7-1-56 श्रीग्रामण्योः छन्दसि आमि नुट्
श्री ग्रामणी इत्येतयोश्छन्दसि विषय आमो नुडागमो भवति। श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम् (ऋ० १०.४५.५)। अपि तत्र सूतग्रामणीनाम् (काठ०सं० २८.३)। श्रीशब्दस्य <<वामि>> १.४.५ इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि चेति सूतग्रामणीनामिति, तदा ह्रस्वादित्येव सिद्धम्॥
आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ॥
नित्यार्थ वचनमिति । अन्यथा भाषायामिव विकल्पः स्यात्, च्छन्दसि नुडेव चेद् दृश्यते, तस्य च लक्षणमस्ति, कोऽयं विकल्पप्रसङ्ग इति चिन्त्यमेतत् । सूताश्च ते ग्रामण्यश्चेति । नेदं कर्मधारयस्य वाक्यम्, किं तर्हि बहुवचनान्तयोर्यदेतरेतरयोगे द्वन्द्वस्तदा नुड्विधेः प्रयोजनम् । यदैकवचनान्तयोः समाहारद्वन्द्वं कृत्वा एकशेषः क्रियते तदा ह्रस्वान्तत्वादेव नुट् सिद्ध इति न प्रयोजनमिति दर्शयति । एवं च तेशब्दो न पठितव्यः । अत्रापि नुडेव चेद् दृश्यते तस्य च निर्वाहोऽस्ति, इतरेतरेतरयोगद्वन्द्वो न करिष्यते, तदेवमिदं सूत्रं भाष्ये प्रत्याख्यातम् ॥