सर्वैकान्यकिंयत्तदः काले दा

5-3-15 सर्वैकान्यकिंयत्तदः काले दा प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः

Sampurna sutra

Up

सप्तम्याः सर्व-एक-अन्य-किम्-यत्-तदः काले दा

Neelesh Sanskrit Brief

Up

'सर्व', 'एक', 'अन्य', 'किम्', 'यत्' तद्' एतेषाम् सप्तमीविभक्त्यन्तात् 'काले' अभिधेये 'दा' इति प्रत्ययः स्वार्थे विधीयते ।

Kashika

Up

सप्तम्या इति वर्तते, न त्वितराभ्य इति। सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति। त्रलोऽपवादः। सर्वस्मिन् काले सर्वदा। एकदा। अन्यदा। कदा। यदा। तदा। काल इति किम् ? सर्वत्र देशे॥

Siddhanta Kaumudi

Up

सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥

Laghu Siddhanta Kaumudi

Up

सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'दा' इति विभक्तिसंज्ञकः शब्दः पाठ्यते । कालस्य विशेषणरूपेण प्रयुज्यमानात् 'सर्व', 'एकः, 'अन्य', 'किम्', 'यत्' तद्' एतेषाम् सप्तमीविभक्त्यन्तरूपात् <<सप्तम्यास्त्रल्>> 5.3.10 इत्यनेन औत्सर्गिकरूपेण त्रल्-प्रत्यये प्राप्ते तं बाधित्वा 'दा' प्रत्ययः अनेन सूत्रेण स्वार्थे विधीयते । क्रमेण पश्यामः - 1. सर्वस्मिन् काले इत्येव = सर्वस्मिन् + दा → सर्व + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → सर्वदा, सदा [<<सर्वस्य सोऽन्यतरस्यां दि>> 5.3.6 इति विकल्पेन 'स' आदेशः] 2. एकस्मिन् काले = एकस्मिन् + दा → एक + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → एकदा 3. अन्यस्मिन् काले = अन्यस्मिन् + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → अन्यदा 4. कस्मिन् काले = कस्मिन् + दा → किम् + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → क + दा [<<किमः कः>> 7.2.103 इति 'किम्' इत्यस्य 'क' आदेशः।] → कदा 5. यस्मिन् काले → यस्मिन् + दा → यद् + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → यअ + दा [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारादेशः] → य + दा [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः] → यदा 5. तस्मिन् काले → तस्मिन् + दा → तद् + दा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → तअ + दा [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारादेशः] → त + दा [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः] → यदा अनेन प्रकारेण 'सर्वदा', 'एकदा', 'अन्यदा', 'यदा', 'तदा' - एते शब्दाः अनेन सूत्रेण सिद्ध्यन्ति । एते सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.2.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'काले' इति शब्दः प्रत्ययार्थम् न बोधयति, अपि तु प्रकृतेः विशेष्यम् ज्ञापयति । इत्युक्ते, 'काले' इति 'सर्वस्मिन् / एकस्मिन् / यस्मिन्' इत्येतेषाम् विशेष्यम्। प्रत्ययः अपि 'यस्मिन् काले' इत्यस्मिन्नेव अर्थे (= स्वार्थे) भवति ।

Balamanorama

Up

<<सर्वैकान्यकिंयत्तदः काले दा>> - सर्वैकान्य । सप्तम्यन्तेभ्य इति । 'सर्वादिभ्य' इति शेषः । 'सप्तम्या' इत्येवानुवर्तते, व्याख्यानादिति भावः । सदा सर्वदेति ।सर्वस्य सोऽन्यतरस्यां दी॑ति सभावविकल्पः । कदेति । किंशब्दाद्दाप्रत्यये सति तस्य 'किमः कः' इति कादेशः ।

Padamanjari

Up

सप्तम्या इति वर्तत इति। स्वरितत्वात्। न त्वितराभ्य इति। विपर्ययात् ॥