5-2-45 तत् अस्मिन् अधिकम् इति दशान्तात् डः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
'तत् अस्मिन् अधिकम् इति' (इति) दशान्तात् डः
'दश' यस्य अन्ते विद्यते तादृशात् प्रथमासमर्थात् 'अस्मिन्' इत्यस्मिन् अर्थे 'अधिकम्' इति वक्तव्ये 'ड'-प्रत्ययः भवति ।
तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात् प्रातिपदिकाद् डः प्रत्ययो भवति, यत् तत् प्रथमासमर्थमधिकं चेत् तद् भवति। इतिकरणस्ततश्चेद् विवक्षा। एकादश अधिका अस्मिन् शत एकादशं शतम्। एकादशं सहस्रम्। द्वादशं शतम्। द्वादशं सहस्रम्। दशान्तादिति किम् ? पञ्चाधिका अस्मिन् शते। अन्तग्रहणं किम्? दशाधिका अस्मिन् शते। प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते। एकादश कार्षापणा अधिका अस्मिन् कार्षापणशत एकादशं कार्षापणशतमिति। इह तु न भवति — एकादश माषा अधिका अस्मिन् कार्षापणशत इति। शतसहस्रयोश्चेष्यते। इह न भवति — एकादशाधिका अस्यां त्रिंशतीति। इतिकरणो विवक्षार्थ इत्युक्तम्, तत इदं सर्वं लभ्यते। क थमेकादशं शतसहस्रमिति? शतानां सहस्रं सहस्राणां वा शतमिति शतसहस्रमित्युच्यते। तत्र शतसहस्रयोरित्येव सिद्धम्।
अधिके समानजाताविष्टं शतसहस्रयोः।
यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम॥
एकादश अधिका अस्मिन्नेकादशम् ।<!शतसहस्रयोरेवेष्यते !> (वार्तिकम्) ॥ नेह । एकादश अधिका अस्यां विंशतौ ।<!प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते !> (वार्तिकम्) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥
सूत्रार्थम् सम्यक् ज्ञातुमादौ केचन बिन्दवः ज्ञेयाः - 1. 'दशान्त' इत्युक्ते सः शब्दः यस्य अन्ते 'दश' इति विद्यते । एकादश, द्वादश, ..., अष्टादश, नवदश - एते नव शब्दाः अनेन सूत्रेण गृह्यन्ते । 2. अस्मिन् सूत्रे 'तत् अधिकमस्मिन्' इति उक्तमस्ति । एतस्य स्पष्टीकरणार्थम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <!शतसहस्रयोरेवेष्यते!> । इत्युक्ते, 'तत् अधिकमस्मिन् शते' ( A certain number more than hundred) तथा 'तत् अधिकमस्मिन् सहस्रे' (A certain number more than thousand) इत्येतयोः एव अर्थयोः अस्य सूत्रस्य प्रयोगः भवति । 3. अस्मिन् सूत्रे 'ड' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये 'ड्' इत्यस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्य <<तस्य लोपः>> 1.3.9 इत्यनेन च लोपः भवति । प्रत्ययस्य डित्वात् <<टेः>> 6.4.143 इत्यनेन अङ्गस्य टिलोपः अपि विधीयते । इदानीम् कानिचन उदाहरणानि पश्यामः - 1. एकादश अधिकमस्मिन् शते (eleven more than hundred) = एकादशन् + ड → एकादश् + अ [<<टेः>> 6.4.143 इति टिलोपः] → एकादश यथा - इदम् एकादशम् शतम् । (This is eleven more than a hundred) 2. पञ्चादश अधिकमस्मिन् सहस्रे (fifteen more than thousand) = पञ्चादशन् + ड → पञ्चादशन् → पञ्चादशम् सहस्रम् । 3. नवदश अधिकमस्मिन् शते (nineteen more than hundred) = नवदश + ड → नवदशम् शतम् । 4. षोडश अधिकमस्मिन् शते (sixteen more than thousand) = षोडश + ड → षोडशम् सहस्रम् । स्मर्तव्यम् - 1. अस्मिन् सूत्रे 'दशान्त' इति शब्दः उक्तः अस्ति । अतः अन्येषाम् शब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - 'पञ्च अधिकाः अस्मिन् शते' इत्यत्र ड-प्रत्ययः न भवति । 2. अस्य सूत्रस्य प्रयोगः 'शतम्' / 'सहस्रम्' एतयोः विषये एव भवति । यथा - 'एकादश अधिकाः अस्मिन् त्रिंशति' इत्यत्र इदम् सूत्रम् न प्रयुज्यते । 3. अस्य सूत्रस्य विषये 'व्यपदेशिवद्भावः' न भवतीति व्याख्यानेषु स्पष्टीकृतमस्ति । इत्युक्ते, 'दश' शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते; केवलम् 'दशान्त' शब्दस्य विषये एव विद्यते । यथा - 'दश अधिकमस्मिन् सहस्रे' इत्यत्र अनेन सूत्रेण ड-प्रत्ययः न भवति । 4. अस्य सूत्रस्य प्रयोगस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्रकृतिप्रत्ययार्थयोः समानजातीयत्वे एवेष्यते!