किंसर्वनामबहुभ्योऽद्व्यादिभ्यः

5-3-2 किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः

Sampurna sutra

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


किम्-सर्वनाम-बहुभ्यः अद्व्यादिभ्यः प्राक् दिशः विभक्तिः

Neelesh Sanskrit Brief

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


सर्वादिगणे विद्यमानाः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्दाः, 'बहु' शब्दः तथा च 'किम्' शब्दः प्राग्दिशीय-विभक्तिप्रत्ययान् प्राप्नुवन्ति ।

Kashika

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


प्राग्दिशः इत्येव। किमः सर्वनाम्नो बहुशब्दाच् च प्राग्दिशः प्रत्ययाः वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः , कुत्र। यतः, यत्र। ततः, तत्र। बहुतः, बहुत्र। अद्व्यादिभ्यः इति किम्? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसङ्ख्यानं किम्? वृक्षात्। वृक्षे। प्राग्दिशः इत्येव, वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणम् द्व्यादिपर्युदासात्। बहुग्रहणे सङ्ख्याग्रहणम्। इह न भवति, बहोः सूपात्, बहौ सूपे इति।

Siddhanta Kaumudi

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


विभक्तिसंज्ञकप्रत्ययाः केभ्यः प्रातिपदिकेभ्यः विधीयते तत् अनेन सूत्रेण स्पष्टीक्रियते । सूत्रे उपस्थितान् शब्दान् क्रमेण पश्यामः -

  1. अद्व्यादिभ्यः सर्वनामेभ्यः -

सर्वादीनि सर्वनामानि 1.1.27 अनेन सूत्रेण सर्वनामशब्दानामावली दीयते । इयमेव आवली 'सर्वादिगणः' नाम्ना ज्ञायते । इयमावली एतादृशी दृश्यते - 'सर्व, विश्व, उभ, उभय...., एक, द्वि, युष्मत्, अस्मत्, भवतुँ, किम्'

अस्यामावल्याम् 'द्वि' इति यत् सर्वनाम वर्तते, तस्मात् आरभ्य अस्य गणस्य अन्तपर्यन्तम् ये शब्दाः पाठ्यन्ते - 'द्वि, युष्मत्, अस्मत्, भवतुँ, किम्' - एतेषाम् सर्वेषां 'द्व्यादयः' इत्यनेन अस्मिन् सूत्रे निर्देशः कृतः अस्ति । एतान् द्व्यादीन् विहाय सर्वादिगणस्य अन्ये शब्दाः विभक्तिसंज्ञकानं तद्धितप्रत्ययान् प्राप्तुमर्हन्ति - इति 'अद्व्यादिभ्यः सर्वनामेभ्यः' इत्यस्य आशयः ।

  1. 'किम्' - किमयम् सर्वनामशब्दः यद्यपि द्व्यादिगणे विद्यते, तथापि तस्मात् विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति - इति स्पष्टीकर्तुमत्र 'किम्' शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति ।

  2. 'बहु' अस्मात् शब्दात् अपि विभक्तिसंज्ञकप्रत्ययाः भवितुमर्हन्ति ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - 'किम्' , 'बहु' एताभ्यां शब्दाभ्याम्, तथा च सर्वादिगणे विद्यमानेभ्यः परन्तु द्व्यादिगणे अविद्यमानेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवितुमर्हन्ति ।

यथा -

  1. 'तसिल्' प्रत्ययः - किम् + तसिल् → कुतः । बहु + तसिल् → बहुतः । सर्व + तसिल् → सर्वतः ।

  2. 'था' प्रत्ययः - यद् + था → यथा । तद् + था → तथा । सर्व + था → सर्वथा ।

  3. 'ह' प्रत्ययः - इदम् + ह → इह ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <! बहुग्रहणे सङ्ख्याग्रहणम्!> । इत्युक्ते, 'बहु' शब्दः यत्र 'सङ्ख्या' ( = अनेके / many) अस्मिन् अर्थे प्रयुज्यते, तत्रैव विभक्तिसंज्ञकाः तद्धितप्रत्ययाः तस्मात् भवितुमर्हन्ति । अन्येषु अर्थेषु (यथा - विपुलता - too much /huge / large - अस्मिन् अर्थे) यदि अयं शब्दः प्रयुज्यते, तर्हि अस्मात् शब्दात् एते प्रत्ययाः न भवन्ति । यथा - 'बहुभ्यः जनेभ्यः' इत्यत्र 'बहुतः' इति प्रयोगः भवितुमर्हति, परन्तु 'बहोः सूपात्' इत्यत्र 'बहुतः' इति प्रयोगः न क्रियते ।

ज्ञातव्यम् - सर्वे विभक्तिसंज्ञकाः तद्धितप्रत्ययाः अस्मिन् सूत्रे पाठितेभ्यः सर्वेभ्यः शब्देभ्यः न विधीयन्ते । अस्मिन् विषये अग्रे विस्तारेण सूत्राणि पाठितानि सन्ति । अत्र केवलं विभक्तिसंज्ञक-तद्धितप्रत्ययानां 'सीमारेषा' (domain) निर्धार्यते । इत्युक्ते, 'विभक्तिसंज्ञकाः तद्धितप्रत्ययाः भवन्ति चेत् एतेभ्यः शब्देभ्यः एव भवन्ति, अन्येभ्यः न' - इति अस्य आशयः । अतः अस्मिन् सूत्रे अनुक्ताः ये शब्दाः - यथा - वन, वृक्ष, माला - आदयः - तेभ्यः एते प्रत्ययाः न भवन्ति ।

Balamanorama

Up

index: 5.3.2 sutra: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः


किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना ।