7-1-55 षट्चतुर्भ्यः च आमि नुट्
षट्-चतुर्भ्यः आमि नुट् च
षट्-संज्ञकात् परस्य चतुर्-शब्दात् परस्य च आम्-प्रत्ययस्य नुट्-आगमः भवति ।
The आम्-प्रत्यय present after a षट्-संज्ञक word or after the word चतुर् gets a नुट्-आगम.
षट्संज्ञकेभ्यश्चतुः शब्दाच्चोत्तरस्यामो नुडागमो भवति। षण्णाम्। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। चतुर्णाम्। रेफान्तायाः संख्यायाः षट्संज्ञा न विहिता, <<षड्भ्यो लुक्>> ७.१.२२ इति लुग् मा भूत्। बहुवचननिर्देशादत्र संख्याप्रधानस्य ग्रहणं भवति। परमषण्णाम्। परमपञ्चानाम्। परमसप्तानाम्। परमचतुर्णाम्। उपसर्जनीभूतायास्तु संख्याया न भवति। प्रियषषाम्। प्रियपञ्च्ञाम्। प्रियचतुरामिति॥
षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्ण्णाम ॥
एभ्य आमो नुडागमः॥
किम् नाम षट्-संज्ञकः ? अष्टाध्याय्यां षट्-संज्ञा द्वयोः सूत्रयोः दीयते - <<ष्णान्ताः षट्>> 1.1.24 - षकारान्ताः नकारान्ताश्च सङ्ख्यावाचिनः शब्दाः षट्-संज्ञकाः सन्ति । यथा - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन् आदयः । <<डति च>> 1.1.25 - डति-प्रत्ययान्तशब्दाः अपि षट्-संज्ञकाः भवन्ति । यथा - कति । एतेभ्यः परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य नुट्-आगमः भवति । यथा - 1. पञ्चन् + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → पञ्चन् + नुट् आम् [<<षट्चतुर्भ्यश्च>> 7.1.55 इत्यनेन षट्-संज्ञकस्य पञ्चन्-शब्दस्य नुट्-आगमः] → पञ्चन् + न् आम् [इत्संज्ञालोपः] → पञ्चान् + नाम् [<<नोपधायाः>> 6.4.7 इत्यनेन नाम्-प्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः] → पञ्चानाम् [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन पदान्तनकारस्य लोपः] 2. षष् + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → षष् + नुट् आम् [<<षट्चतुर्भ्यश्च>> 7.1.55 इत्यनेन षट्-संज्ञकस्य षष्-शब्दस्य नुट्-आगमः] → षष् + न् आम् [इत्संज्ञालोपः] → षड् + नाम् [नाम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति पदसंज्ञा । पदसंज्ञायाम् सत्याम् <<झलां जशोऽन्ते>> 8.2.39 इति पदान्तषकारस्य डकारः] → षड् + णाम् [<<ष्टुना ष्टुः>> 8.4.41 इत्यनेन ष्टुत्वे णकारः] → षण्णाम् [<<यरोऽनुनासिकोऽनुनासिके वा>> 8.4.45 इत्यनेन षकारस्य णकारः । <! प्रत्यये भाषायां नित्यम् !> अनेन वार्त्तिकेन णत्वम् नित्यम् भवति, विकल्पेन न । 3. कति + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → कति + नुट् आम् [<<षट्चतुर्भ्यश्च>> 7.1.55 इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः] → कति + न् आम् [इत्संज्ञालोपः] → कती + नाम् [<<नामि>> 6.4.3 इति अङ्गस्य दीर्घः] → कतीनाम् 4. चतुर् + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → चतुर्नुट् आम् [<<षट्चतुर्भ्यश्च>> 7.1.55 इत्यनेन षट्-संज्ञकस्य कति-शब्दस्य