3-4-80 थासः से प्रत्ययः परः च आद्युदात्तः च धातोः लस्य टित
टितः लस्य आत्मनेपदानाम् थासः से
टित्-लकाराणाम् विषये आत्मनेपदस्य थास्-प्रत्ययस्य 'से' आदेशः भवति ।
In case of टित्-लकारs, the आत्मनेपद प्रत्यय थास् is converted to 'से'.
टित इत्येव। टितो लकारस्य यस्थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे॥
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे <{SK191}> । एधे । एधावहे । एधामहे ॥
टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥
'थास्' इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य प्रत्ययः । टित्-लकाराणाम् विषये अस्य प्रत्ययस्य से-आदेशः भवति । यथा - 1. वन्द्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् - वन्द् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → वन्द् + थास् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः] → वन्द् + शप् + थास् [<<कर्तरि शप्>> 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ] → वन्द् + अ + से [<<थासस्से>> 3.4.80 इत्यनेन थास्-इत्यस्य से-आदेशः ] → वन्दसे । 2. पच्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् पच् + लुट् [<<अनद्यतने लुट्>> इति लुट्] → पच् + तास् + लुट् [<<स्यतासी लृलुटोः>> 3.1.33 इति तास्-लकारविकरणप्रत्ययः] → पच् + तास् + थास् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः] → पच् + तास् + से [<<थासस्से>> 3.4.80 इत्यनेन थास्-इत्यस्य से-आदेशः] → पच् + ता + से [<<तासस्त्योर्लोपः>> 7.4.50 इत्यनेन तास्-प्रत्ययस्य सकारस्य सकारादि-प्रत्यये परे लोपः] → पक् + ता + से [<<चोः कुः>> 8.2.30 इति कुत्वम् ] →पचिषे
<<थासस्से>> - थासः से । 'से' इति लुप्तप्रथमाकम् । एधस इति । थासि शपि थासः सेभावः । एधेथे इति । लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति — अतो गुणे इति ।अतो गुणे॑इति पररूपे वृद्ध्यपवादे कृते सति 'एधे' इति रूपमित्यर्थः । एधावहे इति । लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधमह इति । लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिङिति ङकारस्तङ्प्रत्ययार्थः । इति लट्प्रक्रिया ।
पेचिषे इति । लिट्, ठत एकहलमध्येऽ इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह'थः सः' इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? ठात्मनेपदानाम्ऽ इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते - धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति - पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात्'थासः से' इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति - आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ॥