8-4-60 तोः लि पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः
तोः लि परसवर्णः संहितायाम्
तवर्गीयवर्णस्य लकारे परे संहितायाम् परसवर्णः भवति ।
A letter of तवर्ग is converted to a परसवर्ण when followed by a लकार.
तवर्गस्य लकारे परतः परसवर्णादिशो भवति। अग्निचिल्लुनाति। सोमसुल्लुनाति। भवाँल्लुनाति। महाँल्लुनाति॥
तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँल्लिखति । नकारस्याऽनुनासिको लकारः ॥
तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वाँल्लिखति। नस्यानुनासिको लः॥
तवर्गीयवर्णात् अनन्तरम् संहितायाम् लकारः विद्यते चेत् तवर्गीयवर्णस्य यथोचितम् परसवर्णः (लकारस्य सवर्णः) विधीयते । लकारस्य द्वौ सवर्णौ स्तः — अननुनासिकः लकारः तथा च अनुनासिकः लँकारः । अतः प्रकृतसूत्रेण तकार-थकार-दकार-धकाराणाम् लकारादेशः, नकारस्य च लँकारादेशः भवति । वस्तुतस्तु अस्य सूत्रस्य प्रयोगः केवलं पदान्ते एव भवति, यतः अपदान्त-तवर्गीयवर्णात् अनन्तरम् अव्यवहितरूपेण लकारः नैव सम्भवति । पदान्ते विद्यमानानाम् तकार-थकार-धकाराणाम् तु <<झलां जशोऽन्ते>> 8.2.39 इत्यनेन आदौ जश्त्वे दकारः क्रियते, तदनन्तरम् एव प्रकृतसूत्रेण लकारादेशः सम्भवति । अतः अस्य सूत्रस्य प्रयोगः केवलम् पदान्त-दकारस्य, नकारस्य च विषये दृश्यते । क्रमेण उदाहरणे एते —
<<तोर्लि>> - तोर्लि ।अनुस्वारस्य ययी॑त्यतः 'परसवर्णः' इत्यनुवर्तते । तदाह — तवर्गस्येत्यादिना । तल्लय इति । तस्य-लय इति विग्रहः । तदा-लय इति स्थिते दस्य परसवर्णः=परनिमित्तभूतलकारसवर्णो भवति, स च लकार एव, अन्यस्य तत्सावण्र्याऽभावात् । अत्र नकारस्येति । विद्वान्-लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन्नान्तर्यादनुनासिक एव लकारो भवतीत्यर्थः ।
अत्र तकारस्य शुद्धो लकारः, नकारस्यानुनासिकः ॥