2-2-1 पूर्वापराधरोत्तरम्एकदेशिनि एकाधिकरणे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः
एकदेशोऽस्यास्तीत्येकदेशी अवयवी। तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशवचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति। एकाधिकरणग्रहणमेकदेशिनो विशेषणम्। एकं चेदधिकरणमेकद्रव्यमेकदेशि भवति। षष्ठीसमासापवादोऽयं योगः। पूर्वं कायस्य, पूर्वकायः। अपरकायः। अधरकायः। उत्तरकायः। एकदेशिनेति किम्? पूर्वं नाभेः कायस्य। एकाधिकरण इति किम्। पूर्वं छात्राणामामन्त्रयस्व। कथं मध्याह्नः सायाह्न इति? <<संख्याविसायपूर्वस्याह्नस्या०>> ६.३.११० इति ज्ञापकात् सर्वेणैकदेशशब्देनाह्नः समासो भवति॥
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसाय - <{SK238}> इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम्? पूर्वश्छात्राणाम्॥
<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> - पूर्वापर ।पूर्वापराधरोत्तर॑मिति समाहरद्वन्द्वात्प्रथमैकवचनम् । एकदेशशब्दोऽवयवे रूढः । एकदेशोऽस्यास्तीत्येकदेशी-अवयवी, तेनेति लभ्यते । अधिकरणं=द्रव्यम् । एकमधिकरणम्-एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेऽवयविवाचकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुष इत्यर्थः । फलितमाह-अवयविना सहेत्यादिना । ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव 'पूर्वकाय' इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह — षष्ठीसमासापवाद इति । पूर्वं कायस्येति विग्रहेषष्ठी॑ति सूत्रे समासे सति षष्ठन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात्पूर्वनिपातः स्यात्तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्वं कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् ।अर्ध॑मिति गम्यम् । विसेष्याभिप्रायान्नपुंसकत्वम् ।तस्य परमाम्रेडित॑मिति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात्षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समासविधौ प्रथमानिर्धिष्टत्वात् पूर्वनिपातः ।परवल्लिङ्ग॑मिति पुंस्त्वमिति भावः ।यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते॑ इतिपारे मध्ये षष्ठआ वे॑त्यत्रोक्तम् । ततश्च एकदेशिसमासाऽभावे षष्ठीसमासो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अपरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्वं नाभेः कायस्येति । अत्रनाभे॑रिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमर्द्धं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य पूर्वांशेऽन्वयः । अत्र पूर्वस्यांशय नाभिरवधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूताववयकतया बहुत्वादेकसंख्यावैशिष्टआऽभावान्न समास इति भावः । ननु अह्नो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः, मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह — सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति ।तत्पुरुषस्ये॑तिअहस्सर्वैकदेशसंख्यातपुण्याच्चे॑ति च प्रकृते,-॒अह्नोऽह्न एतेभ्यः॑ इत्येकदेशवाचकात्परस्याऽहन्शब्दस्याऽह्नादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठन्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रतमानिर्दिष्टत्वात्सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशे रात्राह्नाहाः पुंसीति पुंस्त्वे॒सायाह्न॑ इति भवति । तस्मात्सप्तम्येकवचने परेसङ्क्याविसाये॑ति सायशब्दपूर्वकस्याह्नशब्दस्याऽहन्नादेशविकल्प उक्तः । सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम् । तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् तदा 'षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठन्तस्य सायशब्देन समासे सति षष्ठन्तस्यैव समासशास्त्रे प्रतमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात्परस्याह्नशब्दस्याऽहन्नादेशविधानं निर्विषयं स्यात्, अतःसर्वोऽप्येकदेशोऽह्ना समस्यते॑ इति विज्ञायते इत्यर्थः । मध्याह्न इति । अह्नो मध्यमिति विग्रहेऽयं समासः । 'राजाहःसखिभ्यष्टच्' इति टच् । 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननुसर्वोऽप्येकदेशः कालेन समस्यते॑ इत्ययुक्तं,संख्याविसाये॑ति सूत्रेऽहन्तशब्दस्यैवौपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापन#आऽनुपपत्तेरित्यत आह — ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात्सर्वेणाप्यवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्या पेक्षत्वात्, नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेर्मध्यमित्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः ।अहः सर्वैकदेशे॑त्यच्समासान्तः ।
एकदेशोऽस्यास्तीत्येकदेशीति। एकगोपूर्वादिति ठञ् प्राप्नोति, अत एव निर्देशादिनिर्द्रष्टव्यः। एकदण्डीत्ययं त्वपशब्दः एको दण्डो यस्येति बहुव्रीहिणैव गतत्वान्मत्वर्थ एव दुर्लभः, किं पुनरिनिष्ठञा बाधितः? एकदेशब्दस्तु कर्मधारय एवावयववचन इति न तत्र बहुव्रीहिणा गतत्वम्, यथा - कृष्णसर्पवानिति। सामर्थ्यादेकदेशवचना इति। एकदेशमपेक्ष्यैकदेशी भवति, नान्यथेत्येतत्सामर्थ्यम्। एकाधिकरणग्रहणमेकदेशिनो विशेषणमिति। सत्सप्तम्यन्तवैयधिकरण्येनेति भावः, तदाह - एक चेदिति। एकत्वसंख्याविशिष्टमित्यर्थः। समानाभिधेयवचन एकाधिकरणशब्दो न भवति, अवयवावयविशब्दयोः सामानाधिकरण्यानुपपतेः, समानाधिकरण्येनेति प्रकृतत्वाच्च। स्यादेतत् -'समुदायेषु हि दृष्टाः शब्दाः अवयवेष्वपि वर्तन्ते' इति न्यायेन समानाधिकरण्ये सति पूर्वश्चासौ कायश्चेति विशेषणमित्येव सिध्दः समासो नार्थ एतेन, एवं च कृत्वा परवल्लिङ्गमित्यत्र तत्पुरुषग्रहणं न कर्तव्यं भवति, कथम्? उतरपदार्थप्रधानत्वादेव सिध्दमिति, तत्रह - षष्ठीसमासापवादोऽयं योग इति। सिध्दं तु कथञ्चित्पूर्वकाय इति, कायपूर्व इत्यस्य निवृत्यर्थमेव तु सूत्रं कर्तव्यमित्यर्थः। पूर्वे कायस्येति। यद्यपि दिशि दृष्टः शब्दो दिक्शब्द इत्याश्रयणात्सम्प्रत्यदिग्वृत्तिनीपि योगे पञ्चमी भवति,'तस्य परमाम्रेडितम्' इति लिङ्गादवयववृत्तिभिर्योगे षष्ठी भवति। पूर्वे नाभेः कायस्येति। नाभेरिति दिग्योगलक्षणा पञ्चमी, मायसम्बन्धी नाभ्यपेक्षया पूर्वो भाग इत्यर्थः। तत्र नाभिरेकदेशी न भवतीति न तेन समासो भवति। यस्त्वेकदेशी कायस्तेन समासो भवत्येव - पूर्वकायो नाभेरिति, पूर्वशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिति केचिदाहुः। अन्ये तु - यत्रार्थप्रकरणादिनावधिर्गम्यते तत्रैव समासः, न शब्दोपादाने इत्याहुः। पूर्वे छात्राणामिति। नेयं निर्ध्दारणे षष्ठी, किं तर्हि? समुदायः छात्राणामित्यनेनोच्यत इति बहुवचनम्, यथा-छात्राणां पञ्चम इति, ततश्च छात्राणामेकदेशित्वमस्त्येव, किं तु बहुत्वसंख्याविशिष्टानामिति समासाभावः। संख्याविसायपूर्वस्येत्यादि। न ह्यन्यथा सायपूर्वत्वमह्वस्योपपद्यते इति भावः। केचितु - सर्वेणैकदेशवाचिना कालवाचिनः समासो भवति, न त्वमहन्शब्दस्यैवेति ज्ञापकशरीरं वर्णयन्ति, तेन मध्यरात्र इत्यपि सिध्दं भवति॥