न सुदुर्भ्यां केवलाभ्याम्

7-1-68 न सुदुर्भ्यां केवलाभ्याम् इदितः नुम् लभेः उपसर्गात्खल्घञोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यत्र लभ्-धातुः 'सु' अथवा 'दुर्' इत्येतेन उपसर्गेण सह, अन्यम् (सु-दुर्-भिन्नम्) उपसर्गं विना यत्र प्रयुज्यते, तत्र खल्-प्रत्यये परे घञ्-प्रत्यये च परे तस्य नुमागमः न भवति ।

Neelesh English Brief

Up

The verb root लभ् , when attached to only the 'सु' or 'दुर्' उपसर्ग (and no other उपसर्ग) does not get a नुमागम in presence of खल्-प्रत्यय and घञ्-प्रत्यय.

Kashika

Up

सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतो नुमागमो भवति। सुलभम्। दुर्लभम्। घञि — सुलाभः। दुर्लाभः। केवलाभ्यामिति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भ्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः। अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादतेः केवल एव सुशब्द उपसर्ग इति भवति प्रतिषेधः। यदा त्वतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवत्येव — अतिसुलम्भ इति। पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम्॥

Siddhanta Kaumudi

Up

उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे <<उपसर्गात् खल्घञोः>> 7.1.67 इत्यनेन तस्य नुमागमः प्राप्नोति । परन्तु अयम् उपसर्गः 'सु' तथा 'दुर्' इति अस्ति चेत्, अन्यम् उपसर्गं विना एतादृशः नुमागमः वर्तमानसूत्रेण निषिध्यते । उदाहरणानि एतानि - 1. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः निषिध्यते - डुलभष् (प्राप्तौ) → सु + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> 3.3.126 इत्यनेन सु-उपपदे परे लभ्-धातोः खल्-प्रत्ययः] → सु + लभ् + अ [<<लशक्वतद्धिते>> 1.3.7 इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> 1.3.3 इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> 1.3.9 इति लोपः] → सु + लभ् + अ [<<उपसर्गात् खल्घञोः>> 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, <<न सुदुर्भ्यां केवलाभ्याम्>> 7.1.68 इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति ।] → सुलभ एवमेव 'दुर्लभ' इत्यपि शब्दः सिद्ध्यति । 2. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् खल्-प्रत्यये परे नुमागमः अवश्यं भवति - डुलभष् (प्राप्तौ) → सु + प्र + लभ् + खल् [<<ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्>> 3.3.126 इत्यनेन सु-उपपदे परे प्र-उपसर्गपूर्वकात् लभ्-धातोः खल्-प्रत्ययः] → सु + प्र + लभ् + अ [<<लशक्वतद्धिते>> 1.3.7 इति खकारस्य इत्संज्ञा, <<हलन्त्यम्>> 1.3.3 इति लकारस्य इत्संज्ञा । तयोः <<तस्य लोपः>> 1.3.9 इति लोपः] → सु + प्र + लन् भ् + अ [<<उपसर्गात् खल्घञोः>> 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र <<न सुदुर्भ्यां केवलाभ्याम्>> 7.1.68 इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् <<अत उपधायाः>> 7.2.116 इति उपधावृद्धिम् अपि बाधते ।] → सुप्रलंभ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → सुप्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः] एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति - दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया] --> दुः + प्रलम्भ [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] --> दुष्प्रलम्भ [<<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इति षत्वम्] 3. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः निषिध्यते - डुलभष् (प्राप्तौ) → सु + लभ् + घञ् [<<भावे>> 3.3.18 इति घञ्-प्रत्ययः] → सु + लभ् + अ [इत्संज्ञालोपः] → सु + लाभ [<<उपसर्गात् खल्घञोः>> 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, <<न सुदुर्भ्यां केवलाभ्याम्>> 7.1.68 इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति । नुमागमस्य अनुपस्थितौ <<अत उपधायाः>> 7.2.116 इति उपधावृद्धिः भवति ] --> सुलाभ एवमेव 'दुर्लाभ' इत्यपि शब्दः सिद्ध्यति । 4. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् घञ्-प्रत्यये परे नुमागमः अवश्यं भवति - डुलभष् (प्राप्तौ) → सु + प्र + लभ् + घञ् [<<भावे>> 3.3.18 इति घञ्-प्रत्ययः] → सु + प्रल न् भ् [<<उपसर्गात् खल्घञोः>> 7.1.67 इति घञ्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र <<न सुदुर्भ्यां केवलाभ्याम्>> 7.1.68 इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् <<अत उपधायाः>> 7.2.116 इति उपधावृद्धिम् अपि बाधते ।] → सुप्रलंभ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] --> सुप्रलम्भ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः] एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति - दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया] --> दुः + प्रलम्भ [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] --> दुष्प्रलम्भ [<<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इति षत्वम्] अस्य सूत्रस्य प्रसक्तिः 'खल्' तथा 'घञ्' प्रत्ययस्य विषये एव अस्ति । अन्येषु प्रत्ययेषु परेषु <<लभेश्च>> 7.1.64 इत्यनेन नित्यमेव नुमागमः भवति । यथा, 'सु + लभ् + ल्युट् --> सुलम्भन' अत्र नुमागमे कृते एव रूपं सिद्ध्यति । सूत्ररचना कैश्चन वैयाकरणैः अत्र 'सुर्दुर्भ्याम्' इति तृतीयाद्विवचनं स्वीक्रियते । एवं क्रियते चेत् अत्र 'सु-दुर्-उपसर्गयोः योगे' इति अर्थः सिद्ध्यति । अस्यां स्थितौ सु/दुर्-उपसर्गौ लभ्-धातोः अव्यवहितपूर्वौ न भवतः चेदपि न कश्चन दोषः उत्पद्यते । वस्तुतः पञ्चमीपक्षे अपि 'केवल'ग्रहणेन अयमेव अर्थः स्पष्टी भवति, अतः तृतीयाग्रहणमेव करणीयम् इति नावश्यकम् । शास्त्रसंवादः छात्रः - सु-उपसर्गः अन्येन उपसर्गेण सह आगच्छति तर्हि घञ्-प्रत्यये परे लभ्-धातोः नुमागमः अवश्यं भवेत्, किल ? आचार्यः - आम् । सत्यम् । छात्रः - तर्हि 'अतिसुलभः', 'अतिदुर्लभः' एतौ शब्दौ अशुद्धौ एव भवेताम् । आचार्यः - 'अतिसुलभ' इत्यत्र वस्तुतः शब्दद्वयम् ज्ञेयम् - 'अति सुलभ' इति । अत्र आदौ 'सुलभ' इति शब्दः सिद्ध्यति, तत्र च <<न सुदुर्भ्यां केवलाभ्याम्>> 7.1.68 इति नुमागमः अवश्यमेव निषिध्यते । ततः <<अतिरतिक्रमणे च>> 1.4.95 इत्यनेन अतिक्रमणार्थे 'अति' इति कर्मप्रवचनीयसंज्ञकः शब्दः प्रयुज्यते । 'सुलभात् अधिकम् तत् अति सुलभम्' अनेन प्रकारेण अत्र अस्य सिद्धिः दीयते । एवमेव 'अति दुर्लभ' इत्यस्य विषये अपि अवधेयम् । छात्रः - परन्तु यदि केनचित् 'अति' इति उपसर्गेण सह 'सु' इति उपसर्गं प्रयुज्य रूपम् इष्यते चेत्? आचार्यः - तस्यां स्थितौ तु द्वयोः उपसर्गयोः उपस्थितौ <<उपसर्गात् खल्घञोः>> 7.1.67 इति नुमागमः अवश्यमेव स्यात्, येन 'अतिसुलम्भ', 'अतिदुर्लम्भ' एतौ शब्दौ सिद्ध्येताम् ।

