सिजभ्यस्तविदिभ्यश्च

3-4-109 सिजभ्यस्तविदिभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य झेः जुस्

Sampurna sutra

Up

सिच्-अभ्यस्त-विदिभ्यः ङितः झेः जुस्

Neelesh Sanskrit Brief

Up

सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।

Neelesh English Brief

Up

The झि-प्रत्यय of a ङित्-लकार that follows सिच्, अभ्यस्त or the verb root विद् is converted to जुस्.

Kashika

Up

अलिङर्थ आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य झेर्जुसादेशो भवति। अभ्यस्तविदिग्रहणमसिजर्थम्। ङित इति चानुवर्तते। सिचस्तावत् — अकार्षुः। अहार्षुः। अभ्यस्तात् — अबिभयुः। अजिह्रयुः। अजागरुः। विदेः — अविदुः॥

Siddhanta Kaumudi

Up

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ {$ {! 3 षिध !} गत्याम् $} (धातुपाठे <{01.0049}>)॥

Neelesh Sanskrit Detailed

Up

सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । क्रमेण पश्यामः - 1. लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन 'च्लि' विकरणप्रत्ययः भवति । अस्य औत्सर्गिकरूपेण <<च्लेः सिच्>> 3.1.44 इति सिच्-आदेशः विधीयते । अस्मात् परस्य परस्मैपदस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः भवति । यथा, कृ-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - कृ + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] कृ + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → कृ + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः । → कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + कृ + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + कृ + स् + झि [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुष-बहुवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः झि-प्रत्ययः] → अ + कृ + स् + जुस् [<<सिजभ्यस्तविदिभ्यश्च>> 3.4.109 इति सिच्-प्रत्ययात् परस्य झि-प्रत्ययस्य जुस्-आदेशः] → अ + कार् + स् उस् [<<सिचि वृद्धिः परस्मैपदेषु>> 7.2.1 इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।] → अकार्षुः [विसर्गनिर्माणम्, <<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] 2. अभ्यस्त-संज्ञकात् परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा - दा-धातोः परस्मैपदस्य लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - दा + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + दा + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + दा + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → अ + दा + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → अ + दा + झि [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति शपः श्लुः (लोपः) ] → अ + दा + दा + झि [<<श्लौ>> 6.1.10 इति द्वित्वम्] → अ + द + दा + झि [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः] → अ + द + दा + जुस् [<<अदभ्यस्तात्>> 7.1.4 इति अभ्यस्तात् परस्य झि-इत्यस्य अत्-आदेशे प्राप्ते अपवादत्वेन <<सिजभ्यस्तविदिभ्यश्च>> 3.4.109 इति झि-इत्यस्य जुस्-आदेशः] → अ + द + द् + उस् [<<श्नाभ्यस्तयोरातः>>6.4.112 इति आकारलोपः] → अददुः 3. विद्-धातोः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा, विद्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - विद् + लिङ् [<<विधिनिमन्त्रणा...>> 3.3.161 इति लिङ्] → विद् + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → विद् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → विद् + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः श्लुः (लोपः) ] → विद् + जुस् [ <<सिजभ्यस्तविदिभ्यश्च>> 3.4.109 इति झि-इत्यस्य जुस्-आदेशः] → विदुः [<<श्नाभ्यस्तयोरातः>>6.4.112 इति आकारलोपः]

Balamanorama

Up

<<सिजभ्यस्तविदिभ्यश्च>> - सिजभ्यस्तविदि ।झेर्ज॑सिति सूत्रमनुवर्तते । 'नित्यं ङित' इत्यतो ङित इति च । तदाह — सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ।लिङो झेर्जुसी॑ति शेषः ।

Padamanjari

Up

सताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह - वेतेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह - ङ्तीति चानुवर्तत इति ॥