7-2-100 अचि रः ऋतः विभक्तौ
तिसृचतसृ अचि विभक्तौ ऋतः रः
तिसृ-शब्दस्य चतसृ-शब्दस्य ऋकारस्य अजादि-विभक्तौ परे रेफादेशः भवति ।
The ऋकार of the words तिसृ and चतसृ is converted to रेफ when followed by an अजादि-विभक्तिप्रत्यय.
तिसृ चतसृ इत्येतयोर्ऋतः स्थाने रेफादेशो भवत्यजादौ विभक्तौ परतः। तिस्रस्तिष्ठन्ति। तिस्रः पश्य। चतस्रस्तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्र आनय। प्रियचतस्र आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि। प्रियचतस्रि निधेहि। पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचीति किम्? तिसृभिः। चतसृभिः। ऋत इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत॥
तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । आमि नुमचिरेति नुट् ॥
तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिस्रः । तिसृभिः । तिसृभ्यः। तिसृभ्यः। आमि नुट्॥
त्रि-शब्दस्य चतुर्-शब्दस्य स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इत्यनेन तिसृ/चतसृ आदेशौ भवतः । अजादौ विभक्तिप्रत्यये परे एतयोः ऋकारस्य रेफादेशः भवति । यथा - 1) तिसृ + जस् [प्रथमैकवचनस्य प्रत्ययः] इत्यत्र - <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे (= रेफे) प्राप्ते - परत्वात् <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते - <<वार्णादाङ्गं बलीयः>> अनया परिभाषया , अपवादत्वेन च <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशः विधीयते । → तिस्रः [विसर्गनिर्माणम्] तथैव 'चतस्रः' इत्यपि सिद्ध्यति । 2) प्रियतिसृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] इत्यत्र - <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे (= रेफे) प्राप्ते - परत्वात् <<ऋत उत्>> 6.1.102 इत्यनेन पूर्वपरयोः एकत्वेन उत्वे प्राप्ते - <<वार्णादङ्गं बलीयः>> अनया परिभाषया , अपवादत्वेन च <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशः विधीयते । → प्रियतिस्रः [विसर्गनिर्माणम्] तथैव प्रितचतसृ-शब्दस्यापि पञ्चमी-षष्ठ्येकवचनस्य रूपम् 'प्रियचतस्रः' इति जायते । 3) प्रियतिसृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] इत्यत्र - <<इको यणचि>> 6.1.77 इत्यनेन यणादेशे (= रेफे) प्राप्ते - <<वार्णादङ्गं बलीयः>> अनया परिभाषया <<ऋतो ङि सर्वनामस्थानयोः>> 7.3.110 इति अङ्गस्य गुणे प्राप्ते - अपवादत्वेन <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशः विधीयते । → प्रियतिस्रि तथैव प्रियचतसृ-शब्दस्य 'प्रियचतस्रि' इति रूपं सिद्ध्यति । 4) तिसृ + आम् अस्य विषये वर्तमानसूत्रस्य प्रतिषेधं कृत्वा नुडागमः विधीयते । यथा - तिसृ + आम् [षष्ठीबहुवचनस्य प्रत्ययः] → तिसृ + नुट् + आम् [ <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते <! नुम्-अचिर्-तृज्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन !> इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, <<अचि र ऋतः>> 7.2.100 इति रेफादेशः न ।] → तिसृनाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते <<न तिसृचतसृ>> 6.4.4 इति निषेधः] → तिसृणाम् [ अनेन वार्तिकेन णत्वम् भवति ] अनेन प्रकारेण वर्तमानसूत्रम् 'पूर्वसवर्णदीर्घः', 'उत्वम्' तथा 'गुणादेशः' - एतेषामपवादरूपेण आगच्छति, तथा नुडागमः वर्तमानसूत्रस्य प्रतिषेधं कृत्वा प्रवर्तते ।
<<अचि र ऋतः>> - अचि र ऋतः । पूर्वसूत्रात्तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह-तिसृ इत्यादिना । ननुइको यणची॑त्येव सिद्धमित्यत आह-गुणदीर्घोत्त्वानामपवाद इति ।ऋतो ङी॑ति गुणस्य,प्रथमयो॑रिति पूर्वसवर्णदीर्घस्य,ऋत उ॑दित्त्युत्त्वस्य च रत्वमपवाद इत्यर्थः । तिरुआ इति । जश्शसोः रूपम् । तत्र जसिऋतो ङी॑ति गुणस्य रत्वमपवादः । शसि तु 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । आमीति । तिसृ-आम् इति स्थिते नुटं बाधित्वा 'अचि र ऋतः' इति रत्वे तिरुआआमिति प्राप्तेनुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेने॑ति रत्वं बाधित्वा नुडित्यर्थः ।
पूर्वसवर्णोत्वेत्यादि । तिस्नः पश्येत्यत्र प्रथमयोः पूर्वसवर्णः इत्यस्यापवादः । प्रियतिस्नः स्वमित्यत्र ऋत उत् इत्युत्वस्य । प्रियतिस्नि, प्रियतिस्नौ, प्रियतिस्नस्तिष्ठन्तीत्यत्र ऋतो ङिसर्वनामस्थानयोः इति गुणस्य । ननु यत्र विध्यन्तरस्याप्राप्तिः - प्रियतिस्ना, प्रियतिस्ने, प्रियतिस्नोरिति, तत्र इकोयणचि इत्येव सिद्धमिति विध्यन्तरस्य विषये इदमारभ्यते तत्र मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते इति उत्वपूर्वसवर्णौ बाधत इति युक्तम्, गुणविषये तु परत्वात् स एव स्यात् इत्यत आह - परमपि हीति । ऋत इति किमिति । तिसृचतस्नोरनुवृत्तोः अलोऽन्त्यस्य इत्येव सिद्धमिति प्रश्नः । तिसृचतस्नोः प्रतिपत्यर्थमिति । तिसृचतस्नोरादेशयोरजादावपि विभक्तौ प्रतिपतिर्यथा स्यादित्यर्थः । अन्यथा हीति । ऋतः इत्यनुच्यमाने षष्ठीनिर्द्दिष्टत्वात् त्रिचतुरोरेवायमादेशः स्यात्, स च नाप्राप्तयोस्तिसृचतस्नोर्विधीयत इति तयारपवादः स्यादित्यर्थः ॥