स्वरतिसूतिसूयतिधूञूदितो वा

7-2-44 स्वरतिसूतिसूयतिधूञूदितः वा आर्धधातुकस्य इट् वलादेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्वरति सूति सूयति धूञ् इत्येतेभ्य ऊदिद्भ्यश्चोत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। स्वर्ता, स्वरिता। सूति। प्रसोता, प्रसविता। सूयति — सोता, सविता। धूञ् — धोता, धविता। ऊदिद्भ्यः खल्वपि — गाहू — विगाढा, विगाहिता। गुपू — गोप्ता, गोपिता। वेति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम्। सूतिसूयत्योर्विकरणनिर्देशः <<षू प्रेरणे>> इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देशो <<धू विधूनने>> इत्यस्य निवृत्त्यर्थः। सविता, धुवितेत्येव नित्यमेतयोर्भवति। स्वरतेरेतस्माद् विकल्पाद् <<ऋद्धनोः स्ये>> ७.२.७० इत्येद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये <<श्र्युकः किति>> ७.२.११ इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा॥

Siddhanta Kaumudi

Up

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्वरतिसूतिसूयतिधूञूदितो वा>> - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । 'धूञ् कम्पने' स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते ।

Padamanjari

Up

अत्र स्वरतेरनुदातत्वादप्राप्ते, तैतरेषां तु प्राप्ते विभाषा । वेति वतमान इति । इट् सनि वा इत्यतः । लिङसिचोर्निवृत्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्यर्थ इति । अन्यथा निरनुबन्धकत्वातस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्यर्थ इति । अन्यथा पूर्ववतस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्वम् । स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय र्श्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्ययस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृतौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ॥