8-4-46 अचः रहाभ्यां द्वे पूर्वत्र असिद्धम् संहितायाम् यरः
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अचः रहाभ्याम् यरः द्वे वा
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अचः परस्य यौ रेफहकारौ, ताभ्याम् परस्य यरः द्वे वा स्तः ।
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
If र् or ह् is present after अच् letter, then a यर् letter occurring after such a र् or ह् is optionally duplicated.
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
यरः इति वर्तते। अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः। अर्क्कः मर्क्कः। ब्रह्म्मा। अपह्न्नुते। अचः इति किम्? किन् ह्नुते। किम् ह्मलयति।
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ । न समासे (वार्त्तिकम्) । वाप्यश्वः ॥
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अच्-वर्णात् परः यः रेफः / हकारः, तस्मात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा —
ब्रह्मा → ब्रह्म्मा, ब्रह्मा । अकारात् परः यः हकारः, तस्मात् परस्य मकारस्य विकल्पेन द्वित्वम् ।
ईर्ष्या → ईर्ष्ष्या, ईर्ष्या । ईकारात् परः रेफः, तस्मात् परस्य षकारस्य विकल्पेन द्वित्वम् ।
ब्रह्मर्षि → ब्रह्म्मर्ष्षि, ब्रह्म्मर्षि, ब्रह्मर्ष्षि, ब्रह्मर्षि । हकारात् परस्य मकारस्य विकल्पेन द्वित्वम्, रेफात् परस्य षकारस्य अपि विकल्पेन द्वित्वम् ।
यद्यपि यर्-प्रत्याहारे रेफः अपि समाविष्टः अस्ति, तथापि प्रकृतसूत्रे रेफस्य निमित्तरूपेण पृथक्-ग्रहणे कृते, यर्-प्रत्याहास्थस्य रेफस्य विषये इदं सूत्रं न हि प्रवर्तते । । इत्युक्ते, रेफात् हकारात् वा परस्य रेफस्य प्रकृतसूत्रेण द्वित्वं नैव सम्भवति । यथा,
यरः इति किमर्थम् ? हकारस्य अनेन सूत्रेण द्वित्वं न भवति । यथा,
अचः इति किमर्थम् ?हल्-वर्णात् परौ यौ रेफहकारौ, ताभ्याम् परस्य यर्-वर्णस्य अनेन सूत्रेण द्वित्वं न सम्भवति । यथा,
रहाभ्याम् इति किमर्थम् ? अन्येभ्यः वर्णेभ्यः परस्य यर्-वर्णस्य प्रकृतसूत्रेण द्वित्वं न भवति । यथा,
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अचो रहाभ्यां द्वे - अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्ठन्तं वेति चानुवर्तते । अचेति दिग्योगे पञ्चमी ।पराभ्या॑मिति शेषः । रहाभ्यामित्यपि पञ्चमी ।परस्ये॑ति शेषः । तदाह — अचः पराभ्यामित्यादिना । हय्र्यनुभव इति । हरेरनुभव इति विग्रहः । हरि-अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्वम् । अथ हकारात्परस्योदाहरति — न ह्य्यस्तीति । नहि — अस्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाऽभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्राऽनचि चेति रेफहकारयोर्द्वित्वं न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छतेन निमित्तभावेन तयोर्यर्शब्दबोधितकार्यभाक्त्वबाधात्,श्रुतानुमितयोः श्रुतं बलीय॑ इति न्यायात् । हर्य् य् अनुभवः, नह् य् य् अस्तीति स्थिते ।
index: 8.4.46 sutra: अचो रहाभ्यां द्वे
अर्चयतेर्घञ्, कुत्वम्, अर्क्कः । मर्चिः सौत्रो धातुः, तस्मात् ठिण्भीकापाशल्यतिमर्चिभ्यः कन्ऽ,'चोः कुः' इति कुत्वम् - मर्क्कः । अत्राकारादनन्तरो रेफः, तस्मादपि ककारः । एवमुतरेष्वपि द्रष्टव्यम् ॥