7-1-74 तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य इदितः नुम् नपुंसकस्य इकः विभक्तौ
भाषितपुंस्कस्य नपुंसकस्य इकः अङ्गस्य तृतीयादिषु अचि विभक्तौ पुंवद् - गालवस्य
गालवाचार्यस्य मतेन - भाषितपुँस्कः इगन्तः नपुंसकलिङ्गशब्दः तृतीयातः अग्रेषु अजादि-विभक्तिप्रत्ययेषु परेषु पुंलिङ्गशब्दवत् भवति ।
According to गालवाचार्य, for a नपुंसकलिङ्ग word which can be used also as a पुंलिङ्ग word with the same meaning, the तृतीया onwards forms are like that of the पुंलिङ्ग word.
तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद् भवति। यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्रापि न भवत इत्यर्थः। ग्रामणीर्ब्राह्मणः, ग्रामणि ब्राह्मणकुलम्। ग्रामण्या ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन। ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय। ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्। ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य। ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः। ग्रामण्यां ब्राह्मणकुलानाम्,<<नुमचिर०>>(महाभाष्य ७.१.९६ वा०) इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम्। ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले। शुचिर्ब्राह्मणः, शुचि ब्राह्मणकुलम्। शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय। शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात्। शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य। शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले। तृतीयादिष्विति किम्? ग्रामणिनी ब्राह्मणकुले। शुचिनी ब्राह्मणकुले। भाषितपुंस्कमिति किम्? त्रपुणे। जतुने। इह कस्माद् न भवति — पीलुर्वृक्षः, पीलु फलम्, पीलुने फलायेति? समानायामाकृतौ यद् भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः। इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके। तदेतदेवं कथं भवति भाषितपुंस्कमिति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते। तद्योगादभिधेयमपि यद् नपुंसकं तदपि भाषितपुंस्कम्। तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति। इक इत्येव — कीलालपा ब्राह्मणः। कीलालपं ब्राह्मणकुलम्। कीलालपेन ब्राह्मणकुलेन। अचीत्येव — ग्रामणिभ्यां ब्राह्मणकुलाभ्याम्॥
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् ॥ पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥
किम् नाम भाषितपुँस्कः ? ये शब्दाः पुँल्लिगनपुंसकलिङ्गयोः समाने अर्थे प्रयुज्यन्ते, तेषां 'भाषितपुँस्कः' इति संज्ञा अस्ति । यथा - कर्तृ, धातृ आदयः सर्वे तृच्-तृन्-प्रत्ययान्तशब्दाः उभयोः लिङ्गयोः प्रयुज्यन्ते, अतः एते सर्वे शब्दाः भाषितपुंस्काः सन्ति । गालवाचार्यस्य मतेन भाषितपुँस्कानां नपुंसकलिङ्गे अजादौ विभक्तौ परे तृतीयातः सप्तमीयावत् रूपाणि विकल्पेन पुँल्लिगवत् अपि भवन्ति । एतत् चिन्तनम् गालवाचार्यस्य अस्ति, अतः 'विकल्पेन भवति' इति तस्य अर्थः । यथा, 'धातृ' (यः धारयति सः / यत् धारयति तत्) अयं शब्दः पुंलिङ्ग-नपुंसकलिङ्गयोः समानार्थे प्रयुज्यते । अतः अस्य 'भाषितपुँस्कः' इति संज्ञा भवति । अतः अस्य तॄतीयातः अग्रे अजादिप्रत्ययेषु परेेषु रूपाणि पुंलिङ्ग-धातृ-शब्दवत् अपि भवन्ति - तृतीयैकवचनम् - धातृ + टा → धात्रा, धातृणा । चतुर्थ्येकवचनम् - धातृ + ङे → धात्रे, धातृणे । पञ्चम्येकवचनम् / षष्ठ्येकवचनम् - धातृ + ङसिँ/ङस् → धातुः / धातृणः । षष्ठीद्विवचनम् / सप्तमीद्विवचनम् - धातृ + ओस् → धात्रोः / धातृणोः । सप्तम्येकवचनम् - धातृ + ङि → धातरि, धातृणि ।
