6-4-73 छन्दसि अपि दृश्यते असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् आट्
छन्दसि लुङ्लङ्लृङ्क्षु अङ्गस्य उदात्तः आडागमः अपि
वेदेषु - लुङ्लकारे, लङ्लकारे, लृङ्लकारे अनजादीनामपि आडागमः दृश्यते ।
In वेदाः , even the verbs that are not अजादि can be seen to get आट्-आगम for लुङ्लकार, लङ्लकार, and लृङ्लकार.
छन्दसि विषय आडागमो दृश्यते। यत्र हि विहितस्ततोऽन्यत्रापि दृश्यते। <<आडजादीनाम्>> ६.४.७२ इत्युक्त मनजादीनामपि दृश्यते। सु॒रुचो॑ वे॒न आ॑वः (मा०सं० १३.३)। आनक्। आयुनक्। आव इति वृञो लुङि <<मन्त्रे घसह्वर०>> २.४.८० इति लेर्लुकि कृते च भवति। तथा आनगिति नशेः। आयुनगिति युजेर्लङि॥
अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे <{SK2228}> ॥
<<आडजादीनाम्>> 6.4.72 इत्यनेन केवलं अजादि-धातूनाम् विषये प्रोक्तः आट्-आगमः वेदेषु हलादि-धातूनाम् विषये अपि (बहुलम्) दृश्यते । यथा - 'सुरुचो वेन आवः' (अथर्ववेदः, 4.1.1) - इत्यत्र 'आवः' इति रूपम् वृञ्-धातोः लृङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । अत्र अडागमस्य स्थाने आडागमः कृतः दृश्यते । प्रक्रिया इयम् - वृञ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → वृ + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → वृ + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।] → आट् वृ + स् + ल् [<<छन्दस्यपि दृश्यते>> 6.4.72 इति हलादि-धातोः अपि आट्-आगमः] → आ + वर् + स् + ल् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः, <<उरण् रपरः>> 1.1.51 इति सः रपरः] → आ वर् + स् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → आ वर् + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → आ वर् + त् [<<अस्तिसिचोऽपृक्ते>> → आ वर् + स् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.168 इति अपृक्त-तकार-लोपः] → आ वर् स् [<<रात्सस्य>> 8.3.24 इति रेफात् परस्य सकारस्य लोपः] → आवः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य विसर्गः]