5-3-12 किमः अत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः
किमः सप्तम्याः अत् वा
'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे विकल्पेन 'अत्' प्रत्ययः विधीयते ।
किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलोऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलमपि। केचिदिच्छन्ति। कुत्र। तत्कथम् ? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते॥
वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्॥
'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे <<सप्तम्यास्त्रल्>> 5.3.10 इत्यनेन त्रल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण विकल्पेन 'अत्' प्रत्ययः अपि भवति । यथा - कस्मिन् इत्येव = कस्मिन् + अत् ['अत्' इति प्रत्ययः।] → कस्मिन् + अ [तकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → किम् + अ [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सप्तमीप्रत्ययस्य लुक्] → क्व + अ [<<क्वाति>> 7.2.105 इति 'किम्' इत्यस्य 'क्व'-आदेशः] → क्व् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → क्व अनेन निर्मितः 'क्व' शब्दः 'कुत्र' अस्मिन्नेव अर्थे प्रयुज्यते । <<तद्धितश्चासर्वविभक्तिः>> 1.3.38 इत्यनेन अस्य अव्ययसंज्ञा अपि भवति । स्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इति अपकर्षः अस्ति, <<वा ह च च्छन्दसि>> 5.3.13 इत्यस्मात् अस्य ग्रहणं भवति । अतः पक्षे <<सप्तम्यास्त्रल्>> इत्यनेन 'त्रल्' प्रत्ययं कृत्वा 'कुत्र' इत्यपि रूपं सिद्ध्यति । विशेषः - अस्मिन् सूत्रे पाठितः 'अत्' अयम् प्रत्ययः वस्तुतः <<प्राग्दिशो विभक्तिः>> 5.3.1 इत्यनेन विभक्तिसंज्ञकः अस्ति । अतः अस्य तकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञायाम् प्राप्तायाम् <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन तस्याः निषेधः भवेत् । इत्युक्ते, तकारस्य इत्संज्ञा नैव कर्तव्या । परन्तु अत्र 'अत्' प्रत्यये तकारस्य इत्संज्ञा अवश्यम् इष्यते । अस्य स्पष्टीकरणार्थम् <<न विभक्तौ तुस्माः>> 1.3.4 इत्यस्य अनित्यत्वमुदाह्रियते । इत्युक्ते, <<न विभक्तौ तुस्माः>> 1.3.4 इति सूत्रमनित्यमस्ति, अतः अत्र तकारस्य इत्संज्ञासमये अस्य प्रसक्तिः न विद्यते - इति आशयः । अस्मिन् विषये <<इदमस्थमुः>> 5.3.24 इत्यत्र अधिकेन उक्तमस्ति, तदपि दृश्येत ।
<<किमोऽत्>> - किमोऽत् । अपकृष्यत इति ।वा ह च छन्दसी॑त्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् ।न विभक्ता॑विति निषेधस्तु न भवति,तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते॑ इति वार्तिकात् ।
तकारस्य'न विभक्तौ तुस्माः' इतीत्संज्ञाप्रतिषेधो न भवति; अनित्यत्वात्। अनित्यत्वं तु ठिदमस्थमुःऽ इति थम उकारान्मकारस्येत्संज्ञापरिहाणार्थाज्ज्ञायते। दानीमस्तु मकारस्य भवत्येव प्रतिषेधः। अनित्यत्वं हि ज्ञाप्यते, न पुनस्तद्धितेष्वस्याभावः। उतरसूत्रादिति।'किमो' द्वाऽ इति सूत्रं पठितव्यम्।'ह च च्छन्दसि' इत्यत्र चकारेण त्रतलोः समुच्चयादिष्टसिद्धिरिति तेषां भावः। भागवृत्तिकारस्तु भाषायामेतन्नेच्छति ॥