7-3-119 अत् च घेः ङेः औत्
घेः इदुद्भ्याम् ङेः औत्, अङ्गस्य अत् च
घिसंज्ञकात् इकारान्त-उकारान्तशब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति, तथा घिसंज्ञकस्य अङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति ।
The ङि-प्रत्यय that comes after a घिसंज्ञक इकारान्त/उकारान्त word gets औ-आदेश, and the भवति, and the last letter of the घिसंज्ञक अङ्ग gets an अकारादेश ।
औदिति वर्तते। घिसंज्ञकादुत्तरस्य ङेरौकारादेशो भवति, तस्य च घेरकारादेशो भवति। अग्नौ। वायौ। कृतौ। धेनौ। पटौ। अदिति तपरकरणं स्त्रियां टापो निवृत्त्यर्थम्। औदच्च घेरिति येषामेकमेवेदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्वं वर्णयन्ति, अन्वाचयशिष्टं घेरकारमिति ॥
इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
ये हस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां <<शेषो घ्यसखि>> 1.4.7 अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । हस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा हस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अपि ङि-प्रत्यये परे अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति । एतेषाम् सर्वेषाम् परस्य ङि-प्रत्ययस्य अनेन सूत्रेण 'औ' आदेशः भवति, तथा च एतेषामङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा - मुनि + ङि [सप्तम्येकवचनस्य प्रत्ययः] → मुन + औ [<<अच्च घेः>> 7.3.119 इति ङि-प्रत्ययस्य औत्-आदेशः तथा अङ्गस्य अकारादेशः] → मुनौ [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः] अनेनैव प्रकारेण मतौ, धेनौ, साधौ एतानि रूपाणि सिद्ध्यन्ति । स्मर्तव्यम् - ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च <<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः - (अ) नदीसंज्ञापक्षे तेभ्यः परस्य 'ङि'-प्रत्ययस्य <<इदुद्भ्याम्>>7.3.118 इत्यनेन आम्-आदेश भवति । अतः मति + ङि = मत्याम् इति रूपं सिद्ध्यति । (आ) नदीसंज्ञायाः अभावपक्षे तेषाम् <<शेषो घ्यसखि>> 1.4.7 इत्यनेन घि-संज्ञा भवति । अतः तेभ्यः परस्य 'ङि'-प्रत्ययस्य <<औत्>>7.3.119 इत्यनेन औ-आदेश भवति । अतः मति + ङि = मतौ इति अपि रूपं सिद्ध्यति ।
<<औदच्च घेः>> - ॒हरि इ॑ इति स्थितेघेर्ङिती॑ति गुणे प्राप्ते — अच्च घेः । ङेरामि॑त्यतोङे॑रित्यनुवर्तते ।इदुद्भ्या॑मितिऔ॑दिति च सूत्रमनुवर्तते । तदाह — इदुद्भ्यामिति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमेतत् । वृद्धिरिति । हर-औ इति स्थिते वृद्धिरेची॑ति वृद्धौ, हरौ इति रूपमित्यर्थः । हरिष्विति ।आदेशप्रत्यययो॑रिति षत्वम् । अथ सखिशब्दात्सुः । सखि-स् इति स्थिते ।
कृतौ, धेनाविति । अथात्रात्वे कृते ठजाद्यतष्टाप्ऽ इति टाप्कस्मान्न भवति, अस्तु को दोषः ?'डेराम्नद्याम्नीभ्यः' ,'याडापः' इत्येतौ विधी प्राप्नुतः, औत्वविधानं तु पुंसि चरितार्थम् ? अत आह - तपरकरणं स्त्रियामापो निवृत्यर्थमिति । इह हि स्थानिनो मात्रिकत्वाद्भाव्यमानत्वाच्चाणो दीघस्य प्रसङ्गो नास्ति, यस्य निवृत्यर्थं तपरकरणं स्यात् । तस्माच्छास्त्रन्तरेणापि दीर्घो मा भूदित्येवमर्थं तपरकरणं क्रियते, एतच्च सन्निपातपरिभाषामनाश्रित्योक्तम् । ङसिन्निपातकृतं ह्यत्वं तद्विघातकस्य टापो निमितं न भवति । औदच्च घेरिति येषामित्यादि । इह केचित् ठौदच्च घेःऽ इत्येकयोगमेवाधीयते, तत्र यदि समुच्चये चशब्दः स्यात्, यत्रात्वं तत्रैवौत्वं स्यात् - धेनाविति; घेश्चात्वमित्यघौ सख्यौ, पत्यावित्यत्रौत्वमपि न स्यात्, अस्य दोषस्य निवृतये प्रधानशिष्टमौत्वमन्वाचयशिष्टमत्वमिति वर्णयन्ति । तत्र यथा'कर्तुः क्यङ् सलोपश्च' इत्यत्र सलोपस्यान्वाचयशिष्टस्याभावेऽपि श्येनायत इत्यादौ क्यङ् भवति, तथा अत्रापि सख्यौ, पत्यावित्यत्वाभावेऽपि औत्वं भवतीत्यर्थः ॥