रात्राह्नाहाः पुंसि

2-4-29 रात्राह्नाहाः पुंसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाष्यन्ते। परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। चतूरात्रः। पूर्वाह्णः। अपराह्णः। मध्याह्नः। द्व्यहः। त्र्यहः॥ अनुवाकादयः पुंसीति वक्तव्यम्॥ अनुवाकः। शंयुवाकः। सूक्तवाकः॥

Siddhanta Kaumudi

Up

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम् ॥ लि. <{SK131}> द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥

Laghu Siddhanta Kaumudi

Up

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। <<संख्यापूर्वं रात्रं क्लीबम्>>। द्विरात्रम्। त्रिरात्रम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<रात्राह्नाहाः पुंसि>> - रात्राह्नाहाः ।द्वन्द्वतत्पुरुषयो॑रित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशष्यते, तदन्तविधिः । रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह — एतदन्ताविति । परवल्लिङ्गतापवादः । नन्वहोरात्र इति समाहारद्वन्द्वेःस नपुंसक॑मिति नपुंसकत्वप्रसङ्गः । नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यं,पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनऽनस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति । अयमिति ।पुंस्त्वविधि॑रिति शेषः । अहोरात्र इति । अहश्च रात्रिश्च तयोः समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम् । अपवादत्वात्परवल्लिङ्गमपि बाधित्वाऽनेन पुंस्त्वम् ।अहःसर्वैकदेशे॑त्यच् । पूर्वाह्ण । इति अह्नः पूर्वमित्येकदेशिसमासः । 'राजाहःसखिभ्यः' इति टच् । 'अह्नोऽहः' #इत्यह्नादेशः । परवल्लिङ्गं नपुंसकं च बाधित्वा पुंस्त्वम् । द्व्यह इति द्वयोरह्नोः समाहार इति विग्रहे द्विगुः, टच्,न सङ्ख्यादेः समाहारे॑ इत्यह्नादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याऽहन्शब्दस्य#आऽकारान्तत्वाऽभावान्न स्त्रीत्वं, समासन्तस्य समासभक्तत्वात् । सङ्ख्यापूर्वं । लिङ्गानुशासनसूत्रमिदम् । न त्वाष्टाध्यायीस्थं सूत्रं, नापि वार्तिकम्, भाष्ये अदर्शनात् ।रात्राह्नाहाः पुंसी॑त्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः ।अहःसर्वैकदेशे॑त्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवति' इति सङ्ख्यात्वम् । गणाना रात्रीणां समाहार इति द्विगुः । अच् ।

Padamanjari

Up

रात्राह्नाहाः पुंसि॥ इत्येते पुंसि भाष्यन्ते इति। केचिदाहुः - रात्रादीनामेवानेन पुंस्त्वं विधीयते, तदन्तस्य तु परवल्लिङ्गमित्येव सिद्धमिति। एवं तु समाहारे'स नपुसकम्' इत्येतदेव स्यात्, परवल्लिङ्गपवादत्वातस्य, तस्माद्रात्राद्यन्तस्य समासस्यैवेदं लिङ्गविधानं युक्तम्,। एवं हि समाहारेऽपि परत्वादिदमेव प्रवर्तते। इत्येते पुंसि भाष्यन्ते इत्यत्र त्वेतदन्ता इत्यर्थो द्रष्टव्यः। त्रिरात्र इति। समाहारे द्विगुः, ठहः सर्वैकदेशेऽ इत्यच् समासान्तः। पूर्वाह्ण इति। अह्नः पूर्वो भागः, एकदेशिसमासः। राजाहः सखिभ्यष्टच्ऽ,ठह्नेह्न एतेभ्यःऽ इत्यह्नादेशः, ठह्नोऽदन्तात्ऽ इति णत्वम्। द्व्यह इति।'न संख्यादेः समाहारे' इत्यह्नादेशाभावः, ठह्नष्टखोरेवऽ इति टिलोपः। अनुवाकादयः पुंसिति। वाक्यविशेषस्य ताः संज्ञाः कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्॥