आङो नाऽस्त्रियाम्

7-3-120 आङो ना अस्त्रियाम्

Sampurna sutra

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


घेः अङ्गात् आङः ना अस्त्रियाम्

Neelesh Sanskrit Brief

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


पुंलिङ्ग-नपुंसकलिङ्ग-घिसंज्ञकात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य 'ना' आदेशः भवति ।

Neelesh English Brief

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


The आङ्-प्रत्यय that comes after a non-feminine घिसंज्ञक अङ्ग is converted to 'ना'.

Kashika

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


घेः उत्तरस्य आङः न अभावो भवति अस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन। अस्त्रियाम् इति किम्? कृत्या। धेन्वा। इति काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः। । सप्तमाध्यायस्य चतुर्थः पादः।

Siddhanta Kaumudi

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥

Neelesh Sanskrit Detailed

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


यः घिसंज्ञकः शब्दः पुँल्लिङवाची नपुंसकलिङ्गवाची वा अस्ति, तस्मात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य 'ना' इति आदेशः भवति । यथा - साधु + टा → साधुना ।

अत्र 'अस्त्रियाम्' इति किमर्थमुक्तम्? इकारान्त-उकारान्त-स्त्रीलिङ्गशब्दाः अपि नित्यं घिसंज्ञकाः भवन्ति । अतः 'मति + टा' इत्यत्र अनेन सूत्रेण 'ना'-आदेशः मा भूत् इति स्पष्टीकर्तुमत्र 'अस्त्रियाम्' इति उक्तमस्ति । अतः 'मति + टा' इत्यत्र केवलं यणादेशे कृते 'मत्या' इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् 'आङ्' इति 'टा' प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु 'टा' इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।

Balamanorama

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


आङो नाऽस्त्रियाम् - आङो । घेः परस्येति । 'अच्च घेः' इत्यतो घिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशेअट्कुप्वा॑ङिति णत्वम् । नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह — आङितीति । प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः । मत्येति ।स्त्रियां क्ति॑निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि-ए इति स्थिते ।

Padamanjari

Up

index: 7.3.120 sutra: आङो नाऽस्त्रियाम्


ठाङ्ःऽ इति स्थान्यन्तरस्योपादानाद् घेरिति षष्ठी पञ्चम्या विपरिणम्यत इत्याह - घेरुतरस्येति । अथ किमर्थमस्त्रियामित्युच्यते, ठाङे ना पुंसिऽ इत्येवोच्येत, एवं हि मात्रया लाघवं भवति, इष्ट्ंअ च सिध्यति ? एवमुच्यमाने त्रपुणा, जतुनेत्यत्र नपुंसके न प्राप्नोति । मा भून्नाभावः, ठिकोचि विभक्तौ, इति नुमि कृते सिद्धमिष्टम् ? अत आह - पुंसीति नोक्तमित्यादि । अमुना ब्राह्मणकुलेनेति ।'पुंसि' इत्युच्यमाने नाभावो न स्यात् । नुमपीग्लक्षणो नास्ति; मुत्वस्यासिद्धत्वात् । ठस्त्रियाम्ऽ इत्युच्यमाने नपुंसकेऽपि नाभावो भवति । नाभावे कर्तव्ये मुत्वस्यासिद्धत्वं नास्ति ।'न मुने' इति प्रतिषेधादिति'नपुंसके' इत्युच्यमानेऽपि न सिध्यति । तस्मादस्त्रियामित्येव वक्तव्यमिति ॥