2-1-48 पात्रे समितादयः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी क्षेपे
समुदाया एव निपात्यन्ते। पात्रेसमितादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये चात्र क्तान्तेन सह समासाः, तेषां पूर्वेणैव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा स्यादिति। युक्तारोह्यादिषु ६.२.८१ हि <<पात्रेसमितादयश्च>> (ग०सू० १७४) इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्र एव समिताः, न पुनः क्वचित् कार्य इति। उदुम्बरमशकादिषूपमया क्षेपः। मातरिपुरुष इति प्रतिषिद्धसेवनेन। पिण्डीशूरादिषु निरीहतया। अव्यक्तत्वाच्चाकृतिगणोऽयम्॥ पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरक्रिमिः। कूपकच्छपः। कृपचूर्णकः। अवटकच्छपः। कूपमण्डूकः।कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। नगरवायसः। मातरिपुरुषः। पिण्डीशूरः। पितरिशूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। गेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठेविजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारोऽवधारणार्थः, तेन समासान्तरं न भवति — परमपात्रेसमिता इति॥
एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥
<<पात्रेसंमितादयश्च>> - पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ । संपूर्वात्गत्यर्थाकर्मके॑ति कर्तरि क्तः । निपातनात्सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह — भोजनेति । गेहेशूर इति । गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः । गेहेनर्दीति । 'नर्द शब्दे' 'सुप्यजातौ' इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । अवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति ।
युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी उ ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः॥ 49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥ 2-1-49 ॥ भिन्नप्रवृत्तिनिमितस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्यर्थम्। क्वचिद् भिन्नन्मितप्रयुक्तस्येति पाठः, भिन्नेन निमितेन प्रवृत्तिनिमितेन प्रवर्तितस्येत्यर्थः।'विशेषणं विशेष्येण' इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु'दिक्संख्ये संज्ञायाम्' इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थातेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, ठेकतध्दिते चऽ इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः॥