क्सस्याचि

7-3-72 क्सस्य अचि लोपः

Kashika

Up

index: 7.3.72 sutra: क्सस्याचि


क्षस्यजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचि इति किम्? अधुक्षत्। अधुक्षताम्। ककारवतः उपादानं किम्? इह मा भूत्, उत्सौ। उत्साः। वत्सौ। वत्साः।

Siddhanta Kaumudi

Up

index: 7.3.72 sutra: क्सस्याचि


अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-<{SK42}> । अघृक्षाताम् । अघृक्षन्त ।{$ {!651 ग्लह!} च$} । ग्लहते ।{$ {!652 घुषि!} कान्तिकरणे $}। घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः ।{$ {!653 घुषिर्!} अविशब्दने$} । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् ।{$ {!654 अक्षू!} व्याप्तौ$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.72 sutra: क्सस्याचि


अजादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि। अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत॥ एवं ॥ {$ {! 22 दिह !} उपचये $} ॥ {$ {! 23 लिह !} आस्वादने $} ॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे। लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे। लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम्। लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत। अलेक्ष्यत्, अलेक्ष्यत॥ {$ {! 24 ब्रूञ् !} व्यक्तायां वाचि $} ॥

Balamanorama

Up

index: 7.3.72 sutra: क्सस्याचि


क्सस्याचि - अघृक्ष — आतामिति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । 'घोर्लोपो लेटि वे' त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये 'तादृक्षा' इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् 'आतो ङितः' इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । 'ऊष्मान्ता' इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः ।

Padamanjari

Up

index: 7.3.72 sutra: क्सस्याचि


अधुक्षातामिति । दुहेः स्वरितेत्वेनात्मनेपदम्, आताम्, अत्रासति लोपे ठातो ङ्तिःऽ इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः । ककारवतः सशब्दस्य ग्रहणादिह न भवति - वत्सौ;'तृणादिभ्यः सः' , तृणसौ, तृणसः ॥