5-4-86 तत्पुरुषस्य अङ्गुलेः सङ्ख्या अव्ययादेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
सङ्ख्या-अव्ययादेः अङ्गुलेः तत्पुरुषस्य अच्
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
यस्मिन् तत्पुरुषसमासे पूर्वपदम् सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति, उत्तरपदम् च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते ।
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
अङ्गुलिशब्दान्तस्य तत्पुरुषस्य सङ्ख्यादेः अव्ययादेश्च अच् प्रत्ययो भवति। द्वे अङ्गुली प्रमानमस्य द्व्यङ्गुलम्। त्र्यङ्गुलम्। तद्धितार्थ इति समासः। प्रमाणे लो द्विगोर्नित्यम् 6.2.12 इति मात्रचो लोपः। अव्ययादेः निर्गतमङ्गुलिभ्यः निरङ्गुलम्। अत्यङ्गुलम्। तत्प्रुषस्य इति किम्? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः। तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्तातिति यावत्।
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तोऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण कश्चन सङ्ख्यावाचकः शब्दः अव्ययवाचकः वा शब्दः विद्यते, उत्तरपदरूपेण च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।
यथा -
→ द्वि + अङ्गुलि + मात्रच् [प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यनेन 'प्रमाणमस्य' इत्यस्मिन् अर्थे मात्रच् प्रत्ययः भवति । अत्र विधानसामर्थ्यात् केवलम् मात्रच्-प्रत्ययः एव भवति, अन्यौ प्रत्ययौ न भवतः । ]
→ द्वि + अङ्गुलि [प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यत्र पाठितेन <!द्विगोर्नित्यम्!> इति वार्त्तिकेन मात्रच्-प्रत्ययस्य लुक् विधीयते ।]
→ द्वि + अङ्गुलि+ अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]
→ द्व्यङ्गुलि + अ [इको यणचि 6.1.77 इति यणादेशः]
→ द्व्यङ्गुल् + अ [यस्येति च 6.4.148 इति इकारलोपः]
→ द्व्यङ्गुल
द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलः स्तम्भः ।
एवमेव - त्रयः अङ्गुलयः प्रमाणमस्य सः त्र्यङ्गुलः । दश अङ्गुलयः प्रमाणमस्य सः दशाङ्गुलः ।
→ निर् + अङ्गुलि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]
→ निरङ्गुल् + अच् [यस्येति च 6.4.148 इति इकारलोपः]
→ निरङ्गुल
अङ्गुलिभ्यः निर्गतम् तत् निरङ्गुलम् ।
एवमेव - अतिगता अङ्गुलिः तत् अत्यङ्गुलम् ।
स्मर्तव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् तत्पुरुषसमासस्य विषये एव विद्यते । अतः - द्वे अङ्गुुली अस्य / पञ्च अङ्गुलयः यस्य / अतिगताः अङ्गुल्यः यस्य'- इत्यत्र अच्-प्रत्ययः न भवति, अपितु केवलम् पूर्वपद-उत्तरपदयोः मेलनेनैव समासः जायते । यथा - द्वे अङ्गुली अस्य सः द्व्यङ्गुलिः ।
index: 5.4.86 sutra: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः
अङ्गुलिशब्दान्तस्येत्यादि। सर्वत्र समासान्तसम्बन्धे षष्ठी ॥