> । इत्युक्ते, यत्र 'दशान्त' शब्दः तथा च 'शतम् / सहस्रम्' शब्दः समानवस्तुनोः निर्देशं कुरुतः, तत्रैव अस्य सूत्रस्य प्रसक्तिः विद्यते, अन्यथा न । This sutra is applicable when the 'hundred / thousands' reference the same type of entity as the दशान्त represents. यथा - 'एकादश कार्षापणाः (coins) अधिकम् एतेषु शतेषु कार्षापणेषु' इत्यत्र 'एकादशम् कार्षापणशतम्' इति प्रयोगः भवति, परन्तु 'एकादश कार्षापणाः अधिकाः एतेषु शतेषु माषेषु (grains)' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 5. अस्मिन् सूत्रे 'इति' शब्दः स्वीक्रियते । अस्य प्रयोजनम् 'विवक्षा' इति अस्ति एतत् व्याख्यानानि स्पष्टीकुर्वन्ति । अत्र 'विवक्षा' इत्यनेन 'शत' तथा 'सहस्र' एतयोः निर्देशः भवति । इत्युक्ते, केवलम् 'शत' तथा 'सहस्र' एतयोः विषये एव वर्तमानसूत्रस्य प्रसक्तिः भवेत् - इति स्पष्टीकर्तुमेव अत्र 'इति' शब्दः उक्तः अस्ति ।
अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि - वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपाता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृतावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृतौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा - वृद्धस्यौपगव इति ॥ शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव। इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि'शतसहस्रयोश्चेष्यते' इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः। कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह - शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे'संख्याया अल्पीयस्याः' इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः - एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उतरत्र तु सहस्राणां संख्येयत्वातान्येव प्रकृत्यर्थः - एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः । उक्तमेवार्थं श्लोकेन दर्शयति - अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्तमानात् प्रत्यय इत्यर्थः। यद्वा -'समानजातौ' इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छाए न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह - यस्य संख्येति।'शतानि सहस्राणि संख्यायन्ते' , इत्युक्तम्, ठधिके समानजातौऽ इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ॥ शदन्तविंशतेश्च ॥ अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वातत्राह - शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति।'संक्याया अवयवे तयप्' इत्यतः संख्याग्रहणमनुवर्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्। विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा'ग्रहणवता' इति निषेधातदन्तान्न स्यात् ॥ संख्याया गुणस्य निमाने मयट् ॥ तदस्य सज्जातमित्यत इति। तत्र तावत्'तदस्य' इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु।'तदस्मिन्नधिकम्' इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन'तदस्मिन्' इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। ठस्मिन्ऽ इत्यनेन विच्छैन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति।'मेङ् प्रणिदाने' इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेःक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि - द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह - कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा - प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वातद्धैतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह - भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह - यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि'गुणनिमाने' इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद्'भूयसश्च वाचिकायाः' इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् ।'बहोर्लोपो भू च वहोः' इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह - भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते । निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृतेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो'बहुलम्' इति कर्मणि ल्युट्। गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्ट्ंअ सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल ततेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ॥