लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये

7-3-73 लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये क्सस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दुह दिह लिह गुह इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्सस्य वा लुग् भवति। अदुग्ध, अधुक्षत। अदुग्धाः, अधुक्षथाः। अधुग्ध्वम़्, अधुक्षध्वम्। अदुह्वहि, अधुक्षावहि। दिह — अदिग्ध, अधिक्षत। लिह — अलीढ, अलिक्षत। गुह — न्यगूढ, न्यघुक्षत। दुहादीनामिति किम्? व्यत्यपुक्षत। आत्मनेपद इति किम्? अधुक्षत्। दन्त्य इति किम्? अधुक्षामहि। लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम्, तच्च वह्यर्थम्। अन्यत्र त्वन्त्यस्यैव लोपे कृते <<झलो झलि>> ८.२.२६ इति सकारलोपेन सिध्यति। स्थानिवद्भावोऽपि अकारलोपस्य नास्ति, <<पूर्वत्रासिद्धे न स्थानिवत्>> (महाभाष्य १.१५४) इति। दन्त्योष्ठ्योऽपि वकारो दन्त्य इति गृह्यते। यदि स न गृह्यते, ततस्तौग्रहणमेवात्र कृतं स्यात्॥

Siddhanta Kaumudi

Up

एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि <{SK2337}> इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः ।{$ {!897 श्रिञ्!} सेवायाम्$} । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-<{SK2312}> इतिचङ् । अशिश्रियत् ।{$ {!898 भृञ्!} भरणे$} । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥

Laghu Siddhanta Kaumudi

Up

एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि। अदुग्ध, अधुक्षत॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये>> - लुङस्तङि विशेषमाह — लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । प्रत्ययाऽदर्शनत्वात्सर्वादेशोऽयं लुक् । अगूढेति । अगुह् त इति स्थिते प्रक्रियां दर्शयति — ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुक्षतेति । क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाऽभावादूत्त्वाऽभावेढत्वभष्भावकत्वषत्वेषु कृतेषुक्सस्याची॑त्यन्तलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः । अघुक्षन्तेति । झस्य अजादित्वाऽभावात्तस्मिन्परे क्सस्य अन्त्यलोपाऽभावादतः परत्वाऽभावादात्मनेपदेष्वत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्याऽन्तलोप इति भावः । अघुक्षथाः काघुक्षाथामघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह — अगुह्वहीति । दन्त्यादिप्रत्ययपरत्वत्क्सस्य लुङि अजादिप्रत्ययाऽभावादूत्त्वाऽभावे रूपम् । अघुक्षावहीति । क्स्लुगभावे ढत्वभष्भावकत्वषत्वानि, अतो दीर्घश्च । अघुक्षामहीति.दन्त्यादिप्रत्ययपरत्वाऽभावान्न क्सलुक् । इतिगूहत्यन्ताः स्वरितेतः । उभयपदिन इति । ञित्त्वादिति भावः । श्रिञ्धातुः सेट् । शिश्रियतुरिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय — शिश्रय, शिश्रियिव शिश्रियिम । शिश्रिये शिश्रियाते शिश्रियिरे । शिश्रयिषे शिश्रयाथे शिश्रियिढ्वे — शिश्रियिध्वे । शिश्रियेशिश्रियिवहे शिश्रयिमहे । श्रयितेति । श्रयिष्यति श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् अश्रयत । श्रयेत् । श्रीयात् । श्रयिषीष्ट । लुङि विशेषमाह — णिश्रीति । अशश्रियदिति ।चङी॑ति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत । भृञ् धातुरनिट् । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाचः' इति नेट्, कृसृभृवृस्तुद्रुरुआउश्रुषु लिटपि तन्निषेधस्य प्रवृत्तेः । थलिअचस्तास्व॑दिति निषेधाच्च, ऋदन्तेषु भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह — बभर्थेति । बभ्रथुः बभ्र । बभार-बभर । इति सिद्धवत्कृत्याह — बभृवेति । बभृम । बभ्रे बभ्राते बभ्रिरे । इति सिद्धवत्कृत्याह — बभृषे इति । बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे ।

Padamanjari

Up

एतेषामङ्गानां क्सस्येति । एतेषां सम्बन्धी यो निमितत्वेन क्सः, तस्येत्यर्थः । सर्वादेशार्थमिति । लुक्सर्वापहारीति संज्ञाविधावुक्तम् । वह्यर्थमिति । उतमपुरुषद्विवचनार्थमित्यर्थः । अथान्यार्थं कस्मान्न भवति ? तत्राह - अन्यत्रेति । अलोऽन्त्यस्येति । ठादेः परस्यऽ इत्येततु न भवति; पञ्चमीनिर्द्देशाभावात् । झलो झलीति लोपेनेति ।'धि सकारे सिचो लोपः' इति नाश्रीयते । च्ल्यादेशोपलक्षणं वा तत्र सिज्ग्रहममिति भावः । अकारस्येति । अकारलोपस्येत्यर्थः । तथैव वा पाठः । ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्तत्वात्, दन्त्यौष्ठ।ले ह्यसौ ? अत आह - दन्त्योष्ठ।लेऽपीत्यादि । दन्तान्वयोऽत्र विवक्षितः, नेतरव्यावृत्तिरिति भावः । एवं न्यायसिद्धेऽप्यर्थे वचनसामर्थ्यमपि दर्शयति - यदि चेति । ताविति । तवर्गादावित्यर्थः । वहेरन्यानि हि दन्त्यादीनि सर्वाण्यात्मनेपदानि तवर्गादीनि ॥