गृधिवञ्च्योः प्रलम्भने

1-3-69 गृधिवञ्च्योः प्रलम्भने धातवः आत्मनेपदम् कर्तरि णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। <<गृधु अभिकाङ्क्षायाम्>>, <<वञ्चु गतौ>> इत्येतयोर्ण्यन्तयोः प्रलम्भने वर्तमानयोरात्मनेपदं भवति। प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम्। माणवकं गर्धयते। माणवकं वञ्चयते। प्रलम्भन इति किम्? श्वानं गर्धयति। गर्धनमस्योत्पादयतीत्यर्थः। अहिं वञ्चयति। परिहरतीत्यर्थः॥

Siddhanta Kaumudi

Up

प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च <{SK2592}> व्याख्यातम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गृधिवञ्च्योः प्रलम्भने>> - गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति । प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः ।

Padamanjari

Up

परिहरतीत्यर्थ इति। वर्जयतीति यावत्॥