नोपधायाः

6-4-7 न उपधायाः नामि

Sampurna sutra

Up

index: 6.4.7 sutra: नोपधायाः


नः अङ्गस्य उपधायाः नामि दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.4.7 sutra: नोपधायाः


षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नकारान्तशब्दस्य उपधायाः दीर्घः भवति ।

Neelesh English Brief

Up

index: 6.4.7 sutra: नोपधायाः


The उपधा of the नकारान्त words becomes दीर्घ when the नकारान्त word is followed by the नाम्-प्रत्यय.

Kashika

Up

index: 6.4.7 sutra: नोपधायाः


नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। नः इति किम्? चतुर्णाम्। नामि इत्येव, चर्माणाम्।

Siddhanta Kaumudi

Up

index: 6.4.7 sutra: नोपधायाः


नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.7 sutra: नोपधायाः


नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥

Neelesh Sanskrit Detailed

Up

index: 6.4.7 sutra: नोपधायाः


नकारान्तशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सामान्यरूपेण नुडागमः न भवति । परन्तु ये नकारान्तशब्दाः 'षट्-संज्ञकाः' सन्ति, तेषां विषये षट्चतुर्भ्यश्च 7.1.55 इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । अस्यामवस्थायाम् तस्य नकारान्त-अङ्गस्य उपधावर्णस्य दीर्घादेशः भवति ।

यथा - पञ्चन् शब्दस्य ष्णान्ता षट् 1.1.24 इत्यनेन षट्-संज्ञा भवति । अतः 'पञ्चन् + आम्' इत्यत्र षट्चतुर्भ्यश्च 7.1.55 इत्यनेन आम्-प्रत्ययस्य नुडागमः विधीयते । ततः 'पञ्चन् + नाम्' इति स्थिते वर्तमानसूत्रेण पञ्चन्-शब्दस्य यः उपधावर्णः अकारः तस्य दीर्घादेशः भवति । अग्रे नकारस्य नलोपः प्रातिपदिकान्तस्य 8.4.7 इत्यनेन लोपे कृते 'पञ्चानाम्' इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - यत्र नकारान्तशब्दस्य षट्-संज्ञा न भवति तत्र नकारान्तशब्दात् परस्य आम्-प्रत्ययस्य नुडागमः अपि न भवति, अतः तत्र अयं दीर्घादेशः अपि न दृश्यते । यथा - शशिन् + आम् → शशिनाम् ।

Balamanorama

Up

index: 6.4.7 sutra: नोपधायाः


नोपधायाः - पञ्चन् आम् इति स्थितेषट्चतुभ्र्यश्चे॑ति नुटि नलोपे तस्याऽसिद्धत्वात् 'नामि' इति दीर्घेऽप्राप्ते आह — नोपधायाः ।ने॑ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते, 'नामि' इति सूत्रं च । तदाह — नान्तस्येत्यादिना । नलोप इति । नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः । परमेति । परमाश्च ते पञ्च चेति विग्रहः । 'षड्भ्यो लुक्' इत्यस्यषट्चतुभ्र्यश्चे॑त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । प्रियाः पञ्च यस्येति बहुव्रीहिः । प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः । तस्य पुंस्त्वे विशेषमाह — गौणत्वे त्विति ।षड्भ्यो लु॑गितिषट्चतुभ्र्यश्चे॑ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः । प्रयिपञ्चेति । सुटि हलादौ च राजवत् । शसादावचि तु 'अल्लोपोऽनः' इत्यकारलोप नस्य श्चुत्वेन ञकारः । चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव । तथाच ञकारद्वयमध्ये चकारः । अष्टन्शब्दो नित्यं बहुवचनान्तः ।

Padamanjari

Up

index: 6.4.7 sutra: नोपधायाः


अनजन्तार्थ आरम्भः, न इति षष्ठ।लेकवचनान्तम् । सौत्रत्वान्निर्द्देशः, अकारश्चोच्चारणार्थ इति । पञ्चानामित्यादौ सुब्विधौ नलोपस्यासिद्धत्वान्नान्तत्वम् । उपधाग्रहणमाद्यचो मा भूत् । नैतदस्ति प्रयोजनम् - दीर्घश्रुत्योपस्थापितमचं नाम्परतया विशेषयिष्यामः , उतरत्र च सर्वनामस्थानपरतया, तत्र येन नाव्यवधानमित्येकेन वर्णेन व्यवधाने भविष्यति उतरार्थ तु इन्हन्पूर्षार्यम्णां शौ इत्यत्र दीर्घविधेरुपधानियमात् इति वक्ष्यति, तदार्थमुपधाग्रहणम् ॥