<<तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य>> - टादिषु अचिविशेषमाह — तृतीयादिषु । भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत्-भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच् । शब्दस्वरूपं विशेष्यम् । पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् ।इकोऽचि विभक्तौ इत्यतइकोऽची॑ति 'नपुंसकस्य झलचः' इत्यतोनपुंसकस्ये॑ति चानुवर्तते । षष्ठी च प्रथमया विपरिणम्यते । तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना । पुंवद्वेति । गालवग्रहणादिति भावः । अचीति । अजादावित्यर्थः । पुंवत्त्वे ह्रस्वनुमोरभावः फलति । घटपटादिशब्दास्तावद्घटत्वपटत्वादिरूपेणैव तत्तद्व्यकिंत प्रत्याययन्ति, ननु द्रव्यत्वपृथिबीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दास्तत्तद्व्यक्तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तच्छब्दस्वरूपं भाषितपुंस्कशब्देन विवक्षितम् । अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्तद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भाषुतपुंस्कता । अतस्तस्य टादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति — अनादये अदादिने इति । पुंवत्त्वे नुमोऽप्रवृत्तेधेर्ङिती॑ति गुणः । पुंवत्त्वाऽभावे तु नुमिति भावः । इत्यादीति । अनादेः-अनादिनः । अनाद्योः-अनादिनोः । आमि तु अनादीनामित्येव । शेषं वारिवदिति । प्रथमाद्वितीययोभ्र्यामादौ हलि च वारिवदित्यर्थः ।प्रवृत्तिनिमित्तैक्य॑ इत्यस्य प्रयोजनं दर्शयितुमाह — पीलुर्वृक्ष इति । यदा वृक्षविशेषः पीलुशब्दवाच्यस्तदा पुंलिङ्गः पीलुशब्दः, यदा पीलुजन्यफलं पीलुशब्दवाच्यं तदा नपुंसकलिङ्गोऽयम् । 'फले लुक्' इत्यणो लुक् । अत्र फले वाच्ये पुंवत्त्वं नेत्यर्थः । कुत इत्यत आह-प्रवृत्तिनिमित्तभेदादिति । वृक्षत्वव्याप्यजातिविशेषात्मकं पीलुत्वं वृक्षविशेषे वाच्ये प्रवृत्तिनिमित्तम् । फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः । तदुक्तम् — ॒पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे । वृक्षे निमित्तं पीलुत्वं, तज्जत्वं तत्फले पुनः ।॑ इति ।
नपुंसकस्य इति यत्षष्ठ।ल्न्तं प्रकृतं तदिह भाषितपुंस्कम् इत्यनेन सम्बन्धात्प्रथमान्तं सम्पद्यते । पुंवदिति । पुंशब्देन तुल्यमित्यर्थः । केन पुनः प्रकारेण पुंशब्देन तुल्यं वर्तते इत्यपेक्षायामाह - यथेति । नुम्ह्रस्वयोरभावः पुंशब्देन दृष्टः, तद्द्वारेण यत्सादृश्यं तदिहातिदिश्यते, अन्यस्य कस्यचितृतीयादिशु पुंशब्देन सादृश्यस्यासम्भावत् । तेनार्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयं सम्पद्यते । नन्वेवमपि प्रकृतत्वान्नुम एवाभावातिदेशो युक्तः , न ह्रस्वस्य, ततश्च ह्रस्वस्यावस्थितत्वातदाश्रयाणां गुणनाभावनुडौत्वात्वनां प्रतिषेधो वक्तव्यः । गुणः - घेर्ङिति, ग्रामण्ये कुलानाम् औत्वम् - औत्, अच्च घेः, ग्रामण्यां ब्राह्मणकुले नैष दोषः, अतिदेशसामर्थ्याद् एह्रस्वाभावोऽप्यतिदिश्यते, अन्यथा प्रतिषेधमेव गालवस्य विदध्यात् । ग्रामणीर्ब्राह्मण इति । भाषितपुंस्कप्रदर्शनमेत् । ग्रामणि ब्राह्मणकुलमिति । नपुंसकह्रस्वत्वं भवति, अतस्तदभावोऽतिदिश्यत इत्यनेन दर्शितम् । परिशिष्टमुदाहरणं शुचि ब्राह्मणकुलमिति प्रक्रमाभेदाय दर्शितम् । प्रत्युदाहरणेषु यथायोगं नित्यमेव मुम्ह्रस्वौ भवतः । पीलु फलमिति । विकारे ओरञः फले लुक् । समानायामाकृताविति । अस्यैव विवरणम् - तुल्ये प्रवृत्तिनिमित इति । यद्योगाद् द्रव्ये शब्दनिवेशः, तत्प्रवृत्तिनिमितं ग्रामनयनादि । अस्त्वेवम्, प्रकृते किमायातम् तत्राह - इह त्विति । पुंसशब्ददस्य या प्रवूतिस्तत्र वृक्षाकृतिः वृक्षावान्तरजातिर्निमितमित्यर्थः । फलाकृतिनैपुंसक इति । प्रवृत्तिनिमितशब्दस्येत्यनुषङ्गः । फलाकृतिः - फलावान्तरजातिः । तत्र यद्यपि पीलोः फलमिति व्युत्पतौ वृक्षावान्तरजातिरप्यङ्गीकृता, तथापि न सा फले प्रवृत्तिनिमितम्, किं तर्हि फलावान्तरजातिरेवेति भिद्यते निमितम् । तदेतदेवमित्यादि स्त्रियाः पुंवत् इत्यत्रैतव्द्याख्यातम्, तत एवावधार्यम् । एकीलालपेनेति । ह्रस्वस्य निवृतौ आतोः धातोः इति लोपः स्यात् ॥