त्वाहौ सौ

7-2-94 त्वाहौ सौ विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतावादेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्॥

Siddhanta Kaumudi

Up

युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥

Laghu Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<त्वाहौ सौ>> - त्वाहौ सौ । त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह — युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यप्यत्र 'त्वमावेकवचने' #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम् । नहि 'तत्र त्वमावेकवचने' इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते ।

Padamanjari

Up

त्वमिति । यद्यष्यत्र त्वमावेकवचने इति त्वादेशः सिद्धः तथाप्यहादेशस्तावद्विधेयः तत्र च अहः सौ त्युच्यिमाने युष्मदोऽपि प्रसङ्गः, अस्मदोऽहः सौ इत्युच्यमाने गौरवं स्यात्, तस्मादत्रापि त्वादेश एव विधेययः । किञ्च - अतिक्रान्तो युवां युष्मान्वाऽतित्वमित्यत्र त्वादेशस्य शङ्कापि नास्ति ॥