न पदान्ताट्टोरनाम्

8-4-42 न पदान्तात् टोः अनाम् पूर्वत्र असिद्धम् संहितायाम् स्तोः श्चुः ष्टुः

Sampurna sutra

Up

पदान्तात् टोः अनाम् स्तोः ष्टुः न ।

Neelesh Sanskrit Brief

Up

पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति ; परन्तु षष्ठीबहुवचनस्य 'नाम्' प्रत्यये परे ष्टुत्वम् अवश्यं भवति ।

Neelesh English Brief

Up

Except when followed by the प्रत्यय नाम्, a पदान्तटवर्ग letter does not cause the ष्टुत्वम् of सकार or a तवर्ग letter that follows it.

Kashika

Up

पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तादिति किम्? <<ईड स्तुतौ>> — ईट्टे। टोरिति किम्? सर्पिष्टमम्। अनामिति किम्? षण्णाम्। अत्यल्पमिदमुच्यते॥ अनाम्नवतिनगरीणामिति वक्तव्यम्॥ षण्णाम्। षण्णवतिः। षण्णगरी॥

Siddhanta Kaumudi

Up

अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥<!अनाम्नवतिनगरीणामिति वाच्यम् !> (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥

Laghu Siddhanta Kaumudi

Up

पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। <<अनाम्नवतिनगरीणामिति वाच्यम्>> (वार्त्तिकम्) । षण्णाम् । षण्णवतिः। षण्णगर्य्यः॥

Neelesh Sanskrit Detailed

Up

<<ष्टुना ष्टुः>> 8.4.40 इत्यनेन सूत्रेण निर्दिष्टम् ष्टुत्वम् प्रकृतसूत्रेण विशिष्टासु स्थितिषु निषिध्यते । पदान्तटवर्गीयवर्णात् परस्य सकारस्य, तवर्गीयवर्णस्य च ष्टुत्वं न भवति— इति अस्य सूत्रस्य आशयः । वस्तुतस्तु पदान्तटकारठकारढकाराणाम् आदौ जश्त्वे डकारः एव भवति, अतः अत्र केवलम् पदान्तडकारस्य, पदान्तणकारस्य च उदाहरणानि विद्यन्ते । यथा — 1. पदान्तडकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः षड् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति [अत्र <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> 8.4.42 इति तत् निषिध्यते ।] → षट्सन्ति / षट्तरन्ति / षट्थकारीयन्ति / षड्ददति / षड्धावन्ति / षण्नयन्ति [आदिस्थेषु त्रिषु उदाहरणेषु <<खरि च>> 8.4.55 इति चर्त्वम् भवति । अन्तिमे उदाहरणे <<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इति डकारस्य पाक्षिकं णत्वम्] 2. पदान्तणकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः सुगण् + सहते / तरति / थकारीयति / ददाति / धावति / नयति → सुगण्सहते, सुगण्तरति, सुगण्थकारीयति, सुगण्ददाति, सुगण्धावति, सुगण्नयति । परन्तु षष्ठीबहुवचनस्य नाम्-प्रत्यये परे ष्टुत्वम् अवश्यं भवति । अतएव प्रकृतसूत्रे अनाम् इति निर्देशः क्रियते । षष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → षष् + नुट् + आम् [<<षट्चतुर्भ्यश्च>> 7.1.55 इत्यनेन नुडागमः] → षड् + नाम् [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम् ] → षड् + णाम् [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम् ।] → षण् + णाम् [<<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते <!प्रत्यये भाषायां नित्यम्!> अनेन वार्त्तिकेन नित्यम् णकारादेशः] → षण्णाम् वार्त्तिकम् - <!अनाम्-नवति-नगरीणाम् इति वाच्यम् !> प्रकृतसूत्रे विद्यमानः 'अनाम्' इति निर्देशः नगरी-नवति-शब्दयोः विषये अपि ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, पदान्तटवर्गात् परस्य नवतिशब्दस्य नगरीशब्दस्य च नकारस्य ष्टुत्वम् अवश्यम् एव भवति । यथा — षड् + नगर्यः / नवतिः → षड् + णगर्यः / नवतिः [<<ष्टुना ष्टुः>> 8.4.40] इति ष्टुत्वम् । <<न पदान्ताट्टोरनाम्>> 8.4.42 इत्यनेन उक्तः निषेधः <!अनाम्-नवती-नगरीणामिति वाच्यम्!> इति वार्तिकेन न प्रवर्तते । ] → षण्णगर्यः, षड्णगर्यः / षण्णवतिः, षड्णवतिः [<<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इति डकारस्य वैकल्पिकः णकारः]

Balamanorama

Up

<<न पदान्ताट्टोरनाम्>> - तदाह — पदान्तादित्यादिना । ईट्टे इति । 'ईडस्तुतौ' आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चर्त्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्रस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह 'आदेशप्रत्यययोरिति' षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् ।

Padamanjari

Up

ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