1-1-67 तस्मात् इति उत्तरस्य निर्दिष्टे
'तस्मात्' इति निर्दिष्टे उत्तरस्य
सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य परस्य कार्यम् भवति ।
The words in the पञ्चमी विभक्ति are used to indicate that the कार्य happens on an immediately next entity.
निर्दिष्टग्रहणमनुवर्तते। तस्मादिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। <<तिङ्ङतिङः>> ८.१.२८ — ओ॒द॒नं प॑चति। इह न भवति — पच॑त्यो॒दनम् इति॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र पञ्चमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् पञ्चम्यन्तशब्दात् अव्यवहितस्य परस्य भवति (इत्युक्ते, पञ्चम्यन्तशब्दात् विना व्यवधानम् अनन्तरं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।
अस्य सूत्रस्य प्रयोगस्य कानिचन उदाहरणानि एतादृशानि —
1) <<झयो होऽन्यतरस्याम्>> 8.4.62 इत्यस्मिन् सूत्रे 'झयः' इति पञ्चम्यन्तम् पदमस्ति । अतः अनेन सूत्रे झय्-वर्णात् अव्यवहितस्य परस्यैव हकारस्य विकल्पेन पूर्वसवर्णः भवति । यथा, 'तद्धित' इति शब्दस्य सिद्धौ अस्य सूत्रस्य प्रयोगः भवति —
<<तस्मादित्युत्तरस्य>> - तस्मादित्युत्तरस्य । द्व्यन्तरुपसर्गेभ्योऽप ईत्उदस्थारतम्भोः पूर्वस्ये॑त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणंतस्मा॑दिति । 'इति' शब्दानन्तरं 'गम्येऽर्थे' इति शेषः । 'निर्दिष्टे' इत्यनुवर्तते । निरिति नैरन्तर्ये । दिशिरुच्चारणेद्व्यन्त॑रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाह — पञ्चमीनिर्देशेनेत्यादिना । उत्तरस्य किम् तिङ्ङतिङ॑ इति निघात उत्तरस्यैव भवति — अग्निमीले । नेह ईले अग्निम् । अव्यवहिते किम्, उत्प्रस्थानम् । उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति ।
निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति स्यात्; 'तस्मान्नुड् द्विहलः' इत्यत्र 'अत आदेः' इति दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि तस्यानुकरणं न भवति; 'तस्माच्छसो नः पुंसि' 'तस्मान्नु डचि' इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् । किमर्थंम पुनरिदमारभ्यते ? 'तिङ्ङतिङः' इत्यादौ कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति, दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः सम्भवतीति नियमार्था परिभाषेयम् । तदाह - उतरस्यैव कार्यमिति । तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् । षष्ठीप्रकॢप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? 'षष्ठी' इति वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी । पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र 'इको यणचि' इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य, नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । 'आने मुक्' 'ईदासः' इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-'आने मुक्' इति सप्तमी ङिरवकाशा 'अतो येयः' इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः । एवम् ' ई दासः' इति पञ्चमी 'आने मुक्' थैति सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी प्रकल्पयति, यथा-'आमि सर्वनाम्नः सुट्' इति सर्वनाम्न इति पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः' इति पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । 'दीर्घाच्छे तुग्भवति' इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति, न तु च्छस्य; तथा च शुराच्छाया' इति निर्देश उपपद्यते ॥