उपसर्गात् खल्घञोः

7-1-67 उपसर्गात्खल्घञोः इदितः नुम् लभेः

Sampurna sutra

Up

उपसर्गात् लभेः खल्-घञोः नुम्

Neelesh Sanskrit Brief

Up

उपसर्गात् परस्य (एव) लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति ।

Neelesh English Brief

Up

The verb root लभ् gets a नुमागम in presence of खल्-प्रत्यय and घञ्-प्रत्यय (only when) it is attached to an उपसर्ग .

Kashika

Up

उपसर्गादुत्तरस्य लभेः खल्घञोः परतो नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि — प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः। उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, नान्यत्र। ईषल्लभः। लाभो वर्तते॥

Siddhanta Kaumudi

Up

उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे अस्य नुमागमः भवति । <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः विधीयते । वस्तुतस्तु, लभ् धातोः <<लभेश्च>> 7.1.64 इत्यनेन अजादि-प्रत्यये परे नुमागमः पूर्वमेव उक्तः अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्-प्रत्यये परे / घञ्-प्रत्यये परे अपि नुमागमः पूर्वमेव सिद्धः, यतः द्वावपि एतौ अजादी प्रत्ययौ । तथापि अत्र अनेन सूत्रेण पुनः नुमागमः उच्यते । पूर्वेणैव सिद्धे अत्र इदं पुनर्विधानम् नियमार्थम् - लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति चेत् उपसर्गस्य उपस्थितौ एव भवति, केवलस्य लभ्-धातोः न । उदाहरणानि एतानि - 1. सोपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः भवति - डुलभष् (प्राप्तौ) → ईषत् + प्र + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> 3.3.126 इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः] → ईषत् + प्र + लभ् + अ [<<लशक्वतद्धिते>> 1.3.7 इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> 1.3.3 इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> 1.3.9 इति लोपः] → ईषत् + प्र + लन् भ् + अ [<<उपसर्गात् खल्घञोः>> 7.1.67 इति खल्-प्रत्यये परे नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः भवति ।] --> ईषद् + प्र + लन् भ् + अ [<<झलां जशोऽन्ते>> 8.2.39 इति तकारस्य जश्त्वे दकारः] --> ईषद् + प्रलंभ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] --> ईषत् + प्रलंभ [<<खरि च>> 8.4.55 इति दकारस्य चर्त्वे तकारः] → ईषत्प्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः] 2. अनुपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः न भवति - डुलभष् (प्राप्तौ) → ईषत् + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> 3.3.126 इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः] → ईषत् + लभ् + अ [<<लशक्वतद्धिते>> 1.3.7 इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> 1.3.3 इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> 1.3.9 इति लोपः] → ईषत् + लभ् + अ [<<लभेश्च>> 7.1.64 इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; <<उपसर्गात् खल्घञोः>> 7.1.67 इति नियमात् खल्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते ।] --> ईषद् + लभ [<<झलां जशोऽन्ते>> 8.2.39 इति तकारस्य जश्त्वे दकारः] --> ईषल्लभ [<<तोर्लि>> 8.4.60 इति लत्वम्] 3. सोपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः भवति - डुलभष् (प्राप्तौ) → प्र + लभ् + घञ् [<<भावे>> 3.3.18 इति घञ्-प्रत्ययः] → प्रल न् भ् [<<उपसर्गात् खल्घञोः>> 7.1.67 इति घञ्-प्रत्यये परे नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः भवति ।] → प्रलंभ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] --> प्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः] 4. अनुपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः न भवति - डुलभष् (प्राप्तौ) → लभ् + घञ् [<<भावे>> 3.3.18 इति घञ्-प्रत्ययः] → लभ् + अ [इत्संज्ञालोपः] → लाभ [ <<लभेश्च>> 7.1.64 इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; <<उपसर्गात् खल्घञोः>> 7.1.67 इति नियमात् घञ्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते । नुमागमस्य अनुपस्थितौ <<अत उपधायाः>> 7.2.116 इति उपधावृद्धिः भवति ] शास्त्रसंवादः छात्रः - उपसर्गपूर्वकात् लभ्-धातोः विषये अजादिप्रत्यये परे <<लभेश्च>> 7.1.64 इत्यनेनैव नुमागमे सिद्धे <<उपसर्गात् खल्घञोः>> 7.1.67 इति सूत्रम् नियमार्थम् किल ? आचार्यः - आम् । सत्यम् । छात्रः - तर्हि अत्र वस्तुतः द्वौ नियमौ सम्भवतः - (1) उपसर्गात् परस्य लभ्-धातोः केवलं खल् / घञ् प्रत्यये परे एव नुमागमः भवति, न अन्यथा - इति प्रथमः नियमः । तथा च, (2) उपसर्गात् परस्य एव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न - इति द्वितीयः नियमः । एताभ्याम् नियमाभ्याम् अत्र सूत्रे केवलं द्वितीयः एव नियमः स्वीकृतः अस्ति । किमर्थम् ? आचार्यः - सत्यम् । अत्र वस्तुतः द्वावपि नियमौ सम्भवतः । परन्तु पाणिनिमहर्षिणा <<गृधिवञ्च्योः प्रलम्भने>> 1.3.69 अस्मिन् सूत्रे 'प्र + लभ् + ल्युट्' इत्यत्रापि नुमागमं कृत्वा 'प्रलम्भ' इति रूपं प्रयुक्तम् अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्/घञ्-प्रत्ययं विना अपि <<लभेश्च>> 7.1.64 इत्यनेन नुमागमः आचार्यैः अवश्यम् इष्यते । अस्यां स्थितौ अत्र निर्दिष्टः प्रथमः नियमः अनुचितः इति स्पष्टी भवति । अतश्च अत्र केवलं द्वितीयः एव नियमः स्वीक्रियते - उपसर्गात् परस्यैव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न, इति ।

Balamanorama

Up

Padamanjari

Up

सिद्धे सतीति । लभेश्च इत्यनेन । उपसर्गादेवेति । विपरीतस्तु वियमो न भवति - उपसर्गात्खल्घञोरेवेति गृधिवञ्च्योः हलम्भने इति निर्द्देशात् ॥