4-3-2 तस्मिन् अणि च युष्माकास्माकौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् खञ्
index: 4.3.2 sutra: तस्मिन्नणि च युष्माकास्माकौ
तस्मिनिति साक्षाद् विहितः खञ् निर्दिष्यते, न चकारानुकृष्टः छः। तस्मिन् खञि अणि च युष्मदस्मदोर्यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः। निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान् न भवति? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोः युष्माकास्माकौ भवतः, ततोऽणि चेति। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः। तस्मिनणि चेति किम्? युष्मदीयः। अस्मदीयः।
index: 4.3.2 sutra: तस्मिन्नणि च युष्माकास्माकौ
युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥
index: 4.3.2 sutra: तस्मिन्नणि च युष्माकास्माकौ
युष्मदस्मदोरेतावादेशौ स्तः खञि अणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥
index: 4.3.2 sutra: तस्मिन्नणि च युष्माकास्माकौ
तस्मिन् नणि च युष्माकास्माकौ - अथ खञि अणि च विशेषमाह — तस्मिन्नणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह — खञि अणि चेति । अत्र स्थानिनोरादेशयोश्च यथासङ्ख्यं, न तु परनिमित्तयोः, तस्मिन्नणीति व्यस्तनिर्देशात् । यौष्माकीण इति । युवयोर्युष्माकं वा अयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः आदिवृद्धिः, णत्वम् । आस्माकीन इति । आवयोरस्माकं वा अयमिति विग्रहः । अणि उदाहरति — यौष्माकः आस्माक इति ।
index: 4.3.2 sutra: तस्मिन्नणि च युष्माकास्माकौ
साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम् - यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्च्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र'गर्तोतरपदाच्छः' इति यावदन्वेषणे च्छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण च्छस्यानुकर्षणमिति न तस्य परामर्शशङ्का । निमितयोरित्यादि । द्वे हि निमिते - खञणौ, निमितिनावपि द्वावेव - आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति ।'खञणोर्युष्माकास्माकौ' इति वक्तव्ये'तस्मिन्नणि च' इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमिताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ॥