नुट्-आगमः] → चतुर्न् आम् [इत्संज्ञालोपः] → चतुर् णाम् [<<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वम्] → चतुर्णाम् , चतुर्ण्णाम् , चतुर्णाम्म् , चतुर्ण्णाम्म् [<<अचो रहाभ्यां द्वे>> 8.4.46 इति णकारस्य वैकल्पिकम् द्वित्वम् । <<अनचि च>> 8.4.47 इति मकारस्यापि वैकल्पिकं द्वित्वम् । णकारस्य द्वित्वपक्षे <<हलो यमां यमि लोपः>> 8.4.64 इत्यनेन एक-णकारस्य वैकल्पिकः लोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <<उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्>> अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । 2. अस्मिन् सूत्रे निर्दिष्टः 'आम्' शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति । 3. चतुर्-शब्दः समस्तपदे प्रधानत्वेन अस्ति चेदेव अयम् नुडागमः भवति । यथा - प्रियाश्च ते चत्वारश्च = प्रियचत्वारः । इत्यत्र 'प्रितचतुर्' अस्मिन् समस्तपदे चतुर्-शब्दः प्राधान्यत्वेन अस्ति, अतः अस्य नुडागमं कृत्वा 'प्रियचतुर्णाम्' इति रूपं जायते । परन्तु यदि चतुर्-शब्दः गौणत्वेन आगच्छति - यथा - 'प्रियाः चत्वारः यस्य सः = प्रियचतुर्' - तर्हि अनेन सूत्रेण निर्दिष्टः नुडागमः न भवति । यथा - प्रियचतुर् + आम् → प्रियचतुराम् ।
<<षट्चतुर्भ्यश्च>> - षट्चतुभ्र्यश्च । षट्चतुभ्र्य इति पञ्चमी । 'आमि सर्वनाम्नः' इत्यत आमीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । षडिति षट्संज्ञकं गृह्रते । नतु षट्शब्दः,कृत्रिमाकृत्रिमयो॑रिति न्यायात् । तदाह षट्संज्ञकेभ्य इत्यादिना । नुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । णत्वमिति ।रषाभ्या॑मित्यनेने॑ति शेषः । द्वित्वमिति ।अचो रहाभ्या॑मिति णकारस्ये॑ति शेषः । द्वित्वस्याऽसिद्धत्वात्पूर्वं णत्वे कृते ततो णस्य द्वित्वम् । नचपूर्वत्रासिद्धमद्विर्वचने॑ इनि निषेधः शङ्क्यः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः । न तु द्वित्वस्याऽप्यसिद्धत्वं नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः । चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते- ।
नुटि कृते नोपधायाः इति दीर्घः । नलोपः प्रातिपदिकान्तस्य । षण्णमिति । झलां जशोऽन्ते - इति षकारस्य डकारः, यरोऽनुनासिके इति डकारस्य णकारः, ष्टुअत्वम् । अथ ष्णान्ताः षट् इति रेफस्च प्रक्षेपणेन रेफान्ताया कापि संक्याया षटसंज्ञा कस्मान्न विहिता, एवं ह्यत्र चतुर्ग्रहथणं न कर्तव्यं भवति, तथा षट्त्रिचर्भ्यो हलादिः त्यित्रापि इत्यत आह - रेफान्ताया इति । बहुवचननिर्देशादिति । शब्दप्राधान्ये हीतरेतरयोगे द्विवचनेन भाव्यम्, समाहारद्वन्द्वे त्वेकवचनेन भाव्यम्, अर्थप्राधान्ये तु षट्संज्ञका एव प्रत्येकं बह्वर्थाश्चतुःशब्दश्चेत्युपपद्यते बहुवचनम् । अत्रामः परत्वं शब्दद्वारकम् । परमषण्णामिति । अत्रापि बडर्थप्राधान्यातत एव पर आम् भवति । बहुव्रीहौ त्वन्यपदार्थस्य प्राधन्यान्न षडर्थापेक्षं परत्वमिति न भवति । प्रियपञ्च्जामिति । अल्लोपे कृते चुत्वम् - ञकारः ॥