3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्
करणाधिकरणयोरिति निवृत्तम्। ईषत् दुर् सु इत्येतेषूपपदेषु कृच्छ्राकृच्छ्रार्थेषु धातोः खल् प्रत्ययो भवति। कृच्छ्रं दुःखम्। तद् दुरो विशेषणम्। अकृच्छ्रं सुखम्। तदितरयोर्विशेषणम्, संभवात्। ईषत्करो भवता कटः। दुष्करः। सुकरः। ईषद्भोजः। दुर्भोजः। सुभोजः। ईषदादिष्विति किम्? कृच्छ्रेण कार्यः कटः। कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। लकारः स्वरार्थः। खित्करणमुत्तरत्र मुमर्थम्॥
करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-<{SK2833}> इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥<!निमिमीलियां खलचोरात्वं नेति वाच्यम् !> (वार्तिकम्) ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥
तद्दुर इति ।'सुदुरोरधिकरणे' इतिनिर्देशाद् दुः शब्दो रेफान्तोऽप्यस्ति । साम्भवादिति । दुर एव कृच्छ्रे सम्भवः इतरयोरेवाकृच्छ्रे, अतः सामान्येनोक्तावपि विशेषणस्य विषयविभागो लभ्यत इति भावः । ईषत्कार्यमिति । मनागित्यर्थे ईषच्छब्दः ॥ कर्तृकर्मणेश्च भूकृञोः ॥ कर्तरि कर्मणि चोपपदे इति । प्रत्ययार्थत्वं तु कर्तृकर्मणोर्न भवति; चकारस्योपपदसमुच्चयार्थत्वात् । किं च, यदि तयोः प्रत्ययार्थत्वं स्याद् ईषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, तश्च खित्करणमनर्थंकंस्याद्; अनव्ययस्य हि नुम् विधीयते । तस्मात्सुष्ठूअक्तम् - कर्तरि कर्मणि चोपपदे इति । अत्र चकारः सन्नियोगार्थः क्रियते, यदा कर्तृकर्मणेरीषदादीनां च युगपदुपपदत्वं तदा प्रत्ययो भवति, समासस्तु युगपत्पर्यायेण वा भवति । किं पुनरत्र परमुपपदम् ? कर्तृकर्मणी । कुत एतत् ? खलः खित्करणात् । तद्धिमुमर्थम्, मुमागमश्चानव्ययस्य । तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकंस्यात् । ननु मा भूदीषदो धातोश्चानन्तर्यम्, यत्रैतन्नास्ति - ते प्राग्धातोरिति, यत्र त्वस्ति सुदुरोः, तत्र तयोरेव प्राक् प्रयोगो युक्तः, खित्करणं त्वीषदाढ।ल्म्भवन्तीम् इत्यादौ मुमर्थं स्यात्, सुदुरोरपि'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति तत्रापि मुमर्थं स्यात्, यथा ठुदिकूले रुजिवहोःऽ कूलमुद्रुज इति ? वक्तव्योऽत्र परिहारः - कृत्यल्युटो बहुलमिति । बहुलग्रहणं वाऽत्राश्रयणीयम् । ईषदाढ।ल्म्भवमिति । अनअढ।लेन भवता सुखेनाढ।लेन भूयत इत्यर्थः । ईवदाढ।ल्ङ्कर इति । अनाठ।ले देवदतः सुखेनाढयः क्रियत इत्यर्थः । स्वाढ।लेन भूयत इति । प्रमाद पाठोऽयम् । अत्र हि खलभावात्सुशब्दस्य धातोः प्राक् प्रयोगेण भाव्यम्, तस्मादाढ।लेन सुभूयते इति पाठः ॥