तद्धितार्थोत्तरपदसमाहारे च

2-1-51 तद्धितार्थोत्तरपदसमाहारे च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन दिक्सङ्ख्ये

Kashika

Up

index: 2.1.51 sutra: तद्धितार्थोत्तरपदसमाहारे च


दिक्सङ्ख्ये इत्यनुवर्तते। तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। तद्धितार्थे तावत् पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसंज्ञायां ञः 4.2.107, पौर्वशालः। आपरशालः। उत्तरपदे पूर्वशालाप्रियः। अपरशालाप्रियः। समाहारे दिक्शब्दो न सम्भवति। सङ्ख्या तद्धितार्थे पाञ्चनापितिः। पञ्चकपालः। उत्तरपदे पञ्चगवधनः। दशगवधनः। समाहारे पञ्चपूली। दशपूली। पञ्चकुमारि। दशकुमारि। स नपुंसकम् 2.4.17 इति नपुंसकत्वम्। ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वत्वम्।

Siddhanta Kaumudi

Up

index: 2.1.51 sutra: तद्धितार्थोत्तरपदसमाहारे च


तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञः <{SK1328}> इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ।<!द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.51 sutra: तद्धितार्थोत्तरपदसमाहारे च


तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः (वार्त्तिकम्)॥

Balamanorama

Up

index: 2.1.51 sutra: तद्धितार्थोत्तरपदसमाहारे च


तद्धितार्थोत्तरपदसमाहारे च - तद्धितार्थ । एकापि सप्तमी विषयभेदाद्भिद्यते । तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते । उत्तरपदेत्यंशे सामीपिकमाधारत्वमादाय परसप्तमी पर्यवस्यति । समाहारांशे तु वाच्यतया आधारत्वे सप्तमी । पूर्वसूत्राद्दिक्संख्ये इत्यनुवर्तते । तदाह — तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत् । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः । तद्धितार्थे दिक्समासमुदाहरति — पूर्वस्यामिति । समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थ' इति समासे कृतेदिक्पूर्वपदा॑दिति ञप्रत्यते कृतेयस्येति चे॑त्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कार्त्स्न्ये । समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तुतद्धिते परे दिक्सङ्ख्ये समस्येते॑ इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः ।तद्धितार्थे वाच्ये दिक्संख्ये समस्येते॑ इति तु न व्याख्यातं, तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वाऽभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वादुत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह — तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह — दिक्ष्विति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । सङ्ख्यायास्तद्धितार्थे इति । समास उदाह्यियत इत्यर्थः । तत्र तद्धितार्थे उदाहरति-षाण्मातुर इति । मातुरुत्सह्ख्यासम्भद्रपूर्वायाः॑ इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च । अथ उत्तरपदे परत उदाहरति-पञ्चगाव इति । अवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्पे प्राप्ते इति ।महाविभाषाधिकारा॑दिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाऽभावपक्षेगोरतद्धितलुकी॑ति तत्पुरुषप्रयुक्तटजभावे 'पञ्चगोधन' इत्यपि स्यादिति भावः । द्वन्द्वतत्पुरुषयोरिति । उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु संपातायातम्, अनन्वयात्, उत्तरपदे परतः समाससंज्ञया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् ।