Balamanorama

Up

Padamanjari

Up

केवलशब्दः शब्दोपातादन्यस्य सजातीयस्याभावमाचष्टे । यथा हि - केवलाभ्यामिहैताभ्यां प्रवेष्टव्यमितीरिते । अन्यस्य पुरुषस्यैव प्रवेशः प्रतिषिध्यते ॥ न शुकादेः, तथेहापि परस्परयुताधिमौ । एकाकिनौ विजातीयसहितौ चापि केवलौ ॥ सुदुर्लभम्, सुलभम्, दुर्लभम्, अतिसुलभमित्युदाहरणानि । सुलाभः, दुर्लाभ इति । भावे घञ् । कर्मणि एतु खल् भवति । यद्वा - सुः क्षेपे, यथा - सुषिक्तं नामेति । दिर्निन्दायाम्, यथा - दुर्ब्राह्मण इति । तेन कृच्छ्राकृच्छ्रार्थत्वाभावात्खलभावः । तृतीयां मत्वेति । तृतीयापक्षे त्विदं प्रत्युदाहरणमित्यर्थः । अथ पञ्चमीपक्षे कस्मान्न प्रत्युदाहरणम् कैत्याह - पञ्चम्यां हीति । न च तदापि प्रसुल्म्भमिति प्रत्युदाहरणमुक्तं हि भाष्ये - नैषोऽस्ति प्रयोगः इति । अतिसुलभमित्यत्रेति । उपसर्गात् इत्यनुवृतेरुपसर्गयोः सुदुरोरिह ग्रहणमिति भावः । अतिरतिक्रमणे च इत्यतेः कर्णप्रवचनीयसंज्ञा, तया चोपसर्गसंज्ञा बाध्यते, एकसंज्ञाधिकारात् । पञ्चमीनिर्देशपक्षेऽपीति । एवं च सर्वथा केवलग्रहणस्य कर्तव्यत्वात्क्रमव्यतिक्रमे कार्णाभावात्पूर्वतृतीयाश्रयणेन प्रत्युदाहरणं दर्शितम् ॥