7-2-15 यस्य विभाषा न इट् वशि निष्ठायाम्
index: 7.2.15 sutra: यस्य विभाषा
यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति। वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा 7.2.44। विधूतः। विधूतवान्। गुहू गूढः। गूढवान्। उदितो वा वृधु वृद्धः। वृद्धवान्। तनिपतिदरिद्राणामुपसङ्ख्यानम् इति पतेर्विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित 2.1.24 ति निपातनातिडागमः।
index: 7.2.15 sutra: यस्य विभाषा
यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा <{SK3328}> इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च - <{SK294}> इति षत्वे प्राप्ते ।<!निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः !> (वार्तिकम्) ॥ वृक्णः । वृक्णवान् ॥
index: 7.2.15 sutra: यस्य विभाषा
यस्य विभाषा - यस्य विभाषा । यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह — उदितो वेति । समन्क इति । सङ्गत इत्यर्थः । संपूर्वादञ्चुधातोः क्तः ।आर्धधातुकस्ये॑डिति प्राप्तस्य इटो निषेधः ।अनिदिता॑मिति नलोप- । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः । 'ओ व्रश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः,ग्रहिज्ये॑ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिहयस्य विभाषे॑ति नेट्, चस्य कुत्वेन कः,ओदिश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात्स्को॑रिति सलोपः णत्वम् । वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात्व्रश्चे॑ति षत्वं स्यादित्यत आह — निष्ठादेशः षत्वेति । तथा च 'व्रश्चभ्रस्जे' ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि ।
index: 7.2.15 sutra: यस्य विभाषा
यस्य विभाषा इत्यनुवादवाक्यम् । अत्र च इड्विहितः इति वाक्यशेषः । यतदोर्नित्यसम्बन्धातस्य निष्ठायामिण्न भवतीति प्रतिषेधवाक्यं सम्पद्यते । निपात्नादिडागम इति । अपर आह - अनित्योऽयं प्रतिषेधः, कृती छेदने इत्यस्य इदित्करणसामर्थ्यात् । यदि ह्ययं विधिर्नित्यः स्यात् सेऽसिचि इत्यनेन विभाषितेट्त्वादनेनैव प्रतिषेधस्य सिद्धत्वादीदित्करणमनर्थकं स्यादिति ॥