वारादेशः न भवति ।
2. तद् उ अस्तु इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते तद्वस्तु इति सिद्ध्यति । पक्षे तदु अस्तु इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति ।
3. वाग् उ एषा इति स्थिते प्रकृतसूत्रेण उ-इत्यस्य विकल्पेन वकारादेशे कृते वाग्वेषा इति सिद्ध्यति । पक्षे वागु एषा इति जायते । उञ्-शब्दस्य प्रगृह्यत्वात् अग्रे सन्धिः न भवति ।
<<उञि च पदे>> 8.3.21 सूत्रस्य बलीयस्त्वम्
अवर्णात् परः विद्यमानात् पदान्तयकारात् / पदान्तवकारात् परे यदि उञ् इति शब्दः विद्यते, तर्हि <<उञि च पदे>> 8.3.21 इत्यनेन पदान्तयकारस्य / पदान्तवकारस्य नित्यम् लोपः भवति । एतादृशे लोपे कृते प्रकृतसूत्रस्य प्राप्तिरेव न सम्भवति । । यथा,
वने उ अयम् इति स्थिते <<एचोऽयवायावः>>
6.1.78 इत्यनेन एकारस्य अयादेशे कृते,
वनय् उ अयम् इत्यवस्थायाम् <<उञि च पदे>>
8.3.21 इत्यनेन पदान्तयकारस्य लोपः भवति, येन
वन उ अयम् इति जायते । अस्यां स्थितौ प्रकृतसूत्रस्य सम्भवः एव नास्ति । एवमेव,
साधो उ अयम् इति स्थिते <<एचोऽयवायावः>>
6.1.78 इत्यनेन ओकारस्य अवादेशे कृते,
साधव् उ अयम् इत्यवस्थायाम् <<उञि च पदे>>
8.3.21 इत्यनेन पदान्तयकारस्य लोपः भवति, येन
साध उ अयम् इति जायते । अस्यां स्थितौ अपि प्रकृतसूत्रस्य सम्भवः एव नास्ति ।
'किम् + उञ् + इति' इत्यत्र रूपगणना
पदान्त-मय्-वर्णात् विद्यमानः यः उञ्-शब्दः, तस्मात् परः यदि
इति अयम् शब्दः अवैदिकसन्दर्भे (इत्युक्ते, लौकिकसंस्कृतस्य वाक्येषु) विद्यते, तर्हि <<उञः>>
1.1.17 इति सूत्रेण
उञ् -शब्दस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति, तथा च प्रगृह्यसंज्ञकस्य उञ्-इत्यस्य स्थाने <<ऊँ>>
1.1.18 इति सूत्रेण विकल्पेन
ऊँ -आदेशः अपि विधीयते । अस्यां स्थितौ अन्ते अनेकानि रूपाणि सम्भवन्ति । यथा,
किम् उ इति इत्यत्र आहत्य विंशतिः रूपाणि भवितुम् अर्हन्ति, यानि अधः क्रमेण प्रदर्शितानि सन्ति —
1. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा, तस्य च ऊँ-आदेशः क्रियते चेत् द्वे रूपे सम्भवतः —
किम् उ इति [<<उञः>> 1.1.17 इति प्रगृह्यसंज्ञा ।]
→ किम् ऊँ इति [<<ऊँ>> 1.1.18 ]
→ किमूँ इति
→ किमूँ इति / किमूँ इतिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 2 रूपे
2. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते चेत् अग्रे <<मय उञो वो वा>> 8.3.33 इति सूत्रेण उञ्-इत्यस्य विकल्पेन वकारादेशं कृत्वा आहत्य अष्टौ रूपाणि भवन्ति —
किम् उ इति
→ किम् व् इति [<<उञः>> 1.1.17 इति प्रगृह्यसंज्ञा, अतः उकारस्य यणादेशः न भवति । परन्तु <<मय उञो वो वा>> 8.3.33 इति सूत्रेण मञ्-वर्णात् परस्य उञ्-इति निपातस्य वकारादेशः विधीयते । वकारादेशे कृते तस्य असिद्धत्त्वात् <<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः न भवति ।
→ किम् व् इति / किम् म् व् इति [<<अनचि च>> 8.4.47 इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् । ]
→ किम् व् इति / किम् व् व् इति / किम् म् व् इति / किम् म् व् व् इति [<!यणो मयो द्वे वाच्ये !> इति वार्त्तिकेन प्रत्येकम् रूपे विद्यमानस्य यण्-वर्णस्य (वकारस्य) वैकल्पिकं द्वित्वम् ।]
→ किम्विति / किम्वितिँ / किम्व्विति / किम्व्वितिँ / किम्म्विति / किम्म्वितिँ / किम्म्व्विति / किम्म्व्वितिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 8 रूपाणि
3. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा क्रियते परन्तु ऊँ-आदेशः न क्रियते, तथा च <<मय उञो वो वा>> 8.3.33 इति वकारादेशः अपि न क्रियते चेत् द्वे रूपे सम्भवतः —
किम् उ इति
→ किमु इति [<<उञः>> 1.1.17 इति प्रगृह्यसंज्ञा, अतः यणादेशः न भवति । अग्रे <<मय उञो वो वा>> 8.3.33 इत्यपि सूत्रं न प्रवर्तते ।
→ किमु इति / किमु इतिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 2 रूपे
4. उञ्-इत्यस्य उकारस्य प्रगृह्यसंज्ञा न क्रियते चेत् उकारस्य यणादेशे वकारः, ततः च मकारस्य अनुस्वारादेशः भवति; येन आहत्य अष्टौ रूपाणि जायन्ते —
किम् उ इति
→ किम् व् इति [<<इको यणचि>> 6.1.77 इति उकारस्य यणादेशे वकारः भवति ।]
→ किं विति [<<मोऽनुस्वारः>> 8.3.23 इति अनुस्वारादेशः]
→ किंविति / किं[ं]विति [अनुस्वारः शर्-प्रत्याहारे (अतश्च यर्-प्रत्याहारे) स्वीक्रियते, अतः <<अनचि च>> 8.4.47 इत्यनेन अनुस्वारस्य वैकल्पिकं द्वित्वं भवति । अत्र द्वितीयम् अनुस्वारं दर्शयितुम् [ं] इति चिह्नं प्रयुक्तम् अस्ति ।]
→ किंविति / किव्ँविति / किं[ं]विति / किंव्ँविति [द्वयोः अपि रूपयोः <<वा पदान्तस्य>> 8.4.59 इति अनुस्वारस्य यय्-वर्णे परे (वकारे परे) वैकल्पिकः परसवर्णः]
→ किंविति / किंवितिँ / किव्ँविति / किव्ँवितिँ / किं[ं]विति / किं[ं]वितिँ / किंव्ँविति / किंव्ँवितिँ [<<अणोऽप्रगृह्यस्यानुनासिकः>> 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 8 रूपाणि
अनेन प्रकारेण अत्र आहत्य विंशतिः रूपाणि सिद्ध्यन्ति ।
प्रौढमनोरमायां तु इतोऽपि अष्टौ रूपाणि दत्तानि सन्ति । तत्र
किम् ऊँ इति अस्यां स्थितौ,
ऊँ इत्यत्र <<स्थानिवदादेशोऽनल्विधौ>>
1.1.56 इति स्थानिवद्भावेन
उञ् इत्यस्य आरोपणं कृत्वा, तस्य स्थाने <<मय उञो वो वा>>
8.3.33 इति सूत्रेण
वैकल्पिकः अनुनासिकः वकारः क्रियते । ततः
किम् व्ँ इति अस्यां स्थितौ <<अनचि च>>
8.4.47 इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् तथा च <!यणो मयो द्वे वाच्ये!> इत्यनेन वँकारस्य वैकल्पिकं द्वित्वम् कृत्वा आहत्य चत्वारि रूपाणि, ततश्च <<अणोऽप्रगृह्यस्यानुनासिकः>>
8.4.57 इत्यनेन इकारस्य वैकल्पिके अनुनासिकादेशे कृते आहत्य अष्टौ रूपाणि भवन्ति ।
यद्यपि प्रौढमनोरमायाम् एतानि परिगणितानि सन्ति, तथापि अयं पक्षः नैव उचितः इति शब्दरत्ने स्पष्टीकृतम् अस्ति । <<मय उञो वो वा>>
8.3.33 इत्यत्र विद्यमानः वकारः विधीयमानः अस्ति, अतः सः अनुनासिक-सवर्णस्य ग्रहणं नैव करोति, अतश्च अत्र
ऊँ इत्यत्र स्थाने अनुनासिकवकारादेशः नैव सम्भवति इति अत्र कारणम् वर्तते । वस्तुतस्तु, अत्र स्थानिवद्भावः कथं सम्भवति इत्यपि अपरः प्रश्नः अस्ति एव ! अतः अत्र प्रौढमनोरमायाम् उक्तानि अष्टौ अधिकानि रूपाणि अनुचितानि एव ग्राह्याणि ।
Balamanorama Up
<<मय उञो वो वा>> - मय उञो वो वा । 'मय' इति पञ्चमी, 'उञ' इति षष्ठी । 'ङमो ह्रस्वादचि' इत्यतोऽचीत्युवर्तते, तदाह — मयः परस्येति । किम्वुक्तमिति ।किमु उक्त॑मिति स्थिते मकारोत्तरोकारस्य उञो 'निपात एकाच्' इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम् । ननु तर्हीको यणचीत्यनन्तरमेवमय उञो वे॑ति पठितव्यं, वग्रहणाऽभावेन लाघवात् । त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह — वत्वस्येति । यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र 'मोऽनुस्वार' इति मकारस्य वकारे परेऽनुस्वारः स्यात् । त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः । त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः ।
Padamanjari Up
ठिको यणचिऽ इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ? - इत्याशङ्क्याह - प्रगृह्यत्वादिति । प्रगृह्यत्वं च'निपात एकाजनाङ्' इति । एवमपि ठिको यणचिऽ इत्यस्यानन्तरम्'मय उञो वा' इति वक्तव्यम्, एवं हि वग्रहण न कर्तव्यं भवति ? तत्राह - तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा ठुञःऽ इति प्रकगृह्यसंज्ञाया विकल्पः, Äषादेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति - किंविति । प्रगृह्यसंज्ञाअपक्षे त्वनेन वा वत्वम् - किव्विति, किमु इति । Äषादेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । Äषादेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ॥