7-2-104 कु तिहोः विभक्तौ किमः
किमः ति-होः विभक्तौ कुः
किम्-शब्दस्य तकारादौ हकारादौ च विभक्तिप्रत्यये परे 'कु' आदेशः भवति ।
The word किम् is converted to कु when followed by a विभक्तिप्रत्यय that begins with a शब्दस्य तकार or a हकार.
तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति। कुतः। कुत्र। कुह। तिहोरितीकार उच्चारणार्थः॥
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥
'किम्' शब्दस्य विभक्तिप्रत्यये परे <<किमः कः>> 7.2.103 इत्यनेन ककारादेशे प्राप्ते अनेन सूत्रेण तकारादौ हकारादौ च विभक्तौ परे 'कु' इति आदेशः भवति । <<अनेकाल् शित्सर्वस्य>> 1.1.55 इति सर्वादेशः । यथा - 1. किम् + तसिल् [<<पञ्चम्यास्तसिल्>> 5.3.7 इति तसिल्-प्रत्ययः । <<प्राग्दिशो विभक्तिः>> 5.3.1 इति प्रत्ययस्य विभक्तिसंज्ञा] → कु तस् [<<कु तिहोः>> 7.2.104 इति किम्-शब्दस्य कु-आदेशः] → कुतः [विसर्गनिर्माणम्] 2. किम् + ह [<<वा ह च च्छन्दसि>> 5.3.13 इत्यनेन किम्-इत्यस्य ह-आदेशः। <<प्राग्दिशो विभक्तिः>> 5.3.1 इति प्रत्ययस्य विभक्तिसंज्ञा] → कुह [<<कु तिहोः>> 7.2.104 इति किम्-शब्दस्य कु-आदेशः] ज्ञातव्यम् - अस्मिन् सूत्रे 'ति' इत्यत्र इकारः उच्चारणार्थः अस्ति ।
<<कु तिहोः>> - कुतिहोः । 'कु' इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः' इत्यनुवर्तते । 'अष्टन आ' इत्यतोविभक्ता॑विति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः । ताभ्यां विभक्तिर्विशेष्यते । तदादिविधिः । तदाह — किमः कुः स्यादित्यादिना । कुत इति । किंशब्दात् पञ्चम्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः ।तसिलादयः प्राक्पाशपः॑ इत्युक्तेरव्ययत्वम् । वेत्यनुवृत्तेः फलमाह — कस्मादिति ।तिहो॑रित्युक्तेरत्र न कुभावः । सर्वनाम्न उदाहरति — यत इति । यच्छब्दात्पञ्चम्यन्तात्सुब्लुक्, तसिलो विभक्तित्वात्तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवं तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतच्छब्दात्पञ्चन्तात्तसिल् । सुब्लुक् । एतदोऽन् । सर्वादेशः । नलोपः । पक्षेएतस्मा॑दिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात्तसिल् । सुब्लुक् ।इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात्पञ्चम्यन्तात्तसिल्, उत्वमत्वे च । पक्षेअमुष्मा॑दिति भवति । बहुत इति । पक्षे 'बहुभ्य' इति भवति । द्व्यादेस्त्विति । सर्वनामत्वात्प्राप्तस्तसिल्-द्व्यादिपर्युदासान्नेत्यर्थः ।
तिशब्दस्य विभक्तिसंज्ञकस्याभावातकारे इकार उच्चारणार्थः । कुहेति । वा ह च च्छन्दसि इति हप्रत्ययः ॥