7-1-28 ङे प्रथमयोः अम् युष्मदस्मद्भ्यां
ङे इत्यविभक्तिकोऽयं निर्देशः। ङ इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथमाद्वितीययोर्युष्मदस्मद्भ्यामुत्तरयोरमित्ययमादेशो भवति। तुभ्यं दीयते। मह्यं दीयते। प्रथमयोः — त्वम्। अहम्। युवाम्। आवाम्। यूयम्। वयम्। त्वाम्। माम्। युवाम्। आवाम्॥
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥
<<ङे प्रथमयोरम्>> - अथ युष्मदस्मच्छब्दयो प्रक्रियां दर्शयति — ङे प्रथमयोरम् ।युष्मदस्मद्भ्यां ङसोऽश् इत्यतोयुष्मदस्मद्भ्या॑मित्यनुवर्तते । परशब्दोऽध्याहर्तव्यः । 'ङे' इति लुप्तषष्ठीकं पृथक्पदम् । प्रथमयो॑रिति प्रतमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यं । तदाह युष्मदस्मद्भ्यामित्यादिना । सोरमादेशे कृते 'न विभक्तौ' इति मस्य नेत्त्वम् । युष्मद् अम्, अस्मद् अम् इति स्थितम् । अधिकृत्येति ।कार्याणि वक्ष्यन्ते॑ इति शेषः ।