सवाभ्यां वामौ

3-4-91 सवाभ्यां वामौ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः एतः

Sampurna sutra

Up

लोटः लस्य सवाभ्याम् एतः व-अमौ

Neelesh Sanskrit Brief

Up

लोट्लकारस्य प्रत्ययेषु विद्यमानस्य सकारात् परस्य एकारस्य 'व' आदेशः तथा वकारात् परस्य एकारस्य अम्-आदेशः भवति ।

Neelesh English Brief

Up

An एकार coming after a सकार or a वकार of प्रत्यय of लोट्लकार is respectively converted to व and अम्.

Kashika

Up

लोट इत्येव। सकारवकाराभ्यामुत्तरस्य लोट्संबन्धिन एकारस्य यथासंख्यं व अम् इत्येतावादेशौ भवतः। आमोऽपवादः। पचस्व। पचध्वम्॥

Siddhanta Kaumudi

Up

सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥

Laghu Siddhanta Kaumudi

Up

सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥

Neelesh Sanskrit Detailed

Up

लोट्लकारस्य प्रत्ययेषु सकारात्-परः एकारः मध्यमपुरुषैकवचनस्य विषये, तथा वकारात्-परः एकारः मध्यमपुरुषबहुकवचनस्य विषये दृश्यते । एतयोः क्रमेण व् तथा अमादेशौ भवतः । वन्द्-धातुं स्वीकृत्य प्रक्रिया एतादृशी भवति - 1. मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः वन्द् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → वन्द् + थास् [<<तिप्तस्..>> 3.4.78 इति थास्-प्रत्ययः] → वन्द् + शप् + थास् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → वन्द् + अ + से [<<थासस्से>> 3.4.80 इति थास्-प्रत्ययस्य 'से' आदेशः] → वन्द् + अ + स् + व [<<सवाभ्यां वामौ>> 3.4.91 इति सकारात् परस्य एकारस्य वकारः] → वन्दस्व 2. मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः वन्द् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → वन्द् + ध्वम् [<<तिप्तस्..>> 3.4.78 इति ध्वम् -प्रत्ययः] → वन्द् + शप् + ध्वम् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → वन्द् + अ + ध्वे [<<टित आत्मनेपदानां टेरे>> 3.4.68 इति एकारः] → वन्द् + अ + ध्व् + अम् [<<सवाभ्यां वामौ>> 3.4.91 इति वकारात् परस्य एकारस्य अम्-आदेशः] → वन्दध्वम्

Balamanorama

Up

<<सवाभ्यां वामौ>> - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य 'व' इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । 'आतो ङि' इत्याकारस्य इय् । गुणः । यलोपः 'आमेत' इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।

Padamanjari

Up