Padamanjari

Up

index: 2.1.51 sutra: तद्धितार्थोत्तरपदसमाहारे च


तध्दितार्थोतरपदसमाहारे च ॥'विशेष्येण' इति सिध्दस्य पूर्वेशानियमादप्राप्तविधिरयम्। अगृह्यमाणविषयत्वाद्वायमपि नियमः शक्यते वक्तुम् - अयं नियमः पूर्वो विधिरिति। एकापि सप्तमी विषयभेदाद्भिद्यत इत्याह - तध्दितीर्थे विषयभूत इत्यादिना। तध्दितार्थेऽभिधेय इत्येवं तु विज्ञायामाने पाञ्चनीपितिरित्यादौ दध्दितो दुर्लभः स्यात्; तदर्थस्य समामेनैवोक्तत्वादिति भावः। अस्मिन् पक्षेऽर्थग्रहणं चिन्त्यप्रयोजनम्। दध्दिते विषय इत्येवास्तु, तध्दिते परत इति तु विज्ञायमाने इतरेतराश्रयं प्राप्नोति - समासातध्दितो विधेयः, तध्दिते च समास इति। किञ्च -'तध्दितार्थे' भिधेयेऽ इत्यास्मन् पक्षे न दोषः,'द्विगोर्लुगलपत्ये' इति लुग्वचनं ज्ञापकमुत्पद्यते - द्विगोस्तध्दित इति सर्वतध्दितसाधारणो द्विगुः, तत्रावश्यं विशेषाभिधाअनाय तध्दित उत्पद्यत इत्यपि श्कयं विज्ञातुम्। अथेवं कस्मान्न वज्ञायते - तध्दितार्थे द्विगुर्भवति, तध्दितो यथा स्यादिति द्विगुर्भवतीति, यथादारार्थं घटामहे, दारा यथा स्युरिति घटामह इति? नेवं शक्यं विज्ञातुम्; एवं हि विज्ञायमाने दध्दितोत्पतये विधीयमाना समाससंज्ञा विषयान्तरे न स्यात्। एवं तस्यैव समासस्य विधीयमाना द्विगुसंज्ञापि, ततश्च पञ्चारत्निरित्यत्र इगन्ते द्विगाविति स्वरो न स्यात्, तस्य तु समाहारद्विगुरवकाशः, यथा - स्वरे विधीयमानः पराङ्गवद्भावः षत्वणत्वयोर्न भवति, तथात्रापि। पौर्वशाल इति। पूर्वस्यां शालायां भव इति तध्दितार्थे विवक्षते समासः, ततस्तध्दितः। पूर्वशालाप्रिय इति। पूर्वा शाला प्रियास्येति त्रिपदे बहुव्रीहौ प्रियशब्दे उतरपदे परतः पूर्वयोस्तत्परुषे सति समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्परुषे सतदि समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्यौदातत्वमवतिष्ठेत। समाहारे दिक्शब्दो न सम्भवतीति। स हि समूहरुपत्वाद्भेदनिबन्धनः, संख्यैव च भेदमाचष्टे, दिक्शब्दस्तु प्रत्यर्थनियतः। विभक्तिरपि समासे निवर्तते। ननु यथा'काकसमूहः' इत्यत्र विभक्त्यभावेऽपि भेदावगतिस्तथात्रापि भविष्यति, तस्मात्प्रयोगाभावादित्येवात्र हेतुर्वक्तव्यः। पाञ्चनापितिरिति। पञ्चानां नीपितानामपत्यमिति समासे, अत इञ्। पञ्चकपाल इति। पञ्चसु कपालेषु संस्कृत इति समासे'संस्कृत भक्षाः' इत्यणः'द्विगोर्लुगलपत्ये' इति लुक्। पञ्चगवधन इति। पञ्च गावो धवमस्येति त्रिपदे बहुव्रीहौ कृते धनशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे'गोरतध्दितलुकि' इति टचि। अयमुतरपदे तत्पुरुषो महाविभाषाधिकाराद्विकल्पेन प्राप्नोति, नित्यो बक्तव्यः; अन्यथा पञ्चगोधन इत्यपि स्यात्। उक्तं च'द्वन्द्वतत्पुरुषयोरुतरपदे नित्यसमासवचनम्' इति, वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय इति त्रिपदबहुव्रीहौ पूर्वयोर्द्वन्द्वः, स च नित्य इष्यते - नित्यं समासान्तो यथा स्यादिति। पञ्चपूलिति। पञ्चानां पूलानां समाहार इति विग्रहः, न तु पञ्चपूलाः समाहृता इति। भावसाधनो हि समाहारशब्दः - समाहरणं समाहारः उ विप्रकीर्णानामेकत्र राशीकरणम्। पञ्चग्रामः, षण्णगरी, त्रिपुरीत्यत्रैकस्मिन् क्षणे क्रियायां समन्वयाद्भिन्नदेशानामपि बुध्द्या राशोकरणं भवति। अथ कर्मसाधने को दोषः? इह पञ्चकुमारीति, कुमार्यर्थप्रधान्यात्समासशास्त्रे चाप्रधमानिर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावाद्'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वो न स्यात्, काममत्र नुपंसकह्रस्वत्वं सिध्दम्। इह पञ्च खट्वाः समाहृताः पञ्चखट्वीति वा टाबन्त इति सत्रीलिङ्गपक्षे ह्रस्वाभावाद्'द्विगोः' इति ङीब् न स्यात्। भावसाधने तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यं षष्ठ।ल्èव योग इतेयकविभ्क्तिकत्वात्सिध्दमुपसर्जनत्वम्। तस्माद्भावसादनः। द्विगुरेकवचनमित्येततु'स नपुंसकम्' इति वक्ष्यामीत्याहभ्यते, कथं पञ्चपूलामानयोत्युक्ते पूलानामानयनम्, नान्तरेण द्रव्यानयनं भावानयनं सम्भवति, यथा नान्तरेण प्रत्रानय्नमग्नेरानयनं सम्भवति? एवमपि समाहारग्रहणमनर्थकम्, भावसाधनो हि समाहारशब्दः समूहपर्याययः, समूहश्च तध्दितार्थस्तत्र'तध्दितार्थ' इत्येव सिध्दम्। यद्येवम्, दध्दितोत्पतिः प्राप्नोति? उत्पद्यतां दध्दितः,'द्विगोः' इति लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति, पञ्चपूली-ठपरिमाणबिस्ताचितऽ इति ङीप्प्रातिषेधः प्राप्नोति,'पञ्चगवम्,'गोरतद्वितलुकि' इति टच् न प्राप्नोति? नैष दोषः; अपरिमाणेत्यत्र न तध्दितलुकीत्यपास्य'समाहार' इति वक्तव्यम्, तन्नियमार्थम् - अविशेषेण द्विगोङीब्भवति, अपरिमाणान्ताद्विस्ताचितकम्बल्यान्ताच्च समाहार एवेति, पञ्चानामश्वानां समाहारः पञ्चश्वी। क्व मा भूत्? पञ्चभिरश्वैः क्रीता पञ्चाश्वा।'गोरतद्वितलुक्' इत्यत्राप्यतध्दितलुकीत्यपास्य'द्विगोः समाहार' इति वक्तव्यम्, तन्नियमार्थम् - गोशब्दन्तस्य तत्पुरुषस्याविशेषेण टज् भवति, द्विगोस्तु समाहार एवेति, पञ्चानां गवां समाहारः पञ्चगवम्। क्व मा भूत्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः पटः। एवमपि पञ्चकुमारीत्यत्र'लुक् तध्दितलुकि' इति स्त्रीप्रत्ययस्य लुक् प्राप्नोति। तस्मातध्दितनिवृत्यर्थम्। समाहारग्रणातु समासस्यैव समाहारो वाच्यः, न तध्दितस्येति व्याख्यानातध्दितो नोत्पद्यत इति सिध्दमिष्टम्। इह पञ्च गावो' स्य सन्ति पञ्चगुः पुरुष इति मत्वर्थम्य तध्दितार्थत्वादयं समासः प्राप्नोति, न बहुव्रीहिः; अशेषत्वात्, तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवण स्यात्। अप्राग्दीव्तीयत्वाद् द्विगोर्लुगापि नास्ति। तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः॥