6-1-98 अव्यक्तानुकरणस्य अतः इतौ संहितायाम् अचि एकः पूर्वपरयोः पररूपम्
अव्यक्तानुकरणस्य अतः इतौ पूर्वपरयोः एकः पररूपम्
अव्यक्तानुकरणवाचिपदस्य अन्ते विद्यमानः यः 'अत्' इति अंश, तस्मात् इति-शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
In the context of संहिता, When a word which is used to imitate some abstract sound and which ends is the phrase 'अत्' is followed by the word 'इति', then the 'अत्' of the previous word and the इ of इति are combined to form a पररूप-एकादेश.
अव्यक्तमपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णमेव। केनचित् सादृश्येन तदव्यक्तमनुकरोति,तस्य योऽच्छब्दस्तस्मादितौ पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पटत् इति पटिति। घटत् इति घटिति। झटत् इति झटिति। छमत् इति छमिति। अव्यक्तानुकरणस्येति किम्? जगत् इति जगदिति। अत इति किम्? मरट् इति मरडिति। इताविति किम् ? पटत् अत्र पटदत्र॥ अनेकाच इति वक्तव्यम्॥ इह मा भूत् — श्रत् इति श्रदिति। कथं घटदिति गम्भीरमम्बुदैर्नदितमिति ? दकारान्तमेतदनुकरणं द्रष्टव्यम्॥
ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति ।<!एकाचो न !> (वार्तिकम्) ॥ श्रदिति ॥
अव्यक्तानुकरणम् इत्युक्ते कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् (Trying to imitate a sound by using syllables). लोके विद्यमानाः अनेके ध्वनयः वर्णैः स्पष्टरूपेण व्यक्ताः न भवन्ति । Many sounds that occur around us cannot be precisely expressed using the letters in the language. यथा - द्वारताडनस्य ध्वनिः (The sound of a knocking a door), घण्टायाः ध्वनिः (The sound of a bell), फलस्य पतनस्य ध्वनिः (The sound of a fruit falling on ground), जलप्रपातस्य ध्वनिः (The sound of a waterfall), सर्पस्य गमनस्य ध्वनिः ( The sound of crawling of snake) आदयः । एतेषाम् निर्देशार्थम् यद्यपि विशिष्टाः वर्णाः न विद्यन्ते, तथापि जनैः भिन्नासु भाषासु एते ध्वनयः भिन्नानाम् शब्दानाम् प्रयोगेण अवश्यम् निर्दिश्यन्ते । यथा - द्वारस्य ध्वनिः 'खट्-खट्' इत्यनेन, घटिकायाः ध्वनिः 'टिक्-टिक्' इत्यनेन, सर्पस्य ध्वनिः 'सर्-सर्' इत्यनेन, फलस्य पतनस्य ध्वनिः 'धम्' इत्यनेन - आदयः । संस्कृतभाषायाम् अपि एतादृशाः शब्दाः प्रयुक्ताः दृश्यन्ते । यथा - पटत् इति जलबिन्दूनाम् पतनस्य ध्वनिः (The sound of water droplets), धमत् इति बकुरवादनस्य ध्वनिः (The sound of blowing a trumpet), छमत् इति अग्निदहनस्य ध्वनिः (crackling noise appearing in fire) - आदयः । एतादृशाः शब्दाः अव्यक्तध्वनेः अनुकरणम् कुर्वन्ति (These words try to mimic an otherwise-non-reproducible sound), अतः एते सर्वे शब्दाः अव्यक्त-अनुकरण-वाचिनः सन्ति इति उच्यते । एतादृशेभ्यः अव्यक्तानुकरणवाचिभ्यः शब्देभ्यः अनन्तरम् यदि 'इति' अयम् शब्दः आगच्छति तर्हि पूर्वशब्दस्य 'अत्' तथा परशब्दस्य 'इ' एतयोः एकः पररूप-एकादेशः इकारः भवति — इति प्रकृतसूत्रस्य आशयः । यथा —
<<अव्यक्तानुकरणस्यात इतौ>> - अव्यक्तानुकरणस्य । पररूपमिति वर्तते । अव्यक्तः=अस्फुटवर्णविभागो वृक्षपतनादिजनितध्वनिः । तस्यानुकरणं=तत्प्रतिपादकस्तत्सदृशोऽपरिस्फुटवर्णविभागः शब्दः । तस्यावयवो यो ।ञच्छब्दस्तस्मादितिशब्दे परेऽच्छब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः । अत्र इतिशब्दे यः प्रथम इकारस्तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात् । तदाह-धवनेरित्यादिना । अत्राऽलोऽन्त्यस्येति न भवति,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधात् । पटत्-इतीति प्रक्रियावाक्यप्रदर्शनम् । न तु पररूपाऽभावपक्षे रूपमिति भ्रमितव्यम्, अत्र पररूपस्य नित्यत्वात् । असंहितायां निर्देशो वा । पटितीति । उदाहरणमेतत् । 'वृक्षः पतित' इत्याद्यध्याहार्यम् । अत्राऽनेकाज्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सङ्गृह्णाति — एकाचो नेति । एकोऽच् यस्य स एकाच्, तथाभूतस्यानुकरणस्य उक्त पररूपं नेत्यर्थः । श्रदितीति । अत्र एकाच्त्वान्न पररूपम् । ननु पटत्पटत्-इतीत्यत्र पटत्पटेति रूपमिष्यते । तत्राव्यक्तानुकरणस्येति पररूपे पटत्पटितीत्येव स्यात् ।
अव्यक्तमपरिस्फुटवर्णमिति। अपरिस्फुटाउअनभिव्यक्ता अकारादयो वर्णा यस्मिन्ततथोक्तम्। यद्येवम्, तदनुकरणेनापि तथाविधेनैव भाव्यम्, सदृशं ह्यनुकारणं भवति, ततश्चानुकार्य इव तत्रापि नैवाच्छब्दोऽवधार्यते, अनवधारिते चाशक्यं पररूपं कर्तुम् ? तत्राह-तदनुकरणं भवत्यतिप्रसङ्गात्? इत्यत आह - केनचित्सादृश्येनेति। तत्पुनः सादृस्यं ध्वनेस्तुल्यतया, तेन ह्यव्यक्तमनुकार्यमनुकरोति पुरुषः, अनुकरणं कर्तृ अव्यक्तं कर्मानुकरोति, करणस्य कर्तृत्वाविवक्षयां कर्तृप्रत्ययः, अनुकरणशब्दस्तु करणसाधन एव। पररूपमेकादेशो भवतीति। अच्छब्दसयापि सर्वस्य नालोन्त्यस्य;'नानर्थके' लोन्त्यविधिःऽ इति वचनाज्ज्ञापकाच्च। यदयम् ठाम्रेडितस्यान्त्यस्य तु वा ऽ इति अन्त्यग्रहणं करोति, तज्ज्ञापयति -'नात्रालोन्त्यपरिभाषा प्रवर्तते' इति। किञ्च - पूर्वापरसमुदाय एकादेशस्य स्थानीत्युक्तम्, ततश्च तदेकदेशे पूर्वस्मिन् खल्वेतत्परिभाषाप्रवृत्तिः कीदृशीति चिन्त्यम्। पटदितीति। प्रक्रियावाक्यमेतत्, न प्रयोगार्हम्; पररूपस्य नित्यत्वात्। पाटितीति कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादकं भवति, कुतश्च तस्यानुकरणत्वम्? नैष दोषः; यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्यानुकरणं भवति शास्त्रावासनया, तद्वदत्राऽपि भविष्यति। दकारान्तानुकरणमेतदिति तकारान्तानुकरणे तु रूपमेवैतन्न स्यात्; अपदत्वेन जश्त्वाभावाद्, यथा - पटिति करोतीति ॥