पर्यभिभ्यां च

5-3-9 पर्यभिभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः तसिल्

Sampurna sutra

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


परि-अभिभ्याम् तसिल्

Neelesh Sanskrit Brief

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


'परि' तथा 'अभि' एताभ्याम् 'तसिल्' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति। सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते। परितः। सर्वतः इत्यर्थः। अभितः। उभयतः इत्यर्थः।

Siddhanta Kaumudi

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


आभ्यां तसिल् स्यात् ।<!सर्वोभयार्थाभ्यामेव !> (वार्तिकम्) ॥ परितः । सर्वत इत्यर्थः । अभतः । उभयत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

Neelesh Sanskrit Detailed

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


'परि' तथा 'अभि' एतौ द्वौ गतिसंज्ञकौ शब्दौ । एताभ्याम् वर्तमानसूत्रेण 'तसिल्' इति प्रत्ययः स्वार्थे विधीयते ।

परि तथा अभि - एतयोः द्वयोः अपि शब्दयोः अनेके अर्थाः सन्ति । एतेभ्यः कस्मिन् अर्थे अयम् तसिल्-प्रत्ययः विधीयते एतत् स्पष्टीकर्तुम् वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <! सर्व-उभयार्थाभ्याम् एव!> । इत्युक्ते, 'परि' उपसर्गात् 'सर्व' अस्मिन् अर्थे, तथा 'अभि' उपसर्गात् 'उभय' अस्मिन् अर्थे 'तसिल्' इति प्रत्ययः क्रियते । यथा -

1) परि (= सर्व) + तसिल् → परितः । 'सर्वतः' इत्यर्थः ।

2) अभि (= उभय) + तसिल् → अभितः । 'उभयतः' इत्यर्थः ।

Balamanorama

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


पर्यभिभ्यां च - पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वार्तिकमिदम् । परिषिञ्चति अबिषिञ्चतीत्यादौ वाग्रहणात्पक्षे न तसिल् ।

Padamanjari

Up

index: 5.3.9 sutra: पर्यभिभ्यां च


सर्वोभयार्थे वर्तमानाभ्यामिति। अत्र चाभिधानस्वाभाव्यं हेतुः, तेनेह न भवति-परिषिञ्चति, अभियातीति; उपर्यर्थे परिः, आभिमुख्येऽभिः। इह त्वोदनं परिषिञ्चतीति सर्वतोभावेऽपि वावचनानुवृतेः पक्षे तसिलभावः। सर्वतः, उभयत इति। सप्तम्यन्ताभ्यामाद्यादित्वातसिः ॥