नामि

6-4-3 नामि

Sampurna sutra

Up

अङ्गस्य नामि दीर्घः

Neelesh Sanskrit Brief

Up

षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः भवति ।

Neelesh English Brief

Up

In presence of the नाम् प्रत्यय, the last letter of the अङ्ग becomes दीर्घ.

Kashika

Up

नामित्येतत् षष्ठीबहुवचनमागतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायूनाम्। कर्तृृणाम्। हर्तृृणाम्। अण इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्।

नामि दीर्घ आमि चेत्स्यात् कृते दीर्घे न नुड् भवेत्।

वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्॥

Siddhanta Kaumudi

Up

नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे <{SK202}>ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि <{SK209}>इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥

Laghu Siddhanta Kaumudi

Up

अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

Neelesh Sanskrit Detailed

Up

षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । यथा - बाल + नाम् → बालानाम् । मुनि + नाम् → मुनीनाम् । पितृ + नाम् → पितॄणाम् । आदयः । ज्ञातव्यम् - <<अचश्च>> 1.2.28 परिभाषायाः साहाय्येन 'अच्-वर्णस्य' दीर्घः भवतीति ज्ञायते । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिम-वर्णस्य दीर्घादेशः भवतीति स्पष्टीभवति ।

Balamanorama

Up

<<नृ च>> - नृच । 'नृ' इति लुप्तषष्ठीकम् ।नामी॑ति सूत्रमनुवर्तते । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।छन्दस्युभयथे॑त्यत उभयथेत्यनुवर्तते । तदाह — नृ #इत्येतस्येत्यादिना । नृणां नृणामिति ।ऋवर्णान्नस्ये॑ति णत्वम् । ङौऋतो ङी॑ति गुणो रपरत्वम् । नरि न्रोः नृषु । इत्यृदन्ताः । अथ ऋदन्ता निरूप्यन्ते — कृ इत्यादिना । कृ तृ इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे'तृ प्लवनतरणयोः॑ । कृ तृ इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ तृ इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थः । अनुकार्यं च अनुकरणाद्भिन्नमिति 'मतौ छः' इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्यये ।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे,प्राग्दीव्यतोऽ॑णित्यत्र भाष्ये च स्पष्टमेतत् । ततश्चाऽनुकार्याभ्यां कृ तृ इत्याभ्यां अनुकरणभूतयोः कृ तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात्ऋत इद्धातो॑रिति कथमित्वम् । न चप्रकृतिवदनुकरण॑मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह — प्रकृतिवदनुकरणमितीति ।यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्चप्रकृतिवदनुकरण॑मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः ।कीरिति । कृधातुरित्यर्थः । ॠकारस्य इत्त्वे रपरत्वे 'र्वोरुपधायाः' इति दीर्घः । सोर्हल्ङ्यादिलोपः, विसर्गश्च । किराविति । अपदान्तत्वात् 'र्वोः' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गीर्शब्दवद्रूपाणीत्यर्थः । किरम् । किरौ किरः । किरा । कीभ्र्याम् । कीर्भिः । किरे । किरः । किरोः । कीर्षु । भ्यामादौस्वादिष्वसर्वनामस्थाने॑ इति पदत्वाद्दीर्घः । इत्वाऽभावेति ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् 'ॠत इद्धातोः' इति इत्त्वाऽभावे सतीत्यर्थः । अनङ्गुणौ नेति । 'ऋत उ' दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'ग्रो यङी' त्यादिनिर्देशाः सङ्गच्छन्ते । कृरिति । रृधातुरित्यर्थः । क्रौः क्र इत्यादौ यण् । इत्यादिति । क्रः । क्रः क्रोः क्राम् । क्रि इत्यृदन्ताः ।अत लृदन्ताः । गम्लृ इति । गम्लृ गतौ॑ 'शक्लृ शक्तौ' अजन्तौ धातू । अनङिति ।ऋदुशनसित्यनेने॑ति शेषः । ऋऌवर्णयोः सावण्र्यादिति भावः । गुणविषये त्विति । ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः । 'उरण्रपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । ऋत ऌवर्णस्य दीर्घाऽभावाद्दृवर्ण एव । पूर्वसवर्णदीर्घे नत्वमिति भावः । ङसिङसोस्त्विति । गम्लृ अस् इति स्थिते उत्, लपरः । गमुल् स् इति स्थितेसंयोगान्तस्य लोपः॑ । गमुल् इति रूपम् । इत्यादीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । गम्लृभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लृषु । वस्तुतस्तु 'उरण्रपरः' इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये । यदि ऌकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः । इति लृदन्ताः । अथ एदन्ताः । इनेति । अः=विष्णुः तस्यापत्यम् इः=कामः । अत इञ् । 'यस्येति च' इत्यकारलोपः । इनासहेत्यर्थेतेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सत्वम् ।आद्गुणः॑ । से इति रूपम् । ततः सुः, रुत्वविसर्गौ । सेः । एवं स्मृतेः । स्मृतः इः=कामो येनेति विग्रहेअनेकमन्यपदार्थे॑इति बहुव्रीहिः । नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात् । अजादावयादेशं मत्वाह — सयौ सय इति । 'एह्यह्रस्वात्' इति संबुद्धिलोपः । हे से । नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात् । संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात् । नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, शृणु — हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात् । केचित्तुगुणात्संबुद्धे रित्यनुक्त्वाएङ्ह्रस्वा॑दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्त्या 'से' इत्यस्य पदत्वेनाऽयादेशं बाधित्वाएङः पदान्ता॑दिति पूर्वरूपापत्तेरिति वाच्यम्,उत्तरपदत्वे चापदादिविधौ॑ इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु । तत्र जसि अयादेशस्य निर्बाधत्वात् । इत्येदन्ताः । अथ ओदन्ताः । गो स् इति स्थिते ।

Padamanjari

Up

नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वातत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड।लेन आगतो वा नुड।ल्ं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि चेति दीर्घः सिद्धः । एकर्तणामिति । नन्वण इति वर्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः । उतरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्चेति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमितत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्, एचतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्चेति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृतेरेव नुट् सिद्धः । यदा तर्हि नृ चेति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणातु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् त्यिनङ् कृतेऽइपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृतेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादित स्थितिमेतत् । उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ॥