तुभ्यमह्यौ ङयि

7-2-95 तुभ्यमह्यौ ङयि विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

युष्मदस्मदोर्मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशौ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्॥

Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः <{SK385}> । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तुभ्यमह्यौ ङयि>> - तुभ्यमह्रौ ङयि । 'ङे' इत्यस्य सप्तम्येकवचने ङयीति ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह — अनयोरिति । युष्मदस्मदोरित्यर्थः । अमादेश इति ।ङे प्रथमयोरित्यनेने॑ति शेषः । शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । 'अमि पूर्वः' इति मत्वाह — तुभ्यं मह्रमिति । परमतुभ्यमिति । तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः । युवाभ्यामावाभ्यामिति । तृतीयाद्विवचनवदिति भावः ।

Padamanjari